View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.43 सुन्दरकाण्ड - त्रिचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ त्रिचत्वारिंशस्सर्गः ।

ततस्स किङ्करान्हत्वा हनुमान्ध्यानमास्थितः ।
वनं भग्नं मया चैत्यप्रासादो न विनाशितः ॥ 1 ॥

तस्मात्प्रासादमप्येवं भीमं विध्वंसयाम्यहम् ।
इति सञ्चिन्त्य मनसा हनुमान्दर्शयन्बलम् ॥ 2 ॥

चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् ।
आरुरोह कपिश्रेष्ठो हनुमान्मारुतात्मजः ॥ 3 ॥

आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः ।
बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ॥ 4 ॥

सम्प्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम् ।
हनुमान्प्रज्वलन्लक्ष्म्या पारियात्रोपमोऽभवत् ॥ 5 ॥

स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः ।
धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ 6 ॥

तस्यास्फोटितशब्देन महता श्रोत्रघातिना ।
पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ॥ 7 ॥

अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 8 ॥

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान्शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ 9 ॥

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ 10 ॥

अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ 11 ॥

एवमुक्त्वा विमानस्थश्चैत्यस्थान्हरियूथपः ।
ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम् ॥ 12 ॥

तेन शब्देन महता चैत्यपालाश्शतं ययुः ।
गृहीत्वा विविधानस्त्रान्प्रासान्खङ्गान्परश्वथान् ॥ 13 ॥

विसृजन्तो महाकाया मारुतिं पर्यवारयन् ।
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।
आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः ॥ 14 ॥

आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ।
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ॥ 15 ॥

ततो वातात्मजः क्रुद्धो भीम रूपं समास्थितः ॥ 16 ॥

प्रासादस्य महन्तस्य स्तम्बं हेमपरिष्कृतम् ।
उत्पाटयित्वा वेगेन हनुमान्पवनात्मजः ॥ 17 ॥

ततस्तं भ्रामयामास शतधारं महाबलः ।
तत्र चाग्निस्समभवत्प्रासादश्चाप्यदह्यत ॥ 18 ॥

दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः ।
स राक्षसशतं हत्त्वा वज्रेणेन्द्र इवासुरान् ॥ 19 ॥

अन्तरिक्षे स्थितश्श्तीमानिदं वचनमब्रवीत् ।
मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ॥ 20 ॥

बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ।
अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ 21 ॥

दशनागबलाः केचित्केचिद्दशगुणोत्तराः ।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ 22 ॥

सन्ति चौघबलाः केचित्केचिद्वायुबलोपमाः ।
अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः ॥ 23 ॥

ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः ।
शतैश्शतसहस्रैश्च कोटीभिरयुतैरपि ॥ 24 ॥

आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ।
नेयमस्ति पुरी लङ्का न यूयं न च रावणः ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रिचत्वारिंशस्सर्गः ॥




Browse Related Categories: