View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.66 युद्धकाण्ड - षट्षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ षट्षष्टितमस्सर्गः ।

स लङ्घयित्वाप्राकारङ्गिरिकूटोपमोमहान् ।
निर्ययौनगरात्तूर्णङ्कुम्भकर्णोमहाबलः ॥ 1 ॥

ननाद च महानादंसमुद्रमभिनादयन् ।
विजयन्निवनिर्घातन्विधमन्निवपर्वतान् ॥ 2 ॥

तमवध्यम्मघवतायमेनवरुणेनवा ।
प्रेक्ष्यभीमाक्षमायान्तंवानराविप्रदुद्रुवुः ॥ 3 ॥

तांस्तुविप्रद्रुतान् दृष्टवाराजपुत्रोऽङ्गदोऽब्रवीत् ।
नलन्नीलङ्गवाक्षं च कुमुदं च महाबलम् ॥ 4 ॥

आत्मानमत्रविस्मृत्यवीर्याण्यभिजनानि च ।
क्वगच्छतभयत्रस्ताःप्राकृताहरयोयथा ॥ 5 ॥

साधुसौम्या निवर्तध्वङ्किप्राणान्परिरक्षथ ।
नालंयुद्धायवैरक्षोमहतीयम्बिभीषका ॥ 6 ॥

महतीमुथतितामेनांराक्षसानाम्बिभीषिकाम् ।
विक्रमाद्विधमिष्यामोनिवर्तध्वम्प्लवङ्गमाः ॥ 7 ॥

कृच्छ्रेणतुसमाश्वस्यसङ्गम्य च ततस्ततः ।
वृक्षाद्रिहस्ताहरयस्सम्प्रतस्थूरणाजिरम् ॥ 8 ॥

तेनिवृत्यतुसङ्कृद्धाःकुम्भकर्णंवनौकसः ।
निर्जघ्नुःपरमक्रुद्धास्समदाइवकुञ्जराः ॥ 9 ॥

प्रांशुभिर्गिरिशृङ्गैश्चशिलाभिश्चमहाबलः ।
पादपैःपुष्पिताग्रैश्चहन्यमानो न कम्पते ॥ 10 ॥

तस्यगात्रेषुपतिताभिद्यन्तेशतशश्शिलाः ।
पादपाःपुष्पिताग्राश्चभग्नाःपेतुर्महीतले ॥ 11 ॥

सोऽपिसैन्यानिसङ्क्रुद्धोवानराणाम्महौजसाम् ।
ममन्थपरमायत्तोवनान्यग्निरिवोत्थितः ॥ 12 ॥

लोहितार्द्रास्तुबहवश्शेरतेवानरर्षभाः ।
निरस्ताम्पतिताभूमौताम्रपुष्पाइवद्रुमाः ॥ 13 ॥

लङ्घयन्तःप्रधावन्तोवानरानावलोकयन् ।
केचित्समुद्रेपतिताःकेचिद्गगनमास्थिताः ॥ 14 ॥

वध्यमानास्तुतेवीराराक्षसेन च लीलया ।
सागरंयेनतेतीर्णाःपथातेनदुद्रुवुः ॥ 15 ॥

तेस्थलानितदानिम्नंविवर्णमानाभयात् ।
ऋक्षावृक्षान् समारूढाःकेचित्पर्वतमाश्रिताः ॥ 16 ॥

ममज्जुरर्णवेकेचिद्गुहाःकेचित्समाश्रिताः ।
निपेतुःकेचिदपरेकेचिन्नैवावतस्थिरे ॥ 17 ॥

केचिद्भूमौनिपतिताःकेचित्सुप्तामृताइव ।
तान्समीक्ष्याङ्गदोभग्नान्वानरानिदमब्रवीत् ॥ 18 ॥

अवतिष्ठतयुध्यामोनिवर्तध्वम्प्लवङ्गमाः ।
भग्नानांवो न पश्यामिपरिगम्यमहीमिमाम् ॥ 19 ॥

स्थानंसर्वेनिवर्तध्वङ्किम्प्राणान् परिरक्षथ ।
निरायुधानान्द्रवतामसङ्गगतिपौरुषाः ॥ 20 ॥

दाराह्युपहसिष्यन्ति स वैघातस्तुजीवताम् ।
कुलेषुजातास्सर्वेस्मविस्तीर्णेषुमहत्सु च ॥ 21 ॥

क्वगच्छतभयत्रस्ताःहरयःप्राकृतायथा ।
अनार्याःखलुयद्भीतास्त्यक्त्वावीर्यम्प्रधावत ॥ 22 ॥

विकत्थनानिवोयानि तदावैजनसंसदि ।
तानिवःक्वनुयातानिसोदग्राणिम हितानि च ॥ 23 ॥

भीरुप्रवादाश्श्रूयन्तेयस्तुजीवतिधिक्कृतः ।
मार्गस्सत्पुरुषैर्जष्टःसेव्यतान्त्यज्यताम्भयम् ॥ 24 ॥

शयामहेऽनिहताःपृथिव्यामल्पजीविताः ।
दुष्प्रापम्ब्रह्मलोकंवाप्राप्नुयामोयुधिसूदिता ॥ 25 ॥

सम्प्राप्नुयामःकीर्तिंवानिहत्वाशत्रुमाहवे ।
जीवितंवीरलोकस्यमोक्ष्यामोवसुवानराः ॥ 26 ॥

न कुम्भकर्णःकाकुत्स्थन्दृष्टवाजीवन् गमिष्यति ।
दीप्यमानमिवासाद्यपतङ्गोज्वलनंयथा ॥ 27 ॥

लायनेनचोद्धिष्टाःप्राणान् रक्षामहेवयम् ।
एकेनबहवोभग्नायशोनाशङ्गमिष्यति ॥ 28 ॥

एवम्ब्रुवाणन्तंशूरमङ्गदङ्कनकाङ्गदम् ।
द्रवमाणास्ततोवाक्यमूचुःशूरुविगर्हितम् ॥ 29 ॥

कृतन्नःकदनङ्घोरङ्कुम्भकर्णेनरक्षसा ।
न स्थानकालोगच्छामोदयितञ्जीवितंहिनः ॥ 30 ॥

एतावदुक्त्वावचनंसर्वेतेभेजिरेदिशः ।
भीमम्भीमाक्षमायान्तन्दृष्टवावानरयूथपाः ॥ 31 ॥

द्रवमाणस्तुतेवीराअङ्गदेनवलीमुखाः ।
सान्त्वैश्चैहनुमानैश्चततस्सर्वेनिवर्तिताः ॥ 32 ॥

प्रहर्षमुपनीताश्चवालिपुत्रेणधीमता ।
आज्ञाप्रतीक्षास्तस्थुश्चसर्वेवानरयूथपाः ॥ 33 ॥

ऋषभशरभमैन्दधूम्रनीलाःकुमुदसुषेणगवाक्षरम्भताराः ।
द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखंरणम् ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे षट्षष्टितमस्सर्गः ॥




Browse Related Categories: