View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.49 बालकाण्ड - एकोनपञ्चाश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ एकोनपञ्चाशस्सर्गः ।

अफलस्तु ततश्शक्रो देवानग्निपुरोगमान् ।
अब्रवीत्त्रस्तवदनस्सर्षिस्सङ्घान् सचारणान् ॥ 1 ॥

कुर्वता तपसो विघ्नं गौतमस्य महात्मनः ।
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥ 2 ॥

अफलोऽस्मि कृतस्तेन क्रोधात्सा च निराकृता ।
शापमोक्षेण महता तपोऽस्यापहृतं मया ॥ 3 ॥

तस्मात्सुरवरास्सर्वे सर्षिस्सङ्घास्सचारणाः ।
सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ ॥ 4 ॥

शतक्रतोर्वचश्श्रुत्वा देवास्साग्निपुरोगमाः ।
पितृदेवानुपेत्याहु स्सह सर्वैर्मरुद्गणैः ॥ 5 ॥

अयं मेषस्सवृषणश्शक्रो ह्यवृषणः कृतः ।
मेषस्य वृषणौ गृह्य शक्रायाऽशु प्रयच्छथ ॥ 6 ॥

अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति ।
भवतां हर्षणार्थाय ये च दास्यन्ति मानवाः ॥ 7 ॥

अग्नेस्तु वचनं श्रुत्वा पितृदेवास्समागताः ।
उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ॥ 8 ॥

तदा प्रभृति काकुत्स्थ पितृदेवास्समागताः ।
अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन् ॥ 9 ॥

इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव ।
गौतमस्य प्रभावेन तपसश्च महात्मनः ॥ 10 ॥

तदागच्छ महातेज आश्रमं पुण्यकर्मणः ।
तारयैनां महाभागामहल्यां देवरूपिणीम् ॥ 11 ॥

विश्वामित्रवचश्श्रुत्वा राघवस्सहलक्ष्मणः ।
विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत् ॥ 12 ॥

ददर्श च महाभागां तपसा द्योतितप्रभाम् ।
लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ॥ 13 ॥

प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव ।
स तुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव ॥ 14 ॥

मध्येंऽभसो दुराधर्षां दीप्तां सूर्यप्रभामिव ।
सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह ॥ 15 ॥

त्रयाणामपि लोकानां यावद्रामस्य दर्शनम् ।
शापस्यान्तमुपागम्य तेषां दर्शनमागता ॥ 16 ॥

राघवौ तु ततस्तस्याः पादौ जगृहतुस्तदा ।
स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ ॥ 17 ॥

पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता ।
प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा ॥ 18 ॥

पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनैः ।
गन्धर्वाप्सरसां चैव महानासीत्समागमः ॥ 19 ॥

साधु साध्विति देवास्तामहल्यां समपूजयन् ।
तपोबलविशुद्धाङ्गी गौतमस्य वशानुगाम् ॥ 20 ॥

गौतमोऽपि महातेजा अहल्यासहितस्सुखी ।
रामं सम्पूज्य विधिवत्तपस्तेपे महातपाः ॥ 21 ॥

रामोऽपि परमां पूजां गौतमस्य महामुनेः ।
सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे एकोनपञ्चाशस्सर्गः ॥




Browse Related Categories: