View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.3 अयोध्याकाण्ड - तृतीय सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ तृतीयस्सर्गः ।

तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।
प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥ 1 ॥

अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।
यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ 2 ॥

इति प्रत्यर्च्य तान्राजा ब्राह्मणानिदमब्रवीत् ।
वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥ 3 ॥

चैत्रश्श्रीमानयं मासः पुण्यः पुष्पितकाननः ।
यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ 4 ॥

राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।
शनैस्तस्मिन्प्रशान्ते च जनघोषे जनाधिपः ॥ 5 ॥

वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ।
अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ॥ 6 ॥

तदद्य भगवन् सर्वमाज्ञापयितु मर्हसि ।
तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ॥ 7 ॥

आदिदेशाग्रतो राज्ञ स्स्थितान्युक्तान् कृताञ्जलीन् ।
सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ॥ 8 ॥

शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ।
अहतानि च वासांसि रथं सर्वायुधान्यपि ॥ 9 ॥

चतुरङ्गबलं चैव गजं च शुभलक्षणम् ।
चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम् ॥ 10 ॥

शतं च शातकुम्भानां कुम्भानाग्निवर्चसाम् ।
हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ॥ 11 ॥

उपस्थापयत प्रातरग्न्यगारं महीपतेः ।
सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ॥ 12 ॥

शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ।
अहतानि च वासांसि रथं सर्वायुधान्यपि ॥ 13 ॥

चतुरङ्गबलं चैव गजं च शुभलक्षणम् ।
चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम् ॥ 14 ॥

शतं च शातकुम्भानां कुम्भानाग्निवर्चसाम् ।
हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ॥ 15 ॥

उपस्थापयत प्रातरग्न्यगारं महीपतेः ।
यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥ 16 ॥

अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ।
चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥ 17 ॥

प्रशस्तमन्नं गुणवद्दधिक्षीरोपसेचनम् ।
द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ॥ 18 ॥

सत्कृत्य द्विजमुख्यानां श्वःप्रभाते प्रदीयताम् ।
घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥ 19 ॥

सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।
ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥ 20 ॥

आबध्यन्तां पताकाश्च राजमार्गश्च सिञ्च्यताम् ।
सर्वे च तालावचरा गणिकाश्च स्वलङ्कृताः ॥ 21 ॥

कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ।
देवायतनचैत्येषुसान्नभक्षा स्सदक्षिणाः ॥ 22 ॥

उपस्थापयितव्या स्स्युर्माल्ययोग्याः पृथक्पृथक् ।
दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः ॥ 23 ॥

महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ।
एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ ॥ 24 ॥

चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ।
कृतमित्येव चाब्रूतां अभिगम्य जगत्पतिम् ॥ 25 ॥

यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ।
ततस्सुमन्त्रं द्युतिमान्राजा वचनमब्रवीत् ।
रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥ 26 ॥

स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ॥ 27 ॥

रामं तत्रानयाञ्चक्रे रथेन रथिनां वरम् ।
अथ तत्र समासीना स्तदा दशरथं नृपम् ॥ 28 ॥

प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ।
म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः ॥ 29 ॥

उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् ।
तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ॥ 30 ॥

प्रासादस्थो रथगतं ददर्शायान्तमात्मजम् ।
गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ॥ 31 ॥

दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् ।
चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥ 32 ॥

रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ।
घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ॥ 33 ॥

न ततर्प समायान्तं पश्यमानो नराधिपः ।
अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ॥ 34 ॥

पितुस्समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ।
स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः ॥ 35 ॥

आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ।
स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके ॥ 36 ॥

नाम स्वं श्रावयन्रामो ववन्दे चरणौ पितुः ।
तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ॥ 37 ॥

गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ।
तस्मै चाभ्युदितं दिव्यं मणिकाञ्चनभूषितम् ॥ 38 ॥

दिदेश राजा रुचिरं रामाय परमासनम् ।
तदासनवरं प्राप्य व्यदीपयत राघवः ॥ 39 ॥

स्वयैव प्रभया मेरुमुदये विमलो रविः ।
तेन विभ्राजता तत्र सा सभाऽभिव्यरोचत ॥ 40 ॥

विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ।
तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् ॥ 41 ॥

अलङ्कृतमिवात्मानमादर्शतलसंस्थितम् ।
स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ॥ 42 ॥

उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः ।
ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशस्सुतः ॥ 43 ॥

उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ।
यतस्त्वया प्रजाश्चेमा स्स्वगुणैरनुरञ्जिताः ॥ 44 ॥

तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ।
कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ॥ 45 ॥

गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ।
भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ॥ 46 ॥

कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ।
परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ॥ 47 ॥

अमात्यप्रभृतीस्सर्वाःप्रकृतीश्चानुरञ्जय ।
कोष्ठागारायुधागारैःकृत्वा सन्निचयान्बहून् ॥ 48 ॥

तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ।
तस्यनन्दन्ति मित्राणि लब्ध्वाऽमृतमिवामराः ॥ 49 ॥

तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ।
तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ॥ 50 ॥

त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ।
सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ॥ 51 ॥

व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ।
अथाऽभिवाद्य राजानं रथमारुह्य राघवः ॥ 52 ॥

ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ।
ते चापि पौरा नृपतेर्वचस्त च्छृत्वा तथा लाभमिवेष्टमाशु ।
नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान्समानर्चुरतिप्रहृष्टाः ॥ 53 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे तृतीयस्सर्गः ॥




Browse Related Categories: