View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.105 अयोध्याकाण्ड - पञ्चाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ पञ्चाधिकशततमस्सर्गः ।

ततः पुरुषसिंहानां वृतानां तै स्सुहृद्गणैः ।
शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥ 1 ॥

रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः ।
मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ 2 ॥

तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् ।
भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ 3 ॥

सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ 4 ॥

महतेवाम्बुवेगेन भिन्नस्सेतुर्जलागमे ।
दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ 5 ॥

गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः ।
अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ 6 ॥

सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।
राम तेन तु दुर्जीवं यः परानुपजीवति ॥ 7 ॥

यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः ।
ह्रस्वकेण दुरारोहो रूढस्कन्धो महाद्रुमः ॥ 8 ॥

स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।
स तां नानुभवेत्प्रीतिं यस्य हेतोः प्ररोपितः ॥ 9 ॥

एषोपमा महाबाहो तमर्थं वेत्तु मर्हसि ।
यदि त्वमस्मान्वृषभो भर्ता भृत्यान्न शाधि हि ॥ 10 ॥

श्रेणयस्त्वां महाराज पश्यन्त्वग्य्राश्च सर्वशः ।
प्रतपन्तमिवादित्यं राज्ये स्थित मरिन्दमम् ॥ 11 ॥

तवानुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः ।
अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः ॥ 12 ॥

तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः ।
भरतस्य वच श्श्रुत्वा रामं प्रत्यनुयाचतः ॥ 13 ॥

तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् ।
रामः कृतात्मा भरतं समाश्वासयदात्मवान् ॥ 14 ॥

नाऽत्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः ।
इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥ 15 ॥

सर्वे क्षयान्ताः निचयाः पतनान्ता समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ 16 ॥

यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।
एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ 17 ॥

यथाऽगारं दृढस्थूणं जीर्णं भूत्वाऽवसीदति ।
तथैव सीदन्ति नरा जरामृत्युवशं गताः ॥ 18 ॥

अत्येति रजनी या तु सा न प्रतिनिवर्तते ।
यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ 19 ॥

अहो रात्राणि गग्च्छन्ति सर्वेषां प्राणिनां इह ।
आयूम्षि क्षपयन्त्य् आशु ग्रीष्मे जलं इव अंशवः ॥ 20 ॥

आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।
आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ 21 ॥

सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।
गत्वासुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ 22 ॥

गात्रेषु वलयः प्राप्ता श्श्वेताश्चैव शिरोरुहाः ।
जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ 23 ॥

नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमितेऽहनि ।
आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ 24 ॥

हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम् ।
ऋतूनां परिवर्तेन प्राणिनां प्राणसङ्क्षयः ॥ 25 ॥

यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।
समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ 26 ॥

एवं भार्याश्चपुत्राश्च ज्ञातयश्च धनानि च ।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ 27 ॥

यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।
समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ 28 ॥

एवं भार्याश्चपुत्राश्च ज्ञातयश्च धनानि च ।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ 29 ॥

नात्र कश्चिद्यथाभावं प्राणी समभिवर्तते ।
तेन तस्मिन्न सामर्थ्यं प्रेतस्या स्त्यनुशोचतः ॥ 30 ॥

यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः ।
अहमप्यागमिष्यामि पृष्ठतो भवता मिति ॥ 31 ॥

एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः ।
तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥ 32 ॥

वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः ।
आत्मा सुखे नियोक्तव्यस्सुखभाजः प्रजाः स्मृताः ॥ 33 ॥

धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः ।
स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥ 34 ॥

भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात् ।
अर्थादानाच्च धर्मेण पिता न स्त्रिदिवङ्गतः ॥ 35 ॥

कर्मभि स्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः ।
स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥ 36 ॥

इष्ट्वा बहुविधैर्यज्ञैर्भोगां श्चावाप्य पुष्कलान् ।
उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥ 37 ॥

आयुरुत्तममासाद्य भोगानपि च राघवः ।
स न शोच्यः पिता तात स्वर्गत स्सत्कृत स्सताम् ॥ 38 ॥

स जीर्णं मानुषं देहं परित्यज्य पिता हि नः ।
दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ 39 ॥

तं तु नैवंविधः कश्चित्प्राज्ञ श्शोचितुमर्हति ।
तत्विधो मद्विधश्चापि श्रुतवान्बुद्धिमत्तरः ॥ 40 ॥

एते बहुविधा शोका विलापरुदिते तथा ।
वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ 41 ॥

स स्वस्थो भव मा शोचेर्यात्वा चावसतां पुरीम् ।
तथा पित्रा नियुक्तोऽसि वशिना वदतां वर ॥ 42 ॥

यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा ।
तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् ॥ 43 ॥

न मया शासनं तस्य त्यक्तुं न्याय्य मरिन्दम ।
स त्वयापि सदा मान्यं स वै बन्धु स नः पिता ॥ 44 ॥

तद्वचः पितुरेवाहं सम्मतं धर्मचारिणः ।
कर्मणा पालयिष्यामि वनवासेन राघव ॥ 45 ॥

धार्मिकेणानृशंसेन नरेण गुरुवर्तिना ।
भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ 46 ॥

आत्मानमनुतिष्ठत्वं स्वभावेन नरर्षभ ।
निशाम्यतु शुभं वृत्तं पितुर्दशरथस्य नः ॥ 47 ॥

इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेश प्रतिपालनार्थम् ।
यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥ 48 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे पञ्चाधिकशततमस्सर्गः ॥




Browse Related Categories: