श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ सप्ताशीतितमस्सर्गः ।
गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ।
ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥ 1 ॥
सुकुमारो महासत्त्वस्सिंहस्कन्धो महाभुजः ।
पुण्डरीकविशालाक्ष स्तरुणः प्रियदर्शनः ॥ 2 ॥
प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः ।
पपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः ॥ 3 ॥
तदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः ।
परिष्वज्य रुरोदोच्चैर्विसञ्ज्ञश्शोककर्शितः ॥ 4 ॥
ततस्सर्वास्समापेतुर्मातरो भरतस्य ताः ।
उपवासकृशा दीना भर्तृव्यसनकर्शिताः ॥ 5 ॥
ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् ।
कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे ॥ 6 ॥
वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी ।
परिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥ 7 ॥
पुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते ।
अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् ॥ 8 ॥
त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृकेगते ।
वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥ 9 ॥
कच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किञ्चदप्रियम् ।
पुत्रे वाऽप्येकपुत्राया स्सहभार्ये वनं गते ॥ 10 ॥
स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः ।
कौसल्यां परिसान्त्वेद्यं गुहं वचनमब्रवीत् ॥ 11 ॥
भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः ।
अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ॥ 12 ॥
सोऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः ।
यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥ 13 ॥
अन्नमुच्चावचं भक्षाः फलानि विविधानि च ।
रामायाभ्यवहारार्थं बहुचोपहृतं मया ॥ 14 ॥
तत्सर्वं प्रत्यनुज्ञासीद्राम स्सत्यपराक्रमः ।
न तु तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन् ॥ 15 ॥
न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा ।
इति तेन वयं राजन्ननुनीता महात्मना ॥ 16 ॥
लक्ष्मणेन समानीतं पीत्वा वारि महायशाः ।
औपवास्यं तदाऽकार्षीद्राघवस्सह सीतया ॥ 17 ॥
ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा ।
वाग्यतास्ते त्रय स्सन्ध्यां समुपासत संहिताः ॥ 18 ॥
सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम् ।
स्वयमानीय बर्हींषि क्षिप्रं राघवकारणात् ॥ 19 ॥
तस्मिन्समाविशद्राम स्स्वास्तरे सह सीतया ।
प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ॥ 20 ॥
एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम् ।
यस्मिन्रामश्च सीता च रात्रिं तां शयितावुभौ ॥ 21 ॥
नियम्य पृष्ठे तु तलाङ्गुलित्रवान् शरैस्सुपूर्णाविषुधी परन्तपः ।
महाद्धनु स्सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत्परितोऽस्य केवलम् ॥ 22 ॥
तत स्त्वहञ्चोत्तमबाणचापधृत् स्थितोऽभवं तत्र स यत्र लक्ष्मणः ।
अतन्द्रितैर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे सप्ताशीतितमस्सर्गः ॥