श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ अष्टचत्वारिंशस्सर्गः ।
ततस्तु रक्षोधिपतिर्महात्मा हनूमताक्षे निहते कुमारे ।
मनस्समाधाय सदेवकल्पं समादिदेशेन्द्रजितं सरोषः ॥ 1 ॥
त्वमस्त्रविच्छस्त्रविदां वरिष्ठस्सुरासुराणामपि शोकदाता ।
सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसञ्चितास्त्रः ॥ 2 ॥
तवास्त्रबलमासाद्य ससुराः समरुद्गणाः ।
न शेकुस्समरे स्थातुं सुरेश्वरसमाश्रिताः ॥ 3 ॥
न कश्चित्त्रिषु लोकेषु संयुगेन गतश्रमः ।
भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ॥ 4 ॥
देशकालविभागज्ञस्त्वमेव मतिसत्तमः ।
न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे ।
न सोऽस्ति कश्चित्त्रिषु सङ्ग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते ॥ 5 ॥
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे ।
न त्वां समासाद्य रणावमर्दे मनश्श्रमं गच्छति निश्चितार्थम् ॥ 6 ॥
निहताः किङ्करास्सर्वे जम्बुमाली च राक्षसः ।
अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ॥ 7 ॥
बलानि सुसमृद्धानि साश्वनागरथानि च ।
सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः ॥ 8 ॥
न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ।
इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च ।
त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ॥ 9 ॥
बलावमर्थस्तयि सन्निकृष्टे यथा गते शाम्यति शान्तशत्रौ ।
तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ॥ 10 ॥
न वीरसेना गणशोच्यवन्ति न वज्रमादाय विशालसारम् ।
न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हन्तुम् ॥ 11 ॥
तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा ।
स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व ॥ 12 ॥
न खल्वियं मतिश्श्रेष्ठा यत्त्वां सम्प्रेषयाम्यहम् ।
इयं च राजधर्माणां क्षत्रियस्य मतिर्मता ॥ 13 ॥
नानाशस्त्रेषु सङ्ग्रामे वैशारद्यमरिन्दम ।
अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥ 14 ॥
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ।
चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ॥ 15 ॥
ततस्तै स्स्वगणैरिष्टैरिन्द्रजित् प्रतिपूजितः ।
युद्धोद्धतः कृतोत्साहस्सङ्ग्रामं प्रत्यपद्यत ॥ 16 ॥
श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेस्सुतः ।
निर्जगाम महातेजास्समुद्र इव पर्वसु ॥ 17 ॥
स पक्षिराजोपमतुल्यवेगै ।
र्व्यालैश्चतुर्भिः सिततीक्ष्णदम्ष्ट्रैः ।
रथं समायुक्तमसम्गवेगम् ।
समारुरोहेन्द्रजिदिन्द्रकल्पः ॥ 18 ॥
स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोस्त्रविदां वरः ।
रथेनाभिययौ क्षिप्रं हनुमान्यत्र सोऽभवत् ॥ 19 ॥
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ।
निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत् ॥ 20 ॥
सुमहच्चापमादाय शितशल्यांश्च सायकान् ।
हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ॥ 21 ॥
तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति चापपाणौ ।
दिशश्च सर्वाः कलुषा बभूवु र्मृगाश्च रौद्रा बहुधा विनेदुः ॥ 22 ॥
समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः ।
नभस्समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः ॥ 23 ॥
आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ।
विननाद महानादं व्यवर्धत च वेगवान् ॥ 24 ॥
इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः ।
धनुर्विष्फारयामास तटिदूर्जितन्निस्स्वनम् ॥ 25 ॥
ततस्समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ ।
कपिश्च रक्षोधिपतेस्तनूजः सुरासुरेन्द्राविव बद्धवैरौ ॥ 26 ॥
स तस्य वीरस्य महारथस्य धनुष्मतः संयति सम्मतस्य ।
शरप्रवेगं व्यहनत्प्रवृद्ध श्चचार मार्गे पितुरप्रमेयः ॥ 27 ॥
ततश्शरानायततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान् ।
मुमोच वीरः परवीरहन्ता सुसन्नतान् वज्रनिपातवेगान् ॥ 28 ॥
ततस्तु तत्स्यन्दननिस्स्वनं च मृदङ्गभेरीपटहस्वनं च ।
विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ॥ 29 ॥
शराणामन्तरेष्वाशु व्यवर्तत महाकपिः ।
हरिस्तस्याभिलक्ष्यस्य मोघयन्लक्ष्यसङ्ग्रहम् ॥ 30 ॥
शराणामग्रतस्तस्य पुनः समभिवर्तत ।
प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥ 31 ॥
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ ।
सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ॥ 32 ॥
हनुमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम् ।
परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ॥ 33 ॥
ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च सम्पतत्सु ।
जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ॥ 34 ॥
ततो मतिं राक्षसराजसूनु श्चकार तस्मिन् हरिवीरमुख्ये ।
अवध्यतां तस्य कपेस्समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ॥ 35 ॥
ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः ।
सन्दधे सुमहत्तेजाः तं हरिप्रवरं प्रति ॥ 36 ॥
अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ।
निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ॥ 37 ॥
तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः ।
अभवन्निर्विचेष्टश्च पपात स महीतले ॥ 38 ॥
ततोऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद्विगतात्मवेगः ।
पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः ॥ 39 ॥
तत स्स्वायम्बुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् ।
हनुमांश्चिन्तयामास वरदानं पितामहात् ॥ 40 ॥
न मेऽस्त्रबन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् ।
इत्येव मत्वा विहितोऽस्त्रबन्धो मयात्मयोनेरनुवर्तितव्यः ॥ 41 ॥
स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च ।
विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ॥ 42 ॥
अस्त्रेणापि हि बद्धस्य भयं मम न जायते ।
पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ॥ 43 ॥
ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम् ।
राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे ॥ 44 ॥
स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः ।
परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्त्रैः परिभर्त्स्यमानः ॥ 45 ॥
ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् ।
बबन्धुश्शणवल्कैश्च द्रुमचीरैश्च संहतैः ॥ 46 ॥
स रोचयामास परैश्च बन्धनं प्रसह्य वीरैरभिनिग्रहं च ।
कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः ॥ 47 ॥
स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् ।
अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ॥ 48 ॥
अथेन्द्रजित्तु द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् ।
विमुक्तमस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ॥ 49 ॥
अहो महत्कर्म कृतं निरर्थकम्कं न राक्षसैर्मन्त्रगतिर्विमृष्टा ।
पुनश्च मन्त्रे विहतेऽस्त्रमन्यत्प्रवर्तते संशयिता स्स्मसर्वे ॥ 50 ॥
अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यत ।
कृष्यमाणस्तु रक्षोभि स्तौश्च बन्धैर्निपीडितः ॥ 51 ॥
हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ।
समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः ॥ 52 ॥
अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः ।
न्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे ॥ 53 ॥
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् ।
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ 54 ॥
कोऽयं कस्य कुतोवात्र किं कार्यं को व्यपाश्रयः ।
इति राक्षसवीराणां तत्र सञ्जज्ञिरे कथाः ॥ 55 ॥
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे ।
राक्षसास्तत्र सङ्क्रुद्धाः परस्परमथाब्रुवन् ॥ 56 ॥
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोधिपपादमूले ।
ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ॥ 57 ॥
स ददर्श महातेजा रावणः कपिसत्तमम् ।
रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ॥ 58 ॥
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ।
तेजोबलसमायुक्तं तपन्तमिव भास्करम् ॥ 59 ॥
सरोषसम्वर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य ।
अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान् ॥ 60 ॥
यथाक्रमं तैस्स कपिर्विपृष्टः कार्यार्थमर्धस्य च मूलमादौ ।
निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि ॥ 61 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे अष्टचत्वारिंशस्सर्गः ॥