श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ द्वात्रिंशस्सर्गः ।
सासीतातच्छिरोदृष्टवातच्चकार्मुकमुत्तमम् ।
सुग्रीवप्रतिसम्पर्गमाख्यातञ्चहनूमता ॥ 1 ॥
नयनेमुखवर्णञ्चभर्तुस्तत्सदृशम्मुखम् ।
केशान् केशान्तदेशञ्चतञ्चचूडामणिंशुभम् ॥ 2 ॥
एतैस्सर्वेरभिज्ञानैरभिज्ञायसुदुःखिता ।
निजगर्हेचकैकेयीङ्क्रोशन्तीकुररीयथा ॥ 3 ॥
सकामाभवकैकेयीहतोऽयङ्कुलनन्दनः ।
कुलमुत्सादितंसर्वन्त्वयाकलहशीलया ॥ 4 ॥
आर्येणकिन्तेकैकेयी कृतंरामेणविप्रियम् ।
यन्मयाचीरवसनस्त्वयाप्रस्थापितोवनम् ॥ 5 ॥
एवं उक्त्वा तु वैदेही वेपमाना तपस्विनी ।
जगाम जगतीं बाला चिन्ना तु कदली यथा ॥ 6 ॥
सामुहूर्तात्समाश्वास्यप्रतिलभ्यचचेतनाम् ।
तच्छिरस्समुपाघ्रायविललासायतेक्षणा ॥ 7 ॥
हाहताऽस्मिमहाबाहो वीरव्रतमनुव्रत ।
इमान्तेपश्चिमावस्थाङ्गताऽस्मिविधवाकृता ॥ 8 ॥
प्रथमम्मरणन्नार्याभर्तुर्वैगुण्यमुच्यते ।
सुवृत्तः स्साधुवृत्तायास्सम्वृत्तस्त्वम्ममाग्रतः ॥ 9 ॥
दुःखाद्दुःखम्प्रपन्नायामग्नायाश्शोकसागरे ।
योहिमामुद्यतनिस्त्रातुंसोऽपित्वंविनिपातितः ॥ 10 ॥
साश्वश्रूर्ममकौसल्यात्वयापुत्रेणराघवः ।
वत्सेनेवयथाधेनुर्विवत्सावत्सलाकृता ॥ 11 ॥
आद्दिष्टन्दीर्घमायुस्तेयैरचिन्त्यपराक्रम ।
अनृतंवचनन्तेषामल्पायुरपिराघव ॥ 12 ॥
अथवानश्यतिप्रज्ञाप्राज्ञस्यापिसतस्तव ।
पचत्येनंयथाकालोभूतानाम्प्रभवोऽह्ययम् ॥ 13 ॥
अदृष्टम्मृत्युमापन्नःकस्मात्त्वन्नयशास्त्रवित् ।
व्यसनानामुपायज्ञःकुशलोह्यसिवर्जने ॥ 14 ॥
तथा त्वं सम्परिष्वज्य रौद्रया अतिनृशंसया ।
काल रात्र्या मया आच्चिद्य हृतः कमल लोचन ॥ 15 ॥
उपशेषेमहाबाहोः मांविहायतपस्विनीम् ।
प्रियामिवसमालशिष्यपृथिवीम्पुरुषर्षभ ॥ 16 ॥
अर्चितंसततंयत्तद्गन्धमाल्यैर्मयातव ।
इदन्तेमप्रतियंवीरधनुःकाञ्चानभूषणम् ॥ 17 ॥
पित्रादशरथेनत्वंश्वशुरेणममानघः ।
सर्वैश्चपितृभिस्सार्थन्नूनंस्वर्गेसमागतः ॥ 18 ॥
दिविनक्षत्रभूतस्त्वम्महात्कर्मकृतप्रियम् ।
पुण्यंराजर्षिवंशन्त्वमात्मनस्समुपेक्षसे ॥ 19 ॥
किम्मान्नप्रेक्षसेराजन् किम्मान्नप्रतिभाषसे ।
बालाम्बाल्येनसम्प्राप्ताम्भार्याम्मांसहचारिणीम् ॥ 20 ॥
संश्रुतङ्गृह्णतापाणिञ्चरिष्यामीतियत्त्वया ।
स्मरतन्ममकाकुत्स्थनयमामपिदुःखिताम् ॥ 21 ॥
कस्मान्मामपहायत्वङ्गतोगतिमतांवर ।
अस्माल्लोकादमुंलोकन्त्यक्त्वामामपिदुःखिताम् ॥ 22 ॥
कल्याणैरुचितंयत्तत्परिष्वक्तम्मयैवतु ।
क्रव्यादैस्तच्छरीरन्तेमानंविपरिकृष्यते ॥ 23 ॥
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ।
अग्निहोत्रेणसंस्कारङ्केनत्वन्नतुलप्स्यसे ॥ 24 ॥
प्रव्रज्यामुपपन्नानान्त्रयाणामेकमागतम् ।
परिप्रक्ष्यतिकौसल्यालक्ष्मणंशोकलालसा ॥ 25 ॥
सतस्याःपरिपृच्छन्त्यावधम्मित्रबलस्यते ।
तवचाख्यास्यतेनूनन्निशायांराक्षसैर्वधम् ॥ 26 ॥
सात्वांसुप्तंहतंश्रुत्वामाञ्चरक्षोगृहङ्गताम् ।
हृदयेनविदीर्णेननभविष्यतिराघव ॥ 27 ॥
ममहेतोरनार्यायाह्यनर्हःपार्थिवात्मः ।
रामस्सागरमुततीर्यसत्त्ववान् गोष्पदेहतः ॥ 28 ॥
अहन्दाशरथेनोढामोहात्स्वकुलपांसनी ।
आर्यपुत्रस्यरामस्यभार्यामृत्युरजायत ॥ 29 ॥
नूनमन्याम्मयाजातिंवारितन्दानमुत्तमम् ।
याहमद्येहशोचामिभार्यासर्वतिथेरपि ॥ 30 ॥
साधुपातयमाङ्क्षिप्रंरामस्योपरिरावण ।
समानयपतिम्पन्त्याकुरुकल्याणमुत्तमम् ॥ 31 ॥
शिरसामेशिरश्चास्यकायङ्कायेनयोजय ।
रावणानुगमिष्यामिगतिम्भर्तुर्महात्मनः ॥ 32 ॥
इतिसदुःखसन्तप्ताविललापायतेक्षणा ।
भर्तुश्शिरोधनुस्तत्रसमीक्ष्यचपुनःपुनः ॥ 33 ॥
एवंलालप्यमानायांसीतायान्तत्रराक्षसः ।
अभिचक्रामभर्तारमनीकस्थःकृताञ्जलिः ॥ 34 ॥
विजयस्वार्यपुत्रेतिसोऽभिवाद्यप्रसाद्यच ।
न्यवेदयदनुप्राप्तम्प्रहस्तंवाहिनीपतिम् ॥ 35 ॥
अमात्यैस्सहितस्सर्वैःप्रहस्तस्समुपस्थितः ।
तेनदर्शनकामेनवयम्प्रस्थापिताःप्रभो ॥ 36 ॥
नूनमस्तिमहाराज राजभावात्क्षमान्वितम् ।
किञ्चिदात्ययिकङ्कार्यन्तेषान्त्वन्दर्शनङ्कुरु ॥ 37 ॥
एतच्छ्रुत्वादशग्रीवोराक्षसप्रतिवेदितम् ।
अशोकन्विकान्त्यक्त्वामन्त्रिणान्दर्शनंययौ ॥ 38 ॥
सतुसर्वंसमर्थ्यैवमन्त्रिभिःकृत्यमात्मनः ।
सभाम्प्रविश्यविदधेविदित्वारामविक्रमम् ॥ 39 ॥
अन्तर्थानन्तुतच्छीर्षन्तच्चकार्मुकमुत्तमम् ।
जगामरावणस्यैवनिर्याणसमनन्तरम् ॥ 40 ॥
राक्षसेन्द्रस्तुतैस्सार्धम्मन्त्रिभिर्भीमविक्रमैः ।
समर्थयामासतदारामकार्यविनिश्चयम् ॥ 41 ॥
अविदूरस्थितान्सर्वान्बलाध्यक्षाहनितैषिणः ।
अब्रवीत्कालसदृशोरावणोराक्षसाधिपः ॥ 42 ॥
शीघ्रम्भेरीनिनादेनस्फुटङ्कोणाहतेनमे ।
समानयध्वंसैन्यानिवक्तव्यञ्चनकारणम् ॥ 43 ॥
ततस्तथेतिप्रतिगृह्यतद्वचोबलाधिपास्तेमहदात्मनोबलम् ।
समानयंश्चैवसमागमञ्चतेन्यवेदयन्भर्तरियुद्धकाङ्क्षिणि ॥ 44 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे द्वात्रिंशस्सर्गः ॥