श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ पञ्चाशस्सर्गः ।
अथोवाचमहातेजाहरिराजोमहाबलः ।
किमियंव्यथितासेनामूढवातेवनौर्जले ॥ 1 ॥
सुग्रीवस्यवचश्श्रुत्वावालिपुत्रोऽङ्गदोऽब्रवीत् ।
नत्वम्पश्यसिरामञ्चलक्ष्मणञ्चमहारथम् ॥ 2 ॥
शरजालचितौवीरावुभौदशरथात्मजौ ।
शरतल्पेमहात्मानौशयानौरुधिरोक्षितौ ॥ 3 ॥
अथाब्रवीद्वानरेन्द्रस्सुग्रीवःपुत्रमङ्गदम् ।
नानिमित्तमिदम्मन्येभवितव्यम्भयेनतु ॥ 4 ॥
विषण्णवदनाह्येतेत्यक्तप्रहरणादिशः ।
प्रपलायन्तिहरयस्त्रासादुत्फुल्ललोचनाः ॥ 5 ॥
अन्योन्यस्यनलज्जन्तेनिरीक्षन्तिपृष्ठतः ।
विप्रकर्षन्तिचान्योन्यम्पतितंलङ्घयन्तिच ॥ 6 ॥
एतस्मिन्नन्तरेवीरोगदापाणिर्विभीषणः ।
सुग्रीवंवर्धयामासराघवञ्चनिरैक्षत ॥ 7 ॥
विभीषणञ्चसुग्रीवोदृष्टवावानरभीषणम् ।
ऋक्षराजम्महात्मानंसमीपस्थमुवाचह ॥ 8 ॥
विभीषणोऽयंसम्प्राप्तोयन्दृष्टवावानरर्षभाः ।
विद्रवन्तिपरितत्रसरावणात्मजशङ्कया ॥ 9 ॥
शीघ्रमेतान् सुसन्त्रस्तान्बहुधाविप्रधावितान् ।
पर्यवस्थापयाख्याहिविभीषणमुपस्थितम् ॥ 10 ॥
सुग्रीवेणैवमुक्तस्तुजाम्बवानृक्षपार्थिवः ।
वानरान्सान्त्वयामाससन्निरुध्यप्रधानतः ॥ 11 ॥
तेनिवृत्ताःपुनःसर्वेवानरास्त्यक्तसम्भ्रमाः ।
ऋक्षराजवचश्श्रुत्वातञ्चदृष्टवाविभीषणम् ॥ 12 ॥
विभीषणस्तुरामस्यदृष्टवागात्रंशरैश्चितम् ।
लक्ष्मणस्यचधर्मात्माबभूवव्यथितस्तदा ॥ 13 ॥
जलक्लिन्नेनहस्तेनतयोर्नेत्रेप्रमृज्यच ।
शोकसम्पीडितमनारुरोदविललापच ॥ 14 ॥
इमौतौसत्त्वसम्पन्नौविक्रान्तौप्रियसम्युगौ ।
इमामवस्थाङ्गमितौराक्षसैःकूटयोधिभिः ॥ 15 ॥
भ्रातुःपुत्रेणमेतेनदुष्पुत्रेणदुरात्मना ।
राक्षस्याजिह्मयाबुध्याचालितावृजुविक्रमौ ॥ 16 ॥
शरैरिमावलंविद्धौरुधिरेणसमुक्षितौ ।
वसुधायामिमौसुप्तौदृश्येतेशल्यकाविव ॥ 17 ॥
ययोर्वीर्यमुपाश्रित्यप्रतिष्ठाकाङ्क्षितामया ।
तावुभौदेहनाशायप्रसुप्तौपुरुषर्षभौ ॥ 18 ॥
जीवन्नद्यविपन्नोऽस्मिनष्टराज्यमनोरथः ।
प्राप्तप्रतिज्ञश्चरिपुःसकामोरावणःकृतः ॥ 19 ॥
एवंविलपमानन्तम्परिष्वज्यविभीषणम् ।
सुग्रीवःसत्त्वसम्पन्नोहरिराजोऽब्रवीदिदम् ॥ 20 ॥
राज्यम्प्राप्स्यसिधर्मज्ञ लङ्कायान्नात्रसंशयः ।
रावणस्सहपुत्रेणस्वकामन्नेहलप्स्यते ॥ 21 ॥
नरुजापीडितावेतावुभौराघवलक्ष्मणौ ।
त्यक्त्वामोहंवधिष्येतेसगणंरावणंरणे ॥ 22 ॥
तमेवंसान्त्वयित्वातुसमाश्वास्यचराक्षसम् ।
सुषेणंश्वशुरम्पार्श्वेसुग्रीवस्तमुवाचह ॥ 23 ॥
सहशूरैर्हरिगणैर्लब्धसञ्ज्ञावरिन्दमौ ।
गच्छत्वम्भ्रातरङ्गृह्यकिष्किन्धांरामलक्ष्मणौ ॥ 24 ॥
अहन्तुरावणंहत्वासपुत्रंसहबान्धवम् ।
मैथिलीमानयिष्यामिशक्रोनष्टामिवश्रियम् ॥ 25 ॥
श्रुत्वैतद्वानरेन्द्रस्यसुषेणोवाक्यमब्रवीत् ।
दैवासुरम्महद्युद्धमनुभूतंसुदारुणम् ॥ 26 ॥
तदास्मदानवाशरसम्स्पर्शकोविदाः ।
निजघ्नुश्शस्त्रविदुषश्चादयन्तोमुहुर्मुहुः ॥ 27 ॥
तानार्तान्नष्टसञ्ज्ञांश्चगतासूंश्चबृहस्पतिः ।
विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ॥ 28 ॥
तान्यौषधान्यानयितुङ्क्षीरोदंयान्तुसागरम् ।
जवेनवानराःशीघ्रंसम्पातिपनसादयः ॥ 29 ॥
हरयस्तुविजानन्तिपार्वतीस्तामहौषधीः ।
सञ्जीवकरणीन्दिव्यांविशल्यान्देवनिर्मिताम् ॥ 30 ॥
चन्द्रश्चनामद्रोणश्चक्षीरोदेसागरोत्तमे ।
अमृतंयत्रमथितन्तत्रतेपरमौषधी ॥ 31 ॥
तौतत्रविहितेदेवैःपर्वतौमहोदधौ ।
अयंवायुसुतोराजन् हनूमांस्तत्रगच्छतु ॥ 32 ॥
एतस्मिन्नन्तरेवायुर्मेगांश्चापिसविद्युतः ।
पर्यस्यसागरेतोयङ्कम्पयननिवमेदिनीम् ॥ 33 ॥
महतापक्षवातेनसर्ववदीपमहाद्रुमाः ।
निपेतुर्भग्नविटपाःसलिलेलवणाम्भसि ॥ 34 ॥
अभवन् पन्नगास्त्रस्ताभोगिनस्तत्रवासिनः ।
शीघ्रंसर्वाणियादांसिजग्मुश्चलवणार्णवम् ॥ 35 ॥
ततोमुहूर्तार्गरुडंवैनतेयम्महाबलम् ।
वानराददृशुःसर्वेज्वलन्तमिवपावकम् ॥ 36 ॥
तमागतमभिप्रेक्ष्यनागास्तेसम्प्रदुद्रुवुः ।
यैस्तौसत्पुरुषौबद्धौशरभूतैर्महाबलौ ॥ 37 ॥
ततस्सुपर्णःकाकुत्स्थौस्पृष्टवाप्रत्यभिनदनितः ।
विममर्शचपाणिभ्याम्मुखेचन्द्रसमप्रभे ॥ 38 ॥
वैनतेयेनसम्स्पृष्टास्तयोःसम्रुरुहुर्व्रणाः ।
सुवर्णेचतनूस्निग्धेतयोराशुबभूवतुः ॥ 39 ॥
तेजो वीर्यं बलं च ओज;उत्साहश् च महा गुणाः ।
प्रदर्शनं च बुद्धिश् च स्मृतिश् च द्विगुणं तयोः ॥ 40 ॥
तावुत्थाप्यमहातेजागरुडोवासवोपमौ ।
उभौतौसस्वजेहृष्टोरामश्चैनमुवाचह ॥ 41 ॥
भवत्प्रसादाद् व्यसनंरावणिप्रभवम्महत् ।
आवामिहव्यतिक्रान्तौपूर्ववद् बलिनौकृतौ ॥ 42 ॥
यथातातन्दशरथंयथाऽजञ्चपितामहम् ।
तथाभवन्तमासाद्यहृदयम्मेप्रसीदति ॥ 43 ॥
कोभवान्रूपसम्पन्नोदिव्यस्रगनुलेपनः ।
वसानोविरजेवस्त्रदिव्याभरणभूषितः ॥ 44 ॥
तमुवाचमहातेजावैनतेयोमहाबलः ।
पतत्त्रिराजःप्रीतात्माहर्षपर्याकुलेक्षणः ॥ 45 ॥
अहंसखातेकाकुत्स्थ प्रियःप्राणोबहिश्चरः ।
गरुत्मानिहसम्प्राप्तोयुवयोःसाह्यकारणात् ॥ 46 ॥
असुरावामहावीर्यावानरावामहाबलाः ।
सुराश्चापिसगन्ध्वर्वाःपुरस्कृत्यशतक्रतुम् ॥ 47 ॥
नेमम्मोक्षयितुंशक्ताश्शरबन्धंसुदारुणम् ।
मायाबलादिन्द्रजितानिर्मितङ्क्रूरकर्मणा ॥ 48 ॥
एतेनागाःकाद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः ।
रक्षोमायाप्रभावेणशराभूत्वास्त्वदाश्रिताः ॥ 49 ॥
सभाग्यश्चासिधर्मज्ञ राम सत्यपराक्रम ।
लक्ष्मणेनसहभ्रात्रासमरेरिपुघातिना ॥ 50 ॥
इमंश्रुत्वातुवृत्तान्तन्त्वरमाणोऽहमागतः ।
सहसायुवयोःस्नेहात्सखित्वमनुपालयन् ॥ 51 ॥
मोक्षितौचमहाघोरादस्मात्सायकबन्धनात् ।
अप्रमादश्चकर्तव्योयुवाभ्यान्नित्यमेवच ॥ 52 ॥
प्रकृत्याराक्षसाःसर्वेसङ्ग्रामेकूटयोधिनः ।
शूराणांशुद्धभावानाम्भवतामरार्जवम्बलम् ॥ 53 ॥
तन्नविश्वसनीयंवोराक्षसानांरणाजिरे ।
एतेनैवोपमानेननित्यञ्जिह्माहिराक्षसाः ॥ 54 ॥
एवमुक्त्वातदारामंसुपर्णस्सुमहाबलः ।
परिष्वज्यचसुहृत्स्निग्धमाप्रष्टुमुपचक्रमे ॥ 55 ॥
सखे राघव धर्मज्ञ रिपूणामपिवत्सल ।
अभ्यनुज्ञातुमिच्छामिगमिष्यामियथामतम् ॥ 56 ॥
नचकौतूहलङ्कार्यंसखित्वम्प्रतिराघव ।
कृतकर्मारणेवीर सखित्वम्प्रतिवेत्स्यसि ॥ 57 ॥
बालवृद्धावशेषान्तुकृत्वालङ्कांशरोर्मिभिः ।
रावणञ्चरिपुंहत्वासीतान्त्वंसमुलप्स्यते ॥ 58 ॥
प्रदक्षिणन्ततःकृत्वापरिष्वज्यचवीर्यवान् ।
जगामाकाशमाविश्यसुपर्णःपवनोयथा ॥ 59 ॥
विरुजौराघवौदृष्टवाततोवानरयूथपाः ।
सिंहनादांस्तदानेदुर्लङ्गूलन्न्दुधुवुस्तदा ॥ 60 ॥
ततोभेरीस्समाजघ्नुर्मृदङ्गांश्चाप्यनादयन् ।
दध्मुश्शङ्खान्सम्प्रहृष्टाःक्षेवलन्त्यपियथापुरम् ॥ 61 ॥
आस्फोट्याःस्पोट्यविक्रान्ताःवानराःनगयोधिनः ।
द्रुमानुत्पट्यविविधांस्तस्थुश्शतसहस्रशः ॥ 62 ॥
विसृजन्तोमहानादांस्त्रासयन्तोनिशाचरान् ।
लङ्काद्वाराण्युपाजग्मुर्युद्धकामाःप्लवङ्गमाः ॥ 63 ॥
तेषांसुखीमस्तुमुलोनिनादोबभूवशाखामृगयूथपानाम् ।
क्षयेनिदाघस्ययथाघनानान्नादस्सुभीमोनदतान्निशीथे ॥ 64 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे पञ्चाशस्सर्गः ॥