श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ अष्टत्रिंशस्सर्गः ।
ततस्स कपिशार्दूलस्तेन वाक्येन तोषितः ।
सीतामुवाच तच्छृत्वा वाक्यं वाक्यविशारदः ॥ 1 ॥
युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।
सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ 2 ॥
स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् ।
मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥ 3 ॥
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ।
रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥ 4 ॥
एतत्ते सदृशं देवि पत्न्यास्तस्य महात्मनः ।
का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ 5 ॥
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ।
चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥ 6 ॥
कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया ।
स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ॥ 7 ॥
लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः ।
सामर्थ्यादात्मनश्चैव मयैतत्समुदीरितम् ॥ 8 ॥
इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना ।
गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ॥ 9 ॥
यदि नोत्सहसे यातुं मया सार्थमनिन्दिते ।
अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ॥ 10 ॥
एवमुक्ता हनुमता सीता सुरसुतोपमा ।
उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ 11 ॥
इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ।
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ॥ 12 ॥
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ।
तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या विदूरतः ॥ 13 ॥
तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु ।
विहृत्य सलिले क्लिन्ना ममाङ्के समुपाविशमः ॥ 14 ॥
ततो मांससमायुक्तो वायसः पर्यतुण्डयत् ।
तमहं लोष्टमुद्यम्य वारयामिस्म वायसम् ॥ 15 ॥
दारयन्स च मां काकस्तत्त्रैव परिलीयते ।
न चाप्युपारमन्मांसाद्भक्षार्थि बलिभोजनः ॥ 16 ॥
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि ।
स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ 17 ॥
त्वयाऽपहसिता चाहं क्रुद्धा संलज्जिता तदा ।
भक्षगृध्नेन काकेन दारिता त्वामुपागता ॥ 18 ॥
आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् ।
क्रुध्यन्ती च प्रहृष्टेन त्वयाऽहं परिसान्त्विता ॥ 19 ॥
बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ।
लक्षिताऽहं त्वया नाथ वायसेन प्रकोपिता ॥ 20 ॥
परिश्रमात्प्रसुप्ता च राघवाङ्केऽप्यहं चिरम् ।
पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥ 21 ॥
स तत्र पुनरेवाथ वायसस्समुपागमत् ।
ततस्सुप्तप्रबुद्धां मां रामस्याङ्कात्समुत्थिताम् ॥ 22 ॥
वायसस्सहसागम्य विददार स्तनान्तरे ।
पुनः पुनरथोत्पत्य विददार स मां भृशम् ॥ 23 ॥
ततस्समुक्षितो रामो मुक्तैश्शोणितबिन्दुभिः ।
वायसेन ततस्तेन बलवत्क्लिश्यमानया ॥ 24 ॥
स मया बोधितश्श्रीमान्सुखसुप्तः परन्तपः ।
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा ॥ 25 ॥
आशीविष इव क्रुद्धश्वसन्वाक्यमभाषत ।
केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ॥ 26 ॥
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।
वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत ॥ 27 ॥
नखैस्सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ।
पुत्त्रः किल स शक्रस्य वायसः पततां वरः ॥ 28 ॥
धरान्तरगतश्शीघ्रं पवनस्य गतौ समः ।
ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः ॥ 29 ॥
वायसे कृतवान्क्रूरां मतिं मतिमतां वरः ।
स दर्भं संस्तराद्गृह्य ब्राह्मेणास्त्रेण योजयत् ॥ 30 ॥
स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ।
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ॥ 31 ॥
ततस्तं वायसं दर्भस्सोम्बरेऽनुजगाम ह ।
अनुसृष्टस्तदा काको जगाम विविधां गतिम् ॥ 32 ॥
लोककाम इमं लोकं सर्वं वै विचचार ह ।
स पित्रा च परित्यक्तस्सुरैश्च समहर्षिभिः ॥ 33 ॥
त्रीन्लोकान्सम्परिक्रम्य तमेव शरणं गतः ।
स तं निपतितं भूमौ शरण्यश्शरणागतम् ॥ 34 ॥
वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ।
परिद्यूनं विषण्णं च स तमायान्तमब्रवीत् ॥ 35 ॥
मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ।
हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीत् ॥ 36 ॥
ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।
दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥ 37 ॥
स रामाय नमस्कृत्य राज्ञे दशरथाय च ।
विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥ 38 ॥
मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् ।
कस्माद्यो मां हरेत्त्वत्तः क्षमसे तं महीपते ॥ 39 ॥
स कुरुष्व महोत्साहः कृपां मयि नरर्षभ ।
त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥ 40 ॥
आनृशंस्यं परो धर्मस्तवत्त्त ऐव मया श्रुतः ।
जानामि त्वां महावीर्यं महोत्साहं महाबलम् ॥ 41 ॥
अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् ।
भर्तारं ससमुद्राया धरण्या वासवोपमम् ॥ 42 ॥
एवमस्त्रविदां श्रेष्ठस्सत्यवान्बलवानपि ।
किमर्थमस्त्रं रक्षस्सु न योजयसि राघव ॥ 43 ॥
न नागा नाऽपि गन्धर्वा नासुरा न मरुद्गणाः ।
रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ॥ 44 ॥
तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः ।
किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥ 45 ॥
भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः ।
कस्य हेतोर्न मां वीरः परित्राति महाबलः ॥ 46 ॥
यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥ 47 ॥
ममैव दुष्कृतं किञ्चिन्महदस्ति न संशयः ।
समर्थावपि तौ यन्मां नावेक्षेते परन्तपौ ॥ 48 ॥
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।
अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ॥ 49 ॥
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।
रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ॥ 50 ॥
कथञ्चिद्भवती दृष्टा न कालः परिदेवितुम् ।
इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते ॥ 51 ॥
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ 52 ॥
हत्त्वा च समरे क्रूरं रावणं सहबान्धवम् ।
राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति ॥ 53 ॥
ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ।
सुग्रीवो वापि तेजस्वी हरयोऽपि समागताः ॥ 54 ॥
इत्युक्तवति तस्मिंस्तु सीता सुरसुतोपमा ।
उवाच शोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ॥ 55 ॥
कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ।
तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥ 56 ॥
स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ।
ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ॥ 57 ॥
पितरं मातरं चैव सम्मान्याभिप्रसाद्य च ।
अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ॥ 58 ॥
आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ।
अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने ॥ 59 ॥
सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शिनः ।
पितृवद्वर्तते रामे मातृवन्मां समाचरन् ॥ 60 ॥
ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ।
वृद्धोपसेवी लक्ष्मीवान् शक्तो न बहुभाषिता ॥ 61 ॥
राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ।
ममः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ॥ 62 ॥
नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ।
यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् ॥ 63 ॥
स ममार्थाय कुशलं वक्तव्यो वचनान्मम ।
मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥ 64 ॥
यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ।
त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तमः ॥ 65 ॥
राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ।
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ॥ 66 ॥
जीवितं धारयिष्यामि मासं दशरथात्मज ।
ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ॥ 67 ॥
रावणेनोपरुद्धां मां निकृत्य पापकर्मणा ।
त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ॥ 68 ॥
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ।
प्रदेयो राघवायेति सीता हनुमते ददौ ॥ 69 ॥
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ।
अङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः ॥ 70 ॥
मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च ।
सीतां प्रदक्षिणं कृत्वा प्रणतः पार्व्शतः स्थितः ॥ 71 ॥
हर्षेण महता युक्तः सीतादर्शनजेन सः ।
हृदयेन गतो रामं शरीरेण तु विष्ठितः ॥ 72 ॥
मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् ।
गिरिरिव पवनावधूतमुक्तः सुखितमनाः प्रतिसङ्क्रमं प्रपेदे ॥ 73 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे अष्टत्रिंशस्सर्गः ॥