श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ अष्टचत्वारिंशस्सर्गः ।
एवं बृवन्त्यां सीतायां संरब्दः परुषं वचः ।
ललाटे भृकुटीं कृत्वा रावणः प्रत्युवाच ह ॥ 1 ॥
भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि ।
रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ 2 ॥
यस्य देवास्सगन्धर्वाः पिशाचपतगोरगाः ।
विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ॥ 3 ॥
येन वैश्रवणो राजा द्वैमात्रः कारणान्तरे ।
द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥ 4 ॥
यद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् ।
कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥ 5 ॥
यस्य तत्पुष्पकं नाम विमानं कामगं शुभम् ।
वीर्यादेवार्जितं भद्रे येन यामि विहायसम् ॥ 6 ॥
मम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि ।
विद्रवन्ति परित्रस्तास्सुराश्शक्रपुरोगमाः ॥ 7 ॥
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः ।
तीव्रांशुश्शिशिरांशुश्च भयात्सम्पद्यते रविः ॥ 8 ॥
निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः ।
भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च ॥ 9 ॥
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा ।
सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ॥ 10 ॥
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजता ।
हेमकक्ष्या पुरी रम्या वैढूर्यमयतोरणा ॥ 11 ॥
हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता ।
सर्वकालफलैर्वृक्षैस्सङ्कुलोद्द्यानशोभिता ॥ 12 ॥
तत्र त्वं वसती सीते राजपुत्रि मया सह ।
न स्मरिष्यसि नारीणां मानुषीणां मनस्विनि ॥ 13 ॥
भुञ्जाना मानुषान्भोगान्दिव्यांश्च वरवर्णिनि ।
न स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥ 14 ॥
स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः ।
मन्दवीर्यस्सुतो ज्येष्ठस्ततः प्रस्थापितो वनम् ॥ 15 ॥
तेन किं भ्रष्टराज्येन रामेण गतचेतसा ।
करिष्यसि विशालाक्षि तापसेन तपस्विना ॥ 16 ॥
सर्वराक्षसभर्तारं कामात्स्वयमिहागतम् ।
न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥ 17 ॥
प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि ।
चरणेनाभिहत्येव पुरूरवसमूर्वशी ॥ 18 ॥
अङ्गुल्या न समो रामो मम युद्धे स मानुषः ।
तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि ॥ 19 ॥
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना ।
अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ॥ 20 ॥
कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् ।
भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥ 21 ॥
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः ।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ 22 ॥
अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् ।
न च रामस्य भार्यां मामपनीयास्ति जीवितम् ॥ 23 ॥
जीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम् ।
न मादृशीं राक्षस दूशयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे अष्टचत्वारिंशस्सर्गः ॥