श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टचत्वारिंशस्सर्गः ।
भर्तारन्निहतन्दृष्टवालक्ष्मणञ्चमहाबलम् ।
विललापभृशंसीताकरुणंशोककर्शिता ॥ 1 ॥
ऊचुर्लक्षणिकायेमाम्पुत्रिण्यविधवेतिच ।
तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः ॥ 2 ॥
यज्वनोमहिषींयेमामूचुःपत्नीञ्चसत्त्रिणः ।
तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः ॥ 3 ॥
ऊचुस्संश्रवणेयेमान्द्विजाःकार्तान्तिकाश्शुभाम् ।
तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः ॥ 4 ॥
वीरपार्थिवपत्नीत्वांयेविदुर्भर्तृपूजिताम् ।
तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः ॥ 5 ॥
इमानिखलुपद्मानिपादयोर्यैःकुलस्त्रियः ।
अधिराज्येऽभिषिच्यन्तेनरेन्द्रैःपतिभिःसह ॥ 6 ॥
वैधव्यंयान्तियैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः ।
नात्मनन्तानिपश्यामिपश्यन्तीहतलक्षणा ॥ 7 ॥
सत्यनामानिपद्मानिस्त्रीणामुक्तानिलक्षणैः ।
तान्यद्यनिहतेरामेवितथानिभवन्तिमे ॥ 8 ॥
केशाह् सूक्ष्माह् समा नीला भ्रुवौ च असम्गते मम ।
वृत्ते च अलोमशे जन्घे दन्ताश् च अविरला मम ॥ 9 ॥
शङ्खेनेत्रेकरौपादौगुल्फावूरूचमेचितौ ।
अनुवृत्तनखास्स्निग्धास्समाश्चाङ्गुलयोमम ॥ 10 ॥
स्तनौ च अविरलौ पीनौ मम इमौ मग्न चूचुकौ ।
मग्ना च उत्सन्गिनी नाभिह् पार्श्व उरस्कं च मे चितम् ॥ 11 ॥
ममवर्णोमणिनिभोमृदून्यङ्गरुहाणिच ।
प्रतिष्ठितान्द्वादशभिर्मामूचुश्शुभलक्षणाम् ॥ 12 ॥
समग्रयवमच्छ्रिद्रपाणिपादञ्चवर्णवत् ।
मन्दस्मितेत्येवचमाङ्कन्यालाक्षणिनोद्विजाः ॥ 13 ॥
आधिराज्येऽभिषेकोमेब्राह्मणैःपतिनासह ।
कृतान्तकुशलैरुक्तन्तत्सर्वंवितथीकृतम् ॥ 14 ॥
शोधयित्वाजनस्थानम्प्रवृततिमुपलभ्यच ।
तीर्त्वासागरमक्षोभ्यम्भ्रातरौगोष्पदेहतौ ॥ 15 ॥
ननुवारुणमाग्नेयमैन्द्रंवायव्यमेवच ।
अस्त्रम्ब्रह्मशिरश्चैवप्रत्यपद्यताम् ॥ 16 ॥
अदृश्यमानेनरणेमाययावासवोपमौ ।
ममनाथावनाथायानिहतौरामलक्ष्मणौ ॥ 17 ॥
नहिदृष्टिपथम्प्राप्यराघवस्यरणेरिपुः ।
जीवन्प्रन्तिवर्तेतयद्यपिस्यान्मनोजवः ॥ 18 ॥
नकलस्यातिभारोऽस्तिकृतान्तश्चसुदुर्जयः ।
यत्ररामःसहभ्रात्राशेतेयुधिनिपातितः ॥ 19 ॥
नशोचामितथारामंलक्ष्मणञ्चमहारथम् ।
वात्मानञ्जननीञ्चापियथाश्वश्रून्तपस्विनीम् ॥ 20 ॥
सातुचिन्तयतेनित्यंसमाप्तव्रतमागतम् ।
कदाद्रक्ष्यामिसीताञ्चलक्ष्मणञ्चसराघवम् ॥ 21 ॥
परिदेवयमानान्तांराक्षसीत्रिजटाब्रवीत् ।
माविषादङ्कृथादेवी भर्ताऽयन्तवजीवति ॥ 22 ॥
कारणानिचवक्ष्यामिमहान्तिसदृशानिच ।
यथेमौजीवतोदेवीभ्रातरौरामलक्ष्मणौ ॥ 23 ॥
नहिकोपपरीतानिहर्षपर्युत्सुकानिच ।
भवन्तियुधियोधानाम्मुखानिनिहतेपतौ ॥ 24 ॥
इदंविमानंवैदेही पुष्पकन्नामनामतः ।
दिव्यन्त्वान्दारयन्नैवंयद्येतौगतजीवितौ ॥ 25 ॥
हतवीरप्रधानाहिगतोत्साहानिरुद्यमा ।
सेनाभ्रमतिसङ् ख्येषुहतकर्णेवनौर्जले ॥ 26 ॥
इयम्पुनरसम्भ्रान्तानिरुद्विग्नातरस्विनी ।
सेनारक्षतिकाकुत्स्थौमयाप्रीत्यानिवेदितौ ॥ 27 ॥
सात्वम्भवसुविस्रब्धाअनुमानैस्सुखोदयैः ।
अहतौपश्यकाकुत्स्थौस्नेहादेतद्ब्र्रवीमिते ॥ 28 ॥
अनृतन्नोक्तपूर्वम्मेनचवक्ष्येकदाचन ।
चारित्रसुखशीलत्वात् प्रविष्टाअसिमनःमम ॥ 29 ॥
नेमौशक्यारणेजेतुंसेन्द्रैरपिसुरासुरैः ।
तादृशन्दर्शनन्दृष्टवामयाचावेदितन्तव ॥ 30 ॥
इदञ्चसुमहचचित्रंशरैःपश्यस्वमैथिलि ।
निस्सञ्ज्ञावप्युभावेतौनैवलक्ष्मीर्विमुञ्चति ॥ 31 ॥
प्रायेणगतसत्त्वानाम्पुरुषाणाङ्गतायुषाम् ।
दृश्यमानेषुवक्त्रेषुपरम्भवतिवैकृतम् ॥ 32 ॥
त्यजशोकञ्चमोहञ्चदुःखञ्चजनकात्मजे ।
रामलक्ष्मणयोरर्थेनाद्यशक्यमजीवितुम् ॥ 33 ॥
शुत्वातुवचनन्तस्याःसीतासुरसुतोपमा ।
कृताञ्जलिरुवाचेमामेवमस्त्वितिमैथिलि ॥ 34 ॥
विमानम्पुष्पकन्तत्तुसन्निवर्त्यमनोजवम् ।
दीनात्रिजटयासीतालङ्कामेवप्रवेशिता ॥ 35 ॥
ततस्त्रिजटयासार्थम्पुष्पकादवरुह्यसा ।
अशोकवनिकामेवराक्षसीभिःप्रवेशिता ॥ 36 ॥
प्रविश्यसीताबहुवृक्षषण्डान्तांराक्षसेन्द्रस्यविहारभूमिम् ।
सम्प्रेक्ष्यसञ्चिन्त्यचराजपुत्रौपरंविषादंसमुपाजगाम ॥ 37 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टचत्वारिंशस्सर्गः ॥