View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.46 युद्धकाण्ड - षट्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ षट्चत्वारिंशस्सर्गः ।

ततोद्याम्पृथिवीञ्चैववीक्षमाणावनौकसः ।
ददृशुःसन्ततौबाणैर्भ्रातरौरामलक्ष्मणौ ॥ 1 ॥

वृष्टवेवोपरतेदेवेकृतकर्मणिराक्षसे ।
आजगामाथतन्देशंससुग्रीवोविभीषणः ॥ 2 ॥

नीलद्विविदमैन्दाश्चसुषेणःकुमुदाङ्गदाः ।
तूर्णंहनुमतासार्धमन्वशोचन्तराघवौ ॥ 3 ॥

अचेष्टौमन्दनिश्श्वासौशोणितौघपरिप्लुतौ ।
शरजालाचितौस्तब्दौशयानौशरतल्पयोः ॥ 4 ॥

निःश्वसन्तौयथासर्पौनिश्चेष्टौमन्दविक्रमौ ।
रुधिरस्राद्विग्धाङ्गौतापनीयाविवध्वजौ ॥ 5 ॥

तौवीरशयनेवीरौशयानौमन्दचेष्टितौ ।
यूथपैस्तैः परिवृतौबाष्पव्याकुललोचनैः ॥ 6 ॥

राघवौपतितौदृष्टवाशरजालसमावृतौ ।
बभूवुर्वेर्व्यथितास्सर्वेवानरास्सविभीषणाः ॥ 7 ॥

अन्तरिक्षन्निरीक्षन्तोदिशस्सर्वाश्चवानराः ।
नचैनम्माययाछन्नन्ददृशूरावणिःरणे ॥ 8 ॥

तन्तुमायाप्रतिच्छन्नम्माययैवविभीषणः ।
वीक्षमाणोददर्शाथभ्रातुःपुत्रमवस्थितम् ॥ 9 ॥

तमप्रतिकर्माणमप्रतिद्वन्द्वमाहवे ।
ददर्शान्तर्हितंवीरंवरदानाद्विभीषणः ॥ 10 ॥

तेजसायशसाचैवविक्रमेणचसम्युतम् ।
इन्द्रजित्त्वात्मनःकर्मतौशयानौसमीक्ष्यच ॥ 11 ॥

उवाचपरमप्रीतोहर्षयन् सर्वनैरृतान् ।
दूषणस्यचहन्तारौखरस्यचमहाबलौ ॥ 12 ॥

सादितौमामकैर्बाणैर्भ्रातरौरामलक्ष्मणौ ।
नेमौमोक्षयितुंशक्यावेतस्मादिषुबन्धनात् ॥ 13 ॥

सर्वैरपिसमागम्यसर्षिसङ्घैस्सुरासुरैः ।
यत्कृतेचिन्तयानस्यशोकार्तस्यपितुर्मम ॥ 14 ॥

अस्पृष्टवाशयनङ्गात्रैस्त्रियामायातिशर्वरी ।
त्स्नेयंयत्कृतेलङ्कानदीवर्षास्विवाकुला ॥ 15 ॥

सोऽयम्मूलहरोऽनर्थःसर्वेषान्निहतोमया ।
रामस्यलक्ष्मणस्यैवसर्वेषाञ्चवनौकसाम् ।
विक्रमानिष्फलाःसर्वेयथाशरदितोयदाः ॥ 16 ॥

एवमुक्त्वातुतान् सर्वान्राक्षसान्परिपार्श्वतः ॥ 17 ॥

यूथपानपितान्सर्वांस्ताडयामासरावणिः ।
नीलन्नवभिराहत्यमैन्दञ्चद्विविदन्तथा ॥ 18 ॥

त्रिभिस्त्रिभिरमित्रघ्नस्ततापप्रवरेषुभिः ।
जाम्बवन्तम्महेष्वासोविद् ध्वाबाणेनवक्षसि ॥ 19 ॥

हनूमतोवेगवतोविससर्जशरान्दश ।
गवाक्षंशरभञ्चैवद्वावप्यमिततेजसौ ॥ 20 ॥

द्वाभ्यान्द्वाभ्याम्महावेगोविव्याधयुधिरावणिः ।
गोलाङ्गूलेश्वरञ्चैववालिपुत्रमथाङ्गदम् ॥ 21 ॥

विव्याधबहुभिर्बाणैस्त्वरमाणोऽथरावणिः ।
तान्वानरवरान्भित्त्वाशरैरग्निशिखोपमैः ॥ 22 ॥

ननादबलवांस्तत्रमहासत्त्वस्सरावणिः ।
तानर्धयित्वाबाणौघैस्त्रासयित्वाचवानरान् ॥ 23 ॥

प्रजहासमहाबाहुर्वचनञ्चेदमब्रवीत् ।
शरशब्देनघोरेणमयाबद्धौचमूमुखे ॥ 24 ॥

सहितौभ्रातरवेतौनिशामयतराक्षसाः ।
एवमुक्तास्तुतेसर्वेराक्षसाःकूटयोधिनः ॥ 25 ॥

परंविस्मयामाजग्मुःकर्मणातेनहर्षिताः ।
विनेदुश्चमहानादान् सर्वेतेजलदोपमाः ॥ 26 ॥

हतो राम;इति ज्नात्वा रावणिं समपूजयन् ।
निष्पन्दौ तु तदा दृष्ट्वा ताव् उभौ राम लक्ष्मणौ ॥ 27 ॥

वसुधायां निरुच्च्वासौ हताव् इत्य् अन्वमन्यत ।
हर्षेण तु समाविष्ट;इन्द्रजित् समितिं जयः ॥ 28 ॥

प्रविवेशपुरींलङ्कांहर्षयन् सर्वनैर्वृतान् ।
रामलक्ष्मणयोर्दृष्टवाशरीरेसायकैश्चिते ॥ 29 ॥

सर्वाणिचाङ्गोपाङ्गानिसुग्रीवम्भयमाविशत् ।
पर्यवस्थापयात्मानमनाथम्माञ्चवानर ॥ 30 ॥

सत्यधर्माभिरक्तानान्नास्तिमृत्युकृतम्भयम् ।
एवमुक्त्वाततस्तस्यजलक्लन्नेनपाणिना ॥ 31 ॥

सुग्रीवस्यशुभेनेत्रेप्रममार्जविभीषणः ।
ततस्सलिलमादायविद्ययापरिजप्यच ॥ 32 ॥

सुग्रीवनेत्रेधर्मात्मासममार्जविभीषणः ।
विमृज्यवदनन्तस्यकपिराजस्यधीमतः ॥ 33 ॥

अब्रवीत्कालसम्प्राप्तसम्भ्रान्तमिदंवचः ।
नकालःकपिराजेन्द्रवैक्लब्यमवलम्बितुम् ॥ 34 ॥

अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपकल्पते ।
तस्मादुत्सृज्यवैक्लब्यंसर्वकार्यविनाशनम् ॥ 35 ॥

हितंरामपुरोगणांसैन्यानानुचिन्त्यताम् ।
अथवारक्ष्यतांरामोयावत्सञ्ज्ञाविपर्ययः ॥ 36 ॥

लब्धसञ्ज्ञौहिकाकुत्स्थौभयन्नौव्यपनेष्यतः ।
नैतत्किञ्चनरामस्यनचरामोमुमूर्षति ॥ 37 ॥

नह्येनंहास्यतेलक्ष्मीद्दुर्लभायागतायुषाम् ।
तस्मादाश्वासयात्मानम्बलञ्चाश्वासयस्वकम् ॥ 38 ॥

यावत्कार्याणिसर्वाणिपुनःसंस्थापयाम्यहम् ।
एतेहिफुल्लनयनास्त्रासादागतसाध्वसाः ॥ 39 ॥

कर्णेकर्णेप्रकथिताहरयोहरिसत्तम ।
मान्तुदृष्टवाप्रधावन्तमनीकंसम्प्रहर्षितुम् ॥ 40 ॥

त्यजस्तुहरयस्त्रासम्भुक्तपूर्वामिवस्रजम् ।
समाश्वास्यतुसुग्रीवंराक्षसेन्द्रोविभीषणः ॥ 41 ॥

विद्रुतंवानरानीकन्तत्समाश्वासयत्पुनः ।
इन्द्रजित्तुमहामायःसर्वसैन्यसमावृतः ॥ 42 ॥

कर्णे कर्णे प्रकथिता हरयो हरि पुम्गव ।
मां तु दृष्ट्वा प्रधावन्तं अनीकं सम्प्रहर्षितुम् ॥ 43 ॥

आचचक्षेप्रियम्पित्रेनिहतौरामलक्ष्मणौ ।
उत्पपातततोहृष्टःपुत्रञ्चपरिषस्वजे ॥ 44 ॥

रावणोरक्षसाम्मध्येश्रुत्वाशत्रूनिपातितौ ।
उपाघ्रायचतम्मूद् र्नेनम्पप्रच्छप्रीतमानसः ॥ 45 ॥

पृच्छतेचयथावृत्तम्पित्रेतस्मैसर्वन्न्यवेदयत् ।
यथातौशरबन्धेननिश्चेष्टौनिष्प्रभौकृतौ ॥ 46 ॥

सहर्षवेगानुगतान्तरात्माश्रुत्वावचस्तस्यमहारथस्य ।
जहौज्वरन्दाशरथेःसमुत्थितम्प्रहृष्यवाचाऽभिननन्दपुत्रम् ॥ 47 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे षट्चत्वारिंशस्सर्गः ॥




Browse Related Categories: