View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

3.32 अरण्यकाण्ड - द्वात्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ द्वात्रिंशस्सर्गः ।

ततश्शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश ।
हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ॥ 1 ॥

दूषणं च खरं चैव हतं त्रिशिरसा सह ।
दृष्ट्वा पुनर्महानादं ननाद जलदो यथा ॥ 2 ॥

सा दृष्ट्वा कर्म रामस्य कृतमन्यैस्सुदुष्करम् ।
जगाम परमोद्विग्ना लङ्कां रावणपालिताम् ॥ 3 ॥

सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् ।
उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् ॥ 4 ॥

आसीनं सूर्यसङ्काशे काञ्चने परमासने ।
रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ॥ 5 ॥

देवगन्धर्वभूतानामृषीणां च महात्मनाम् ।
अजेयं समरे शूरं व्यात्ताननमिवान्तकम् ॥ 6 ॥

देवासुरविमर्देषु वज्राशनिकृतव्रणम् ।
ऐरावतविषाणग्रैरुद्घृष्टकिणवक्षसम् ॥ 7 ॥

विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् ।
विशालवक्षसं वीरं राजलक्षण शोभितम् ॥ 8 ॥

स्निग्धवैडूर्यसङ्काशं तप्तकाञ्चनकुण्डलम् ।
सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् ॥ 9 ॥

विष्णुचक्रनिपातैश्च शतशो देवसंयुगे ।
अन्यैश्शस्त्रप्रहारैश्च महायुद्धेषु ताडितम् ॥ 10 ॥

अहताङ्गं समस्तैश्च देवप्रहरणैस्तथा ।
अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ॥ 11 ॥

क्षेप्तारं पर्वतेन्द्राणां सुराणां च प्रमर्दनम् ।
उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ॥ 12 ॥

सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा ।
पुरीं भोगवतीं प्राप्य पराजित्य च वासुकिम् ॥ 13 ॥

तक्षकस्य प्रियां भार्यां पराजित्य जहार यः ।
कैलासपर्वतं गत्वा विजित्य नरवाहनम् ।
विमानं पुष्पकं तस्य कामगं वै जहार यः ॥ 14 ॥

वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् ।
विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान् ॥ 15 ॥

चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परन्तपौ ।
निवारयति बाहुभ्यां यश्शैलशिखरोपमः ॥ 16 ॥

दशवर्षसहस्राणि तपस्तप्वा महावने ।
पुरा स्वयम्भुवे धीरश्शिरांस्युपजहार यः ॥ 17 ॥

देवदानवगन्धर्वपिशाचपतगोरगैः ।
अभयं यस्य सङ्ग्रामे मृत्युतो मानुषादृते ॥ 18 ॥

मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः ।
हविर्धानेषु यस्सोममुपहन्ति महाबलः ॥ 19 ॥

आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् ।
कर्कशं निरनुक्रोशं प्रजानामहिते रतम् ॥ 20 ॥

रावणं सर्वभूतानां सर्वलोकभयावहम् ।
राक्षसी भ्रातरं शूरं सा ददर्श महाबलम् ॥ 21 ॥

तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् ।
आसने सूपविष्टं च कालकालमिवोद्यतम् ॥ 22 ॥

राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् ॥ 23 ॥

रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम् ।
अभिगम्याब्रवीद्वाक्यं राक्षसी भयविह्वला ॥ 24 ॥

तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्छिता ।
सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे द्वात्रिंशस्सर्गः ॥




Browse Related Categories: