View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.86 युद्धकाण्ड - षडशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ षडशीतितमस्सर्गः ।

अथतस्यामवस्थायांलक्ष्मणंरावणानुजः ।
परेषामहितंवाक्यमर्थसाधकमब्रवीत् ॥ 1 ॥

यदेतद्राक्षसानीकम्मेघश्यामंविलोक्यते ।
एतदायोध्यतांशीघ्रङ्कपिभिपादपायुधैः ॥ 2 ॥

अस्यानीकस्यमहतोभेदनेयतलक्ष्मण ।
राक्षसेन्द्रसुतोऽप्यत्रभिन्नेदृश्योभविष्यति ॥ 3 ॥

सत्वमिन्द्राशनिप्रख्यैःशरैरवकिरन्परान् ।
अभिद्रवाशुयावद्वैनैतत्कर्मसमाप्यते ॥ 4 ॥

ज हिवीरदुरात्मानम्मायापरमधार्मिकम् ।
रावणिङ्क्रूरकर्माणंसर्वलोकभयावहम् ॥ 5 ॥

विभीषणवच्श्रुत्वालक्ष्मणश्शुभलक्षणः ।
ववर्षशरवर्षाणिराक्षसेन्द्रसुतम्प्रति ॥ 6 ॥

ऋक्षाःशाखामृगाश्चैवद्रुमद्रिनखयोधिनः ।
अभ्यधावन्तसहितास्तदनीकमवस्थितम् ॥ 7 ॥

राक्षसाश्चशितैर्भाणैरसिभिश्शक्तितोमरैः ।
उद्यदैससं वर्तन्तसमरेकपिसैन्यजिघांसवः ॥ 8 ॥

स सम्प्रहारस्तुमुलःसञ्जज्ञेकपिरक्षसाम् ।
शब्देनमहतालङ्कान्नादयन्वैसमन्ततः ॥ 9 ॥

शस्त्रश्चविविधाकारैश्शितैर्बाणैश्चपादपैः ।
उद्यतैर्गिरिशृङ्गैश्चघोरैराकाशमावृतम् ॥ 10 ॥

तेराक्षसावानरेषुविकृताननबाहवः ।
निवेशयन्तःशस्त्राणिचक्रुस्तेसुमहद्भयम् ॥ 11 ॥

तथैवसकलैर्वृक्षैर्गिरिशृङ्गैश्चवानराः ।
अभिजघ्नुजघ्नुश्चसमरेराक्षसर्षभान् ॥ 12 ॥

ऋक्षवानरमुख्यैश्चमहाकायैर्महाबलैः ।
रक्षसांयुध्यमानानाम्महद्भयमजायत ॥ 13 ॥

स्वमनीकंविषण्णन्तुश्रुत्वाशत्रुभिरर्दितम् ।
उदतिष्ठतदुर्दर्षः स कर्मण्यननुष्ठिते ॥ 14 ॥

वृक्षान्धकारान्निर्गम्यजातक्रोधः स रावणिः ।
आरुरोहरथंसज्जम्पूर्वयुक्तंसुसंयतम् ॥ 15 ॥

स भीमकार्मुकधरःकालमेघसमप्रभः ।
रक्तास्यनयनोकृद्धोमभौमृत्युरिवान्तकः ॥ 16 ॥

दृष्टवैवतुरथस्थन्तम्पर्यवर्तततद्बलम् ।
रक्षसाम्भीमवेगानांलक्ष्मणेनयुयुत्सताम् ॥ 17 ॥

तस्मिन् कालेतुहनूमानुद्यम्यसुदुरासदम् ।
धरणीधरसङ्काशोमहावृक्षमरिन्दमः ॥ 18 ॥

स राक्षसानान्तत्सैन्यङ्कालाग्निरिवनिर्दहन् ।
चकारबहुभिर्वक्षैर्निःसञ्ज्ञंयुधिवानरः ॥ 19 ॥

विध्वंसन्तन्तरसादृष्टवैवपवनात्मजम् ।
राक्षसानांसहस्राणिहनूमन्तमवाकिरन् ॥ 20 ॥

शितशूलधराश्शूलैरसिभिश्चासिपाणयः ।
शक्तिहस्ताश्चभिश्शक्तिपट्टसैः पट्टसायुधाः ॥ 21 ॥

परिघैश्चगदाभिश्चकुन्तैश्चशुभदर्शनैः ।
शतशश्चशतघ्नीभिरायसैरपिमुद्गरैः ॥ 22 ॥

घोरैःपरशुभिश्चैवभिदनिपालैश्चराक्षसाः ।
मुष्टिभिर्वज्रकल्पैश्चतलैरशनिसन्निभैः ॥ 23 ॥

अभिजघ्नुःसमासाद्यसमन्तात्पर्वतोपमम् ।
तेषामपि च सङ्ग्रुद्धश्चकारकदनम्महत् ॥ 24 ॥

स ददर्शकपिश्रेष्ठमचलोपममिन्द्रजित् ।
सूदमानमसन्त्रस्तममित्रान् पवनात्मजम् ॥ 25 ॥

स सारथिमुवाचेदंयाहियत्रैषवानरः ।
क्षयमेवहिनःकुर्याद्राक्षसामुपेक्षितः ॥ 26 ॥

इत्युक्तस्सारथिस्तेनययौयत्र न मारुतिः ।
वहन् परमदुर्धर्षंस्थितमिन्द्रजितंरथे ॥ 27 ॥

सोऽभ्युपेत्यशरान्खङ्गान्पट्टसासिपरश्वधान् ।
अभ्यवर्षतदुर्धर्षःकपिमूर्थनिराक्षसः ॥ 28 ॥

तानिशस्त्राणिघोराणिप्रतिगृह्य स मारुतिः ।
रोषेणमहताविष्टोवाक्यञ्चेदमुवाच ह ॥ 29 ॥

युध्यस्वयदिशूरोऽसिरावणात्मजदुर्मते ।
वायुपुत्रंसमासाद्य न जीवन् प्रतियास्यसि ॥ 30 ॥

बाहुभ्यांसम्प्रतियुध्यस्वयदिमेद्वन्द्वमाहवे ।
वेगंसहस्वदुर्बुद्धेततस्त्वंरक्षसांवरः ॥ 31 ॥

हनूमन्तञ्जिघांसन्तंसमुद्यतशरासनम् ।
रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ 32 ॥

यस्सवासवनिर्जेतारावणस्यात्मसम्भवः ।
स एषरथमास्थायहनूमन्तञ्जिघांसति ॥ 33 ॥

तमप्रतिमसंस्थानैश्शरैश्शत्रुनिवारणैः ।
जीवितान्तकरैर्घोरैःसौमित्रेरावणिञ्जहि ॥ 34 ॥

इत्येवमुक्तस्तुतदामहात्माविभीषणेनारिविभीषणेन ।
ददर्शतम्पर्वतसन्निकाशंरथस्थितम्भीमबलन्दुरासदम् ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे षडशीतितमस्सर्गः ॥




Browse Related Categories: