View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.43 किष्किन्धाकाण्ड - त्रिचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ त्रिचत्वारिंशस्सर्गः ।

ततस्सन्दिश्य सुग्रीवश्श्वशुरं पश्चिमां दिशम् ।
वीरं शतवलिं नाम वानरं वानरर्षभः ॥ 1 ॥

उवाच राजा धर्मज्ञस्सर्ववानरसत्तमम् ।
वाक्यमात्म हितं चैव रामस्य च हितं तथा ॥ 2 ॥

वृतश्शतसहस्रेण त्वद्विधानां वनौकसाम् ।
वैवस्वतसुतैस्सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ॥ 3 ॥

दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् ।
सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ 4 ॥

अस्मिन्कार्येविनिर्वृत्ते कृते दाशरथेः प्रिये ।
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ 5 ॥

कृतं हि प्रियमस्माकं राघवेण महात्मना ।
तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥ 6 ॥

अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् ।
तस्य स्यात्सफलं जन्म किं पुनः पूर्वकारिणः ॥ 7 ॥

एतां बुद्धिमवस्थाय दृश्यते जानकी यथा ।
तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ 8 ॥

अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः ।
अस्मासु चागतः प्रीती रामः परपुरञ्जयः ॥ 9 ॥

इमानि वनदुर्गाणि नद्यश्शैलान्तराणि च ।
भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा ॥ 10 ॥

तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च ।
प्रस्थलान्भरतांश्चैव कुरूंश्च सह मद्रकैः ॥ 11 ॥

काम्बोजान्यवनां श्चैव शकानारट्टकानपि ।
बाह्लीकानृषिकां श्चैव पौरवानथ टङ्कणान् ॥ 12 ॥

चीनान्परमचीनांश्च नीहारांश्च पुनः पुनः ।
अन्विष्यदरदांश्चैव हिमवन्तं तथैव च ॥ 13 ॥

लोध्रपद्मकषण्डेषु देवदारुवनेषु च ।
रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 14 ॥

ततस्सोमाश्रमं गत्वा देवगन्धर्वसेवितम् ।
कालं नाम महासानुं पर्वतं तु गमिष्यथ ॥ 15 ॥

महत्सु तस्य शैलस्य निर्दरेषु गुहासु च ।
विचिनुध्वं महाभागां रामपत्नीन्ततस्ततः ॥ 16 ॥

तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् ।
ततस्सुदर्शनं नाम गन्तुमर्हथ पर्वतम् ॥ 17 ॥

ततो देवसखो नाम पर्वतः पतगालयः ।
नानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥ 18 ॥

तस्य काननषण्डेषु निर्घरेषु गुहासु च ।
रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 19 ॥

तमतिक्रम्य चाकाशं सर्वतश्शतयोजनम् ।
अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥ 20 ॥

तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् ।
कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥ 21 ॥

तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् ।
कुबेरभवनं रम्यं निर्मितं विश्वकर्मणा ॥ 22 ॥

विशाला नलिनी यत्र प्रभूतकमलोत्पला ।
हंसकारण्डवाकीर्णाप्सरोगणसेविता ॥ 23 ॥

तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः ।
धनदो रमते श्रीमान्गुह्यकैस्सह यक्षराट् ॥ 24 ॥

तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 25 ॥

क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ।
अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥ 26 ॥

वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः ।
देवैरप्यर्चिता स्सम्यग्देवरूपा महर्षयः ॥ 27 ॥

क्रौञ्चस्य तु गुहाश्चान्या स्सानूनिशिखराणि च ।
निर्दराश्च नितम्बाश्च विचेतव्या स्ततस्ततः ॥ 28 ॥

कौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः ।
अवृक्षं कामशैलं च मानसं विहगालयम् ।
न गतिस्तत्र भूतानां देवदानव रक्षसाम् ॥ 29 ॥

स च सर्वैर्विचेतव्यस्ससानुप्रस्थभूधरः ।
क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ॥ 30 ॥

मयस्य भवनं यत्र दानवस्य स्वयं कृतम् ॥ 31 ॥

मैनाकस्तु विचेतव्य स्ससानुप्रस्थकन्दरः ।
स्त्रीणामश्वमुखीनां तु निकेतास्तत्र तत्र तु ॥ 32 ॥

तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ।
सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ 33 ॥

वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः ।
प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ॥ 34 ॥

हेमपुष्करसञ्छन्नं तस्मिन् वैखानसं सरः ।
तरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः ॥ 35 ॥

औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः ।
गजः पर्येति तं देशं सदा सह करेणुभिः ॥ 36 ॥

तत्सरस्समतिक्रम्य नष्टचन्द्रदिवाकरम् ।
अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥ 37 ॥

गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते ।
विश्राम्यद्भिस्तपस्सिद्धैर्देवकल्पैः स्वयम्प्रभैः ॥ 38 ॥

तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ।
उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥ 39 ॥

ते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च ।
उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ 40 ॥

ततः काञ्चनपद्माभिः पद्भिनीभिः कृतोदकाः ।
नीलवैडूर्यपत्राभिर्नद्यस्तत्र सहस्रशः ॥ 41 ॥

रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः ।
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः ॥ 42 ॥

महार्हमणिरत्नैश्च काञ्चनप्रभकेसरैः ।
निलोत्पलवनैश्चित्रै स्स देश स्सर्वतो वृतः ॥ 43 ॥

निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ।
उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ।
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः ॥ 44 ॥

जातरूपमयैश्चापि हुताशनसमप्रभैः ।
नित्यपुष्पफलास्तत्र नगाः पत्त्ररथाकुलाः ॥ 45 ॥

दिव्यगन्धरसस्पर्शाः सर्वान्कामान् स्रवन्ति च ।
नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ॥ 46 ॥

मुक्ता वैढूर्यचित्राणि भूषणानि तथैव च ।
स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च ॥ 47 ॥

सर्वर्तुसुख सेव्यानि फलन्त्यन्ये नगोत्तमाः ।
महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः ॥ 48 ॥

शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ।
मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः ॥ 49 ॥

पानानि च महार्हाणि भक्ष्याणि विविधानि च ।
स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः ॥ 50 ॥

गन्धर्वाः किन्नरास्सिद्धा नागा विद्याधरास्तथा ।
रमन्ते सततं स्तत्र नारीभिर्भास्करप्रभाः ॥ 51 ॥

सर्वे सुकृतकर्माण स्सर्वे रतिपरायणाः ।
सर्वे कामार्थसहिता वसन्ति सहयोषितः ॥ 52 ॥

गीतवादित्रनिर्घोष स्सोत्कृष्टहसितस्वनः ।
श्रूयते सततं तत्र सर्वभूतमनोहरः ॥ 53 ॥

तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः ।
अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥ 54 ॥

समतिक्रम्य तं देशमुत्तरः पयसां निधिः ।
तत्र सोमगिरिर्नाम मध्ये हेममयो महान् ॥ 55 ॥

इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये ।
देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः ॥ 56 ॥

स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते ।
सूर्यलक्ष्म्याऽभिविज्ञेयस्तपतेव विवस्वता ॥ 57 ॥

भगवानपि विश्वात्मा शम्भुरेकादशात्मकः ।
ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥ 58 ॥

न कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः ।
अन्येषामपि भूतानां नातिक्रामति वै गतिः ॥ 59 ॥

स हि सोमगिरिर्नाम देवानामपि दुर्गमः ।
तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ॥ 60 ॥

एतावद्वानरैश्शक्यं गन्तुं वानरपुङ्गवाः ।
अभास्करममर्यादं न जानीमस्ततः परम् ॥ 61 ॥

सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् ।
यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ 62 ॥

ततः कृतं दाशरथेर्महत्प्रियं महत्तरं चापि ततो मम प्रियम् ।
कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥ 63 ॥

ततः कृतार्थाः सहितास्सबान्धवाः मयाऽर्चितास्सर्वगुणैर्मनोरमैः ।
चरिष्यथोर्वीं प्रति शान्तशत्रव स्सहप्रिया भूतधराः प्लवङ्गमाः ॥ 64 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे त्रिचत्वारिंशस्सर्गः ॥




Browse Related Categories: