View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.117 अयोध्याकाण्ड - सप्तदशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ सप्तदशाधिकशततमस्सर्गः ।

राघव स्त्वथ यातेषु तपस्विषु विचिन्तयन् ।
न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ 1 ॥

इह मे भरतो दृष्टो मातरश्च सनागराः ।
सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ 2 ॥

स्कन्धावारनिवेशेन तेन तस्य महात्मनः ।
हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम् ॥ 3 ॥

तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः ।
प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥ 4 ॥

सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः ।
तं चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत ॥ 5 ॥

स्वयमातिथ्यमादिश्य सर्वमन्यत्सुसत्कृतम् ।
सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ 6 ॥

पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।
सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥ 7 ॥

आनसूयां महाभागां तापसीं धर्मचारिणीं प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः ।
रामाय चाऽचचक्षे तां तापसीं धर्मचारिणीम् ॥ 8 ॥

दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ॥ 9 ॥

यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ।
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ॥ 10 ॥

दश वर्ष सहास्राणि तया तप्तं महत्तपः ।
अनसूया व्रतै स्स्नाता प्रत्यूहाश्च निवर्तिताः ॥ 11 ॥

देवकार्यनिमित्तं च यया सन्त्वरमाणया ।
दशरात्रं कृता रात्रि स्सेयं मातेव तेऽनघ ॥ 12 ॥

दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ॥ 13 ॥

यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ।
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ॥ 14 ॥

दश वर्षसहास्राणि यया तप्तं महत् तपः ।
अनसूया व्रतै स्स्नाता प्रत्यूहाश्च निवर्तिताः ॥ 15 ॥

देवकार्यनिमित्तं च यया सन्त्वरमाणया ।
दशरात्रं कृता रात्रि स्सेयं मातेव तेऽनघ ॥ 16 ॥

दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ॥ 17 ॥

यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ।
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ॥ 18 ॥

दश वर्ष सहास्राणि तया तप्तं महत्तपः ।
अनसूया व्रतै स्स्नाता प्रत्यूहाश्च निवर्तिताः ॥ 19 ॥

देवकार्यनिमित्तं च यया सन्त्वरमाणया ।
दशरात्रं कृता रात्रि स्सेयं मातेव तेऽनघ ॥ 20 ॥

तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीं अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।
अनसूयेति या लोके कर्मभिः ख्यातिमागता ॥ 21 ॥

एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः ।
सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ 22 ॥

राजपुत्रि श्रुतमिदं मुनेरस्य समीरितम् ।
श्रेयोऽर्थमात्मनश्शीघ्रमभिगच्छ तपस्विनीम् ॥ 23 ॥

सीता त्वेतद वचः श्रुत्वा राघवस्य हितैषिणः ।
तामत्रिपन्तीं धर्मज्ञामभिचक्राम मैथिली ॥ 24 ॥

शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम् ।
सततं वेपमानाङ्गीं प्रवाते कदलीं यथा ॥ 25 ॥

तां तु सीता महाभागामनसूयां पतिव्रताम् ।
अभ्यवादयदव्यग्रा स्वं नाम समुदाहरत् ॥ 26 ॥

शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम् ।
सततं वेपमानाङ्गीं प्रवाते कदलीं यथा ॥ 27 ॥

तां तु सीता महाभागामनसूयां पतिव्रताम् ।
अभ्यवादयदव्यग्रा स्वन्नाम समुदाहरत् ॥ 28 ॥

अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।
बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ 29 ॥

ततस्सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।
सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ 30 ॥

त्यक्त्वा ज्ञातिजनं सीते मानमृद्धं च भामिनि ।
अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ 31 ॥

नगरस्थो वनस्थो वा पापो वा यदि वा शुभः ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ 32 ॥

दुश्शीलः कामवृत्तो वा धनैर्वा परिवर्जितः ।
स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥ 33 ॥

नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।
सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम् ॥ 34 ॥

न त्वेवमवगच्छन्ति गुणदोषमसत्त्स्रियः ।
कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः ॥ 35 ॥

प्राप्नुवन्त्य यशश्चैव धर्मभ्रंशं च मैथिलि ।
अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥ 36 ॥

त्वद्विधास्तु गुणैर्युक्ता दृष्ट लोक परावराः ।
स्त्रिय स्स्वर्गे चरिष्यन्ति यथा धर्मकृतस्तथा ॥ 37 ॥

तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।
भव स्वभर्तु स्सहधर्मचारिणी यशश्च धर्मं च तत स्समाप्स्यसि ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे सप्तदशाधिकशततमस्सर्गः ॥




Browse Related Categories: