श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ अष्टत्रिंशस्सर्गः ।
तस्यां चीरं वसानायां नाथवत्यामनाथवत् ।
प्रचुक्रोश जनस्सर्वो धिक्त्वां दशरथं त्विति ॥ 1 ॥
तेन तत्र प्रणादेन दुःखितस्स महीपतिः ।
चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः ॥ 2 ॥
स निःश्वस्योष्णमैक्ष्वाक स्तां भार्यामिदमब्रवीत् ।
कैकेयि कुशचीरेण न सीता गन्तुमर्हति ॥ 3 ॥
सुकुमारी च बाला च सततं च सुखोचिता ।
नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ 4 ॥
इयं हि कस्यापकरोति किञ्चि त्तपस्विनी राजवरस्य कन्या ।
या चीरमासाद्य जनस्य मध्ये स्थिता विसञ्ज्ञाश्रमणीव काचित् ॥ 5 ॥
चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा ।
यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः ॥ 6 ॥
अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत् ।
तवया हि बाल्यात् प्रतिपन्नमेतत् तन्मां दहेद्वेणुमिवात्मपुष्पम् ॥ 7 ॥
रामेण यदि ते पापे किञ्चित्कृतमशोभनम् ।
अपकारः क इह ते वैदेह्या दर्शितोऽधमे ॥ 8 ॥
मृगीवोत्फुल्लनयना मृदुशीला तपस्वीनी ।
अपकारं कमिह ते करोति जनकात्मजा ॥ 9 ॥
ननु पर्याप्त मेतत्ते पापे रामविवासनम् ।
किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ 10 ॥
प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता ।
रामं यदभिषेकाय त्वमिहागतमब्रवीः ॥ 11 ॥
तत्त्वेतत्समतिक्रम्य निरयं गन्तुमिच्छसि ।
मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ॥ 12 ॥
इतीव राजा विलपन्महात्मा शोकस्य नान्तं स ददर्श किञ्चित् ।
भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसनेन मग्नः ॥ 13 ॥
एवं ब्रुवन्तं पितरं रामस्सम्प्रस्थितो वनम् ।
अवाक्छिरसमासीनमिदं वचनमब्रवीत् ॥ 14 ॥
यं धार्मिक कौशल्या मम माता यशस्विनी ।
वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते ॥ 15 ॥
मया विहीनां वरद प्रपन्नां शोकसागरम् ।
अदृष्टपूर्वव्यसनां भूयस्सम्मन्तुमर्हसि ॥ 16 ॥
पुत्रशोकं यथा नर्च्छेत्त्वया पूज्येन पूजिता ।
मां हि सञ्चिन्तयन्ती सा त्वयि जीवेत्तपस्विनी ॥ 17 ॥
इमां महेन्न्द्रोपम जातगर्धिनीं तथा विधातुं जननीं ममार्हसि ।
यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ 18 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे अष्टत्रिंशस्सर्गः ॥