श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ पञ्चषष्टितमस्सर्गः ।
अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि ।
वन्दिनः पर्युपातिष्ठंस्तत्पार्थिव निवेशनम् ॥ 1 ॥
सूताः परमसंस्कारा मङ्गलाश्चोत्तमश्रुताः ।
गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक् ॥ 2 ॥
अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि ।
वन्दिनः पर्युपातिष्ठंस्तत्पार्थिव निवेशनम् ॥ 3 ॥
सूताः परमसंस्कारा मङ्गलाश्चोत्तमश्रुताः ।
गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक् ॥ 4 ॥
राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम् ।
प्रासादाऽभोगविस्तीर्णः स्तुतिशब्दोह्यवर्तत ॥ 5 ॥
ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः ।
अपदानान्युदाहृत्य पाणिवादा नवादयन् ॥ 6 ॥
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।
शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥ 7 ॥
व्याहृताः पुण्यशब्दाश्च वीणानां चापि निस्स्वनाः ।
आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ॥ 8 ॥
तत श्शुचिसमाचाराः पर्युपस्थानकोविदाः ।
स्त्रीवर्ष धरभूयिष्ठा उपतस्थुर्यथापुरम् ॥ 9 ॥
हरिचन्दनसम्पृक्तमुदकं काञ्चनैर्घटैः ।
आनिन्युस्स्नानशिक्षाज्ञा यथाकालं यथाविधि ॥ 10 ॥
मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् ।
उपनिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः ॥ 11 ॥
सर्वलक्षणसम्पन्नं सर्वं विधिवदर्चितम् ।
सर्वं सुगुणलक्ष्मीवत्तद्बभूवाभिहारिकम् ॥ 12 ॥
तत स्सूर्योदयं यावत्सर्वं परिसमुत्सुकम् ।
तस्थावनुपसम्प्राप्तं किंस्विदित्युपशङ्कितम् ॥ 13 ॥
अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः ।
ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ॥ 14 ॥
तथाप्युचितवृत्ता स्ता विनयेन नयेन च ।
नह्यस्य शयनं स्पृष्ट्वा किञ्चिदप्युपलेभिरे ॥ 15 ॥
ताः स्त्रियस्स्वप्नशीलज्ञाश्चेष्टासञ्चलनादिषु ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः ।
प्रतिस्रोतस्तृणाग्राणां सदृशं सञ्चकाशिरे ॥ 16 ॥
अथ सन्देहमानानां स्त्रीणां दृष्ट्वा च पार्थिवम् ।
यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः ॥ 17 ॥
कौसल्या च सुमत्रच पुत्रशोकपराजिते ।
प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ॥ 18 ॥
निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ।
न व्यराजत कौसल्या तारेव तिमिरावृता ॥ 19 ॥
कौसल्याऽनन्तरं राज्ञस्सुमित्रा तदन्तनरम् ।
न स्म विभ्राजते देवी शोकाश्रुलुलितानना ॥ 20 ॥
ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तं नृपम् ।
सुप्तमेवोद्गतप्राणमन्तःपुरमदृश्यत ॥ 21 ॥
ततः प्रचुक्रुशुर्दीना स्सस्वरं ता वराङ्गनाः ।
करेणव इवारण्ये स्थानप्रच्युतयूथपाः ॥ 22 ॥
तासामाक्रन्दशब्देन सहसोद्धतचेतने ।
कौसल्या च सुमित्रा च त्यक्त निद्रे बभूवतुः ॥ 23 ॥
कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ।
हा नाथेति परिक्रुश्य पेततुर्धरणीतले ॥ 24 ॥
सा कोसलेन्द्रदुहिता वेष्टमाना महीतले ।
न बभ्राज रजोध्वस्ता तारेव गगनाच्च्युता ॥ 25 ॥
नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि ।
अपश्यंस्ताः स्त्रियः सर्वा हतां नागवधूमिव ॥ 26 ॥
ततस्सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ।
रुदन्त्य श्शोकसन्तप्ता निपेतुर्गतचेतनाः ॥ 27 ॥
ताभिस्स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ।
येन स्फीतीकृतं भूयस्तद्गृहं समनादयत् ॥ 28 ॥
तत् परित्रस्तन्त्रसम्भ्रान्त पर्युत्सुकजनाकुलम् ।
सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् ॥ 29 ॥
सद्यो निपतितानन्दं दीनविक्लबदर्शनम् ।
बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः ॥ 30 ॥
अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं सम्परिवार्य पत्नयः ।
भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत् ॥ 31 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे पञ्चषष्टितमस्सर्गः ॥