View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.35 युद्धकाण्ड - पञ्चत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ पञ्चत्रिंशस्सर्गः ।

तेनशङ्खविमिश्रेणभेरीशब्देनराघवः ।
उपयातिमहाबाहूरामःपरपुरञ्जयः ॥ 1 ॥

तन्निनादन्निशम्याथरावणोराक्षसेश्वरः ।
मुहूर्तन्ध्यानमास्थायसचिवानभ्युदैक्षत ॥ 2 ॥

अथतान्सचिवांस्तत्रसर्वानाभाष्यरावणः ।
सभांसन्नादयन् सर्वामित्युवाचमहाबलः ॥ 3 ॥

जगत्सन्तापन्क्रूरोगर्हयन्राक्षसेश्वरः ।
तरणंसागरस्यापिविक्रमम्बलसञ्जियम् ॥ 4 ॥

यदुक्तवन्तोरामस्यभवन्तस्तन्मयाश्रुतम् ।
भवतश्चाप्यहंवेमदियुद्धेसत्यपराक्रमान् ॥ 5 ॥

तूषिकानीक्षतोऽन्योन्यंविदित्वारामविक्रमम् ।
ततस्तुसुमहाप्राज्ञोमाल्यवान्नामराक्षसः ॥ 6 ॥

रावणस्यवचश्श्रुत्वामातुःपैतामहोऽब्रवीत् ।
विद्यास्वभिविनीतोयोराजाराजन्नयानुगः ॥ 7 ॥

सशास्तिचिरमैश्वर्यमरींश्चकुरुतेवशे ।
सन्दधानोहिकालेनविगृह्णंश्चारिभिस्सह ॥ 8 ॥

स्वपक्षवर्थनङ्कुर्वन्महदैश्वर्यमश्नुते ।
हीयमानेनकर्तव्योराज्ञासन्धिस्समेवच ॥ 9 ॥

नशत्रुमवमन्येतज्यायान्कुर्वीतविग्रहम् ।
तन्मह्यंरोचतेसन्धिस्सहरामेणरावण ॥ 10 ॥

यदर्थमभियुक्ताः स्मसीतातस्मैप्रदीयताम् ।
यस्यदेवर्षयस्सर्वेगन्धर्वाश्चजयैषिणः ॥ 11 ॥

विरोथम्मागमस्तेनसन्धिस्तेतेनरोचताम् ।
असृजद्भगवान्पक्षौद्वावेनहिपितामहः ॥ 12 ॥

सुराणामसुराणाञ्चधर्माधर्मौतदाश्रयौ ।
धर्मोहिश्रूयतेपक्षीह्यमराणाम्महात्मनाम् ॥ 13 ॥

अधर्मोरक्षसाम्पक्षोह्यसुराणाञ्चराक्षस ।
धर्मोवैग्रसतेऽधर्मन्ततःकृतमभूद्युगम् ॥ 14 ॥

अधर्मोग्रसतेधर्मन्ततस्तिष्यःप्रवर्तते ।
तत्त्वयाचरयालोकान्धर्मोपिविनिहतोमहान् ॥ 15 ॥

अधर्मःप्रगृहीतश्चतेनास्मद्बलिनःपरे ।
सप्रमादावदिवृद्धस्तेऽधर्मोहिग्रसतेहिनः ॥ 16 ॥

विवर्थयतिपक्षञ्चसुराणांसुरभावनः ।
विषयेषुप्रसक्तेनयत्किञ्चित्कारणात्वया ॥ 17 ॥

ऱ्षीणां अग्नि कल्पानां उद्वेगो जनितो महान् ।
तेषां प्रभावो दुर्धर्षः प्रदीप्त;इव पावकः ॥ 18 ॥

तपसाभावितात्मानोधर्मस्यानुग्रहेरताः ।
मुख्यर्यज्ञैर्यजन्त्येतेनित्यन्तैस्सैर्द्विजातयः ॥ 19 ॥

जुह्वत्यनगींश्चविधिवद्वेदांश्चोच्चैरधीयते ।
अभिभूयचरक्षांसिब्रह्मघोषानुदैरयन् ॥ 20 ॥

दिशोऽपिविद्रुतास्सर्वेस्तनयित्नुरिवोष्णगे ।
ऋषीणामग्निकल्पानामग्निहोत्रासमुत्थितः ॥ 21 ॥

अदत्तेरक्षसान्तेजोधूमोव्याप्यदिशोदश ।
तेषुतेषुचदेशेषुपुण्येष्वेवदृढव्रतैः ॥ 22 ॥

चर्यमाणन्तपस्तीव्रंसन्तापयतिराक्षसान् ।
देवदानवयक्षेभ्योगृहीतश्चवरस्त्वया ॥ 23 ॥

मनुष्या वानरा ऋक्षा गोलाङ्गूला महाबलाः ।
बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥ 24 ॥

उत्पातान्विविधान्दृष्टवाघोरन्बहुविधांस्तथा ।
विनाशमनुपश्यामिसर्वेषांरक्षसामहम् ॥ 25 ॥

खराभिस्न्तिताघोरामेघाःप्रतिभयङ्कराः ।
शोणितेनाभिवर्षन्तिलङ्कामुष्णेनसर्वतः ॥ 26 ॥

रुदतांवाहनानाञ्चप्रपवन्त्यौस्रबिन्दवः ।
ध्वजाध्वस्ताविवर्णाश्चनप्रभान्तियथापुरम् ॥ 27 ॥

व्याला गोमायवो ग्R​ इध्रा वाशन्ति च सुभैरवम् ।
प्रविश्य लन्कां अनिशं समवायांसः च कुर्वते ॥ 28 ॥

कालिकाः पाण्डुरैर् दन्तैः प्रहसन्त्य् अग्रतः स्थिताः ।
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥ 29 ॥

गृहाणाम्बलिकर्माणिश्वानःपर्युपभुञ्जते ।
खरागोषुप्रजायन्तेमूषकानकुलैस्सह ॥ 30 ॥

मार्जाराद्वीपिभिस्सार्थंसूकराश्शुनकैस्सह ।
किन्नराराक्षसैश्चापिसमीयुर्मानुषैस्सह ॥ 31 ॥

पाण्डुरारक्तपादाश्चविहङ्गाःकालचोदिताः ।
राक्षसानांविनाशायकपोताविचरन्तिच ॥ 32 ॥

वीचीकूचीतिवाश्य्नत्यश्शारिकावेश्मसुस्थिताः ।
पतन्तिग्रथिताश्चापिनिर्जिताःकलहैषिणः ॥ 33 ॥

पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति ते ।
करालो विकटो मुण्डः पुरुषः कृष्ण पिन्गलः ॥ 34 ॥

कालोगृहाणिसर्वेषाङ्कालेकालेऽन्ववेक्षते ।
एतान्यन्यानिदुष्टानिनिमित्तान्युत्पतन्तिच ॥ 35 ॥

विष्णुम्मन्यामहेरामम्मानुषंरूपमास्थितम् ।
नहिमानुषमात्रोऽसौराघवोदृढविक्रमः ॥ 36 ॥

येनबद्धःसमुद्रेचसेतुःसपरमाद्भुतः ।
कुरुष्वनरराजेनसधनिंरामेणरावण ॥ 37 ॥

ज्ञात्वावधार्यकर्माणिक्रियतामायतिक्षमम् ।
इदंवचस्तत्रनिशम्यमाल्यवान्परीक्ष्यरक्षोधिपतेर्मनःपुनः ।
अनुत्तमेषूत्तमपौरुषोबलीबभूवतूष्णींसमवेक्ष्यरावणम् ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे पञ्चत्रिंशस्सर्गः ॥




Browse Related Categories: