श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ सप्ततितमस्सर्गः ।
नरान्तकंहतन्दृष्टवाचुक्रुशुर्नैरृतर्षभाः ।
देवान्तकस्त्रिमूर्धा च पौलस्त्यश्चमहोदरः ॥ 1 ॥
आरूढोमेघसङ्काशंवारणेन्द्रम्महोदरः ।
वालिपुत्रम्महावीर्यमभिदुद्राववीर्यवान् ॥ 2 ॥
भ्रारातृव्यसनसन्तप्तस्तदादेवान्तकोबली ।
आदायपरिघन्दीप्तमङ्गदंसमभिद्रवत् ॥ 3 ॥
रथमादित्यसङ्काशंयुक्तम्परमवाजिभिः ।
आस्थायत्रिशिरावीरोवालिपुत्रमथाभ्ययात् ॥ 4 ॥
स त्रिभिर्देवदर्पघ्नेर्नेरृतीन्द्रेरभिद्रुतः ।
वृक्षमुत्पाटयामासमहाविटपमङ्गदः ॥ 5 ॥
देवान्तकायतंवीरच्शिक्षेपसहसाङ्गदः ।
महावृक्षम्महाशाखंशक्रोदीप्तमिवाशनिम् ॥ 6 ॥
स ववर्ष ततो वृक्षान् शिलासःच कपि कुन्जरः ।
तान् प्रचिच्चेद सम्क्रुद्धस् त्रिशिरा निशितैःशरैः ॥ 7 ॥
स ववर्षततोवृक्षान् शैलाश्चकपिकुञ्जरः ।
तान् प्रचिच्छेदसङ्कृद्धस्त्रिशिरानिशितैश्शरैः ॥ 8 ॥
परिघाग्रेणतान् वृक्षान्बभञ्ज च महोदरः ।
त्रिशिराश्चाङ्गदंवीरमभिदुद्रावसायकैः ॥ 9 ॥
गजेनसमभिद्रुत्यवालिपुत्रम्महोदरः ।
जघानोरसिसङ्कृद्धस्तोमरैर्वज्रसन्निभैः ॥ 10 ॥
देवान्तकश्चसङ्कृद्धःपरिघेणतदाङ्गदम् ।
उपगम्याभिहत्याशुव्यपचक्रामवेगवान् ॥ 11 ॥
सत्रिभिर्नैरृतश्रेष्ठैर्युगतपत्समभिद्रुतः ।
न विव्यथेमहातेजावालिपुत्रःप्रतापवान् ॥ 12 ॥
स वेगवान्महावेगङ्कृत्वापरमदुर्जयः ।
तलेनभृशमुत्पत्यजघानास्यमहागजम् ॥ 13 ॥
तस्यतेनप्रहारेणनागराजस्यसंयुगे ।
पेततुर्लोचनेतस्यविननाद स वारणः ॥ 14 ॥
विषाणञ्चास्यसःनिष्कृष्यवालिपुत्रोमहाबलः ।
देवान्तकमभिप्लुत्यताडयामाससंयुगे ॥ 15 ॥
परिघ अभिहतसःच अपि वानर इन्द्र आत्मजस् तदा ।
जानुभ्यां पतितो भूमौ पुनर् एव उत्पपात ह ॥ 16 ॥
अथाश्वस्यमहातेजाःकृच्छ्राद्देवान्तकोबली ।
आविध्यपरिघंवेगादाजघानतदाङ्गदम् ॥ 17 ॥
परिघाभिहतश्चापिवानरेन्द्रात्मजस्तदा ।
जानुभ्याम्पतितोबूमौपुनरेवोत्पपात ह ॥ 18 ॥
तमुत्पतन्तन्त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः ।
घोरैर्हरिपतेःपुत्रेंललाटेऽभिजघान ह ॥ 19 ॥
ततोऽङ्गदम्परिक्षिप्तन्त्रिभिर्नैरृतपुङ्गवैः ।
हनूमानपिविज्ञायनीलश्चापिप्रतस्थतुः ॥ 20 ॥
तश्चिक्षेपशैलाग्रन्नीलस्त्रिशिरसेतदा ।
तद्रावणसुतोधीमाबनिभेदनिशितैश्शरैः ॥ 21 ॥
तद्बाणशतनिर्भिन्नंविदारितशिलातलम् ।
सविस्फुलिङ्गंसज्वालन्निपपातगिरेशशिरः ॥ 22 ॥
ततोजृम्भितमालोक्यहर्षाद्वेवान्तकस्तदा ।
परिघेणाभिदुद्रावमारुतात्मजमाहवे ॥ 23 ॥
तमापतन्तमुत्प्लुत्यहनुमान्मारुतात्मजः ।
आजघानतदामूर्ध्निवज्रकल्पेनमुष्टिना ॥ 24 ॥
शिरसिप्रहरवनीरस्तदावायुसुतोबली ।
नादेनाकम्पयच्चैवराक्षसान् स महाकपिः ॥ 25 ॥
मुष्टिनिष्पिष्टविभिन्नमूर्धानिर्वान्तदन्ताक्षिविलम्बिजिव्वाः ।
देवान्तकोराक्षसराजसूनुर्गतासुरुत्व्यांसहसापपात ॥ 26 ॥
तस्मिन्हतेराक्षसयोधमुख्येमहाबलेसंयतिदेवशत्रौ ।
क्रुद्धस्त्रिमूर्धानिशिताग्रमुग्रंववर्षनीलोरसिबाणवर्षम् ॥ 27 ॥
महोदरस्तुसङ्कृद्धःकुञ्जरम्पर्वतोपमम् ।
भूयस्समधिरुह्याशुमन्दरंरमशिमानिव ॥ 28 ॥
ततोबाणमयंवर्षन्नीलस्योरस्यपातयत् ।
गिरौवर्षन्तडिच्चक्रचापवानिवतोयदः ॥ 29 ॥
ततश्शरौघेरभिवर्ष्यमाणोविभिन्नगात्रःकपिसैन्यपालः ।
नीलोबभूवाथविसृष्टगात्रोविष्टम्भितस्तेनमहाबलेन ॥ 30 ॥
ततस्तुनीलःप्रतिलभ्यसञ्ज्ञांशैलंसमुत्पाट्यसवृक्षषंण्डम् ।
ततस्समुत्पत्यभृशोग्रवेशोमहादरन्तेनजघानमूर्ध्नि ॥ 31 ॥
ततः स्सशैलेद्रनिपातभग्नोमहोदरस्तेनमहाद्विपेन ।
विपोथितोभूमितलेगतासुःपपातवज्राभिहतोयथाद्रिः ॥ 32 ॥
पितृव्यन्निहतन्दृष्टवात्रिशिराश्चापमाददे ।
हनूमन्तं च सङ्कृद्धोविव्याथनिशितैश्शरैः ॥ 33 ॥
स वायुसुनूःकुपितश्चिक्षेपशिखरङ्गिरेः ।
त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेदबहुधाबली ॥ 34 ॥
तद्व्यर्थंशिखरन्दृष्टवाद्रुमवर्षम्महाकपिः ।
विससर्जरणेतस्मिन्रावणस्यसुतम्प्रति ॥ 35 ॥
तमापतन्तमाकाशेद्रुमवर्षम्प्रतापवान् ।
त्रिशिरानिशितैर्बाणैश्चिच्छेद च ननाद च ॥ 36 ॥
हनूमानुतोप्लुत्यहयंस्त्रीशिरसस्तदा ।
विददारनखैःक्रुद्धोनागेन्द्रम्मृगराडिव ॥ 37 ॥
तां दृष्ट्वा घोर सम्काशां शक्तिं भग्नां हनूमता ।
प्रहृष्टा वानर गणा विनेदुर् जलदा;इव ॥ 38 ॥
दिवःक्षिप्तामिवोल्कान्तांशक्तिङ्क्षिप्तामसङ्गताम् ।
गृहीत्वाहरिशार्दूलोबभञ्ज च ननाद च ॥ 39 ॥
तान्दृष्टवाघोरसङ्काशांशक्तिम्भग्नांहनूमता ।
प्रहृष्टावानरगणाविनेदुर्जलदाइव ॥ 40 ॥
तःखडगंसमुद्यम्यत्रिशिराराक्षसोत्तमः ।
निजघानतदाव्यूढेवायुपुत्रस्यवक्षसि ॥ 41 ॥
खडगप्रहाराभिहतोहनुमान्मारुतात्मजः ।
आजघानतिशिरसन्तलेनोरसिवीर्यवान् ॥ 42 ॥
सतलाभिहतस्तेनस्रस्तहस्तायुधोभुवि ।
निपपातमहातेजास्त्रिशिरास्त्यक्तचेतनः ॥ 43 ॥
स तस्यपततःखङ्गन्तमाच्छिद्यमहाकपिः ।
ननादगिरिसङ्काशस्त्रासयन् सर्वनैरृता ॥ 44 ॥
अमृष्यमाणस्तङ्घोषमुत्पपातनिशाचरः ।
उत्पत्य च हनूमन्तन्ताडयामासमुष्टिना ॥ 45 ॥
तेनमुष्टिप्रहोरेणसञ्चुकोपमहाकपिः ।
कुपितश्चनिजग्राहकिरीटेराक्षसर्षभम् ॥ 46 ॥
स तस्यशीर्षाण्यसिनाशितेनकिरीटजुष्टानिसकुण्डलानि ।
क्रुद्धःप्रचिच्छेदसुतोऽनिलस्यत्वष्टुस्सुतस्येवशिरांसिशक्रः ॥ 47 ॥
तान्यायताक्षाण्यगसन्निभानिप्रदीप्तवैश्वानरलोचनानि ।
पेतुशिरांसीन्द्ररिपोःर्धरण्याञ्ज्योतींषिमुक्तानियथार्कमार्गात् ॥ 48 ॥
तस्मिन् न्हतेदेवरिपौत्रिशीर्षेहनूमताशक्रपराक्रमेण ।
नेदुःप्लवङ्गाःप्रचचालभूमीरक्षांस्यथोदुद्रुविरेसमन्तात् ॥ 49 ॥
हतन्त्रिशिरसन्दृष्टवातथैवचमहोदरम् ।
हतौप्रेक्षयदुराधर्षौदेवान्तकनरान्तकौ ॥ 50 ॥
चुकोपपरमामर्षीमत्तोराक्षसपुङ्गवः ।
जग्राहार्चिष्मतीङ्घोराङ्गदांसर्वायसींशुभाम् ॥ 51 ॥
हेमपट्टपरिक्षिप्ताम्मांसशोणितफेनिलाम् ।
विराजमानांवपुषांशत्रुशोणितरञ्जिताम् ॥ 52 ॥
तेजसासम्प्रदीप्ताग्रांरक्तमाल्यविभूषिताम् ।
ऐरावतमहापद्मसार्वभौमभयावहाम् ॥ 53 ॥
गदामादायसङ्कृद्धोमत्तोराक्षसपुङ्गवः ।
हरीन् समभिदुद्रावयुगान्तानगिरिवज्वलन् ॥ 54 ॥
अथर्षभस्समुत्पत्यवानरोरावणानुजम् ।
मत्तानीकमुपागम्यतस्थौतस्याग्रतोबली ॥ 55 ॥
तम्पुरस्तात् स्थितन्दृष्टवावानरम्पर्वतोपमम् ।
आजघानोरसिक्रुद्धोगदयावज्रकल्पया ॥ 56 ॥
स तयाऽभिहतस्तेनगदयावानरर्षभः ।
भिन्नवक्षास्समाधूतस्सुस्रावरुधिरम्बहु ॥ 57 ॥
स सञ्ज्ञाम्प्राप्यसुचिरादृषभोवानरर्षभः ।
क्रुद्धोविस्फुरमाणौष्ठोमहापार्श्वमुदैक्षत ॥ 58 ॥
स वेगवान् वेगवदभ्युपेत्यतंराक्षसंवानरवीरमुख्यः ।
सम्वर्त्यमुष्टिंसहसाजघानबाह्वन्तरेशैलनिकाशरूपः ॥ 59 ॥
स कृत्तमूलस्सहसेववृक्षःक्षितौपपातक्षतजोक्षिताङ्गः ।
ताञ्चास्यघोरांयमदण्डकल्पाङ्गदाम्प्रगृह्याशुतदाननाद ॥ 60 ॥
मुहूर्तमासीत्सगतासुकल्पःप्रत्यागतात्मासहसासुरारिः ।
उत्पत्यसन्ध्याभ्रसमानवर्णस्तंवारिराजात्मजमाजघान ॥ 61 ॥
स मूर्भितोभूमितलेपपातमुहूर्तमुत्पत्यपुनस्ससञ्ज्ञः ।
तामेवतस्याद्रिवराद्रिकल्पाङ्गदांसमाविध्यजघानसङ्ख्ये ॥ 62 ॥
मत्त अनीकं महा पार्श्वं जघान रण मूर्धनि ।
स स्वया गदया भिन्नो विकीर्ण दशन ईक्षणः ।
निपपात महा पार्श्वो वज्र आहत;इव अचलः ॥ 63 ॥
अभिदुद्राववेगेनगदान्तस्यमहात्मनः ।
गृहीत्वाताङ्गदाम्भीमामाविध्य च पुनःपुनः ॥ 64 ॥
मत्तानीकम्महात्मानञ्जघानरणमूर्धनि ।
स स्वयागदयाभग्नोविदीर्णदशनेक्षणः ॥ 65 ॥
निपपातततोमत्तोवज्राहतैवाचलः ।
विदीर्णनयनेभूमौगतसत्त्वेगतायुषि ॥ 66 ॥
पतितेराक्षसेतस्मिन् विद्रुतंराक्षसम्बलम् ।
तस्मिन्न्हतेभ्रातरिरावणस्यतन्नैरृतानाम्बलमर्णवाभम् ।
त्यक्तायुधङ्केवलजीवितार्थन्दुद्रावभिन्नार्णवसन्निकाशम् ॥ 67 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे सप्ततितमस्सर्गः ॥