श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ चतुस्त्रिंशस्सर्गः ।
कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव ।
अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥ 1 ॥
इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् ।
उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥ 2 ॥
पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः ।
गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥ 3 ॥
एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् ।
जगामाकाशमाविश्य ब्रह्मलोकं सनातनाम् ॥ 4 ॥
कस्य चित्त्वथ कालस्य कुशनाभस्य धीमतः ।
जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥ 5 ॥
स पिता मम काकुत्स्थ गाधिः परमधार्मिकः ।
कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥ 6 ॥
पूर्वजा भगिनी चापि मम राघव सुव्रता ।
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥ 7 ॥
सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी ।
कौशिकी परमोदारा प्रवृत्ता च महानदी ॥ 8 ॥
दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता ।
लोकस्य हितकामार्थं प्रवृत्ता भगिनी मम ॥ 9 ॥
ततोऽहं हिमवत्पार्श्वे वसामि निरतस्सुखम् ।
भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥ 10 ॥
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता ।
पतिव्रता महाभागा कौशिकी सरितां वरा ॥ 11 ॥
अहं हि नियमाद्राम हित्वा तां समुपागतः ।
सिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा ॥ 12 ॥
एषा राम ममोत्पत्तिस्स्वस्य वंशस्य कीर्तिता ।
देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥ 13 ॥
गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम ।
निद्रामभ्येहि भद्रं ते मा भूद्विघ्नोऽध्वनीह नः ॥ 14 ॥
निष्पन्दास्तरवस्सर्वे निलीनमृगपक्षिणः ।
नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥ 15 ॥
शनैर्वियुज्यते सन्ध्या नभो नेत्रैरिवावृतम् ।
नक्षत्रतारागहनं ज्योतिर्भिरिव भासते ॥ 16 ॥
उत्तिष्ठति च शीतांशुश्शशी लोकतमोनुदः ।
ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो ॥ 17 ॥
नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।
यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशनाः ॥ 18 ॥
एवमुक्त्वा महातेजा विरराम महामुनिः ।
साधु साध्विति तं सर्वे ऋषयो ह्यभ्यपूजयन् ॥ 19 ॥
कुशिकानामयं वंशो महान् धर्मपरस्सदा ।
ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥ 20 ॥
विशेषेण भवानेव विश्वामित्रो महायशाः ।
कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव ॥ 21 ॥
इति तैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः ।
निद्रामुपागमच्छ्रीमान् अस्तङ्गत इवांशुमान् ॥ 22 ॥
रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः ।
प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे चतुस्त्रिंशस्सर्गः ॥