श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ सप्तषष्टितमस्सर्गः ।
एवमुक्तस्तु हनुमान् राघवेण महात्मना ।
सीताया भाषितं सर्वं न्यवेदयत राघवे ॥ 1 ॥
इदमुक्तवती देवी जानकी पुरुषर्षभ ।
पूर्व वृत्तमभिज्ञानं चित्रकूटे यथातथम् ॥ 2 ॥
सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता ।
वायस स्सहसोत्पत्य विददार स्तनान्तरे ॥ 3 ॥
पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज ।
पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ॥ 4 ॥
पुनः पुनरुपागम्य विददार भृशं किल ।
ततस्त्वं बोधितस्तस्याश्शोणितेन समुक्षितः ॥ 5 ॥
वायसेन च तेनैव सततं बाध्यमानया ।
बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ॥ 6 ॥
तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे ।
आशीविष इव क्रुद्धो निश्वसन्नभ्यभाषथाः ॥ 7 ॥
नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ।
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ 8 ॥
निरीक्षमाणस्सहसा वायसं समवैक्षथाः ।
नखै स्सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ॥ 9 ॥
सुतः किल स शक्रस्य वायसः पततां वरः ।
धरान्तरचरश्शीघ्रं पवनस्य गतौ समः ॥ 10 ॥
ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः ।
वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर ॥ 11 ॥
स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण ह्ययोजयः ।
स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ॥ 12 ॥
क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति ।
ततस्तु वायसं दीप्तस्स दर्भोऽनुजगाम ह ॥ 13 ॥
स पित्रा च परित्यक्तस्सुरैश्च समहर्षिभिः ।
त्रीन् लोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति ॥ 14 ॥
पुनरेवागतस्त्रस्तस्त्वत्सकाशमरिन्दम ।
स तं निपतितं भूमौ शरण्यश्शरणागतम् ॥ 15 ॥
वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ।
मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ॥ 16 ॥
भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।
राम त्वां स नमस्कृत्य राज्ञे दशरथाय च ॥ 17 ॥
विसृष्टस्तु तदा काक प्रतिपेदे स्वमालयम् ।
एवमस्त्रविदां श्रेष्ठस्सत्त्ववान् शीलवानपि ॥ 18 ॥
किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ।
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ॥ 19 ॥
न च सर्वे रणे शक्ता रामं प्रतिसमासितुम् ।
तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः ॥ 20 ॥
क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ।
भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः ॥ 21 ॥
स किमर्थं नरवरो न मां रक्षति राघवः ।
शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ॥ 22 ॥
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।
ममैव दुष्कृतं किञ्चिन्महदस्ति न संशयः ॥ 23 ॥
समर्थौ सहितौ यन्मां नावेक्षेते परन्तपौ ।
वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् ।
पुनरप्यहमार्यां तामिदं वचनमब्रुवम् ॥ 24 ॥
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ॥ 25 ॥
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।
कथञ्चिद्भवती दृष्टा न कालः परिशोचितुम् ॥ 26 ॥
अस्मिन्मुहूर्ते दुःखानामन्तं द्रक्ष्यसि भामिनि ।
तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ ॥ 27 ॥
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।
हत्वा च समरे रौद्रं रावणं सह बान्धवम् ॥ 28 ॥
राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम् ।
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ॥ 29 ॥
प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि ।
साभिवीक्ष्य दिशस्सर्वा वेण्युद्ग्रथितमुत्तमम् ॥ 30 ॥
मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल ।
प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह ॥ 31 ॥
शिरसा तां प्रणम्यार्यामहमागमने त्वरे ।
गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ॥ 32 ॥
विवर्धमानं च हि मामुवाच जनकात्मजा ।
अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी ॥ 33 ॥
ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता ।
हनुमन् सिंहसङ्काशावुभौ तौ रामलक्ष्मणौ ॥ 34 ॥
सुग्रीवञ्च सहामात्यं सर्वान् ब्रूया ह्यनामयम् ।
यथा च स महाबाहुर्मां तारयति राघवः ।
अस्माद्धुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥ 35 ॥
इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।
ब्रूयास्तु रामस्य गतस्समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर ॥ 36 ॥
एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् ।
एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ॥ 37 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे सप्तषष्टितमस्सर्गः ॥