श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ अष्टाशीतितमस्सर्गः ।
तच्छ्रुत्वा निपुणं सर्वं भरत स्सह मन्त्रिभिः ।
इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ॥ 1 ॥
अब्रवीज्जननी स्सर्वा इह तेन महात्मना ।
शर्वरी शयिता भूमाविदमस्य विमर्दितम् ॥ 2 ॥
तच्छ्रुत्वा निपुणं सर्वं भरत स्सह मन्त्रिभिः ।
इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ॥ 3 ॥
अब्रवीज्जननी स्सर्वा इह तेन महात्मना ।
शर्वरी शयिता भूमाविदमस्य विमर्दितम् ॥ 4 ॥
महाभागकुलीनेन महाभागेन धीमता ।
जातो दशरथेनोर्व्यां न रामस्स्वप्तु मर्हति ॥ 5 ॥
अजिनोत्तरसंस्तीर्णे वरास्तरणसञ्चये ।
शयित्वा पुरुषव्याघ्रः कथं शेते महीतले ॥ 6 ॥
प्रासादाग्रविमानेषु वलभीषु च सर्वदा ।
हैमराजतभौमेषु वरास्तरणशालिषु ॥ 7 ॥
पुष्पसञ्चयचित्रेषु चन्दनागरुगन्धिषु ।
पाण्डुराभ्रप्रकाशेषु शुकसङ्घरूतेषुच ॥ 8 ॥
प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु ।
उषित्वामेरुकल्पेषु कृतकाञ्चन भित्तिषु ॥ 9 ॥
गीतवादित्रनिर्घोषैर्वराभरणनिस्स्वनैः ।
मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ॥ 10 ॥
वन्दिभिर्वन्दितः काले बहुभि स्सूतमागधैः ।
गाथाभिरनुरूपाभि स्स्तुतिभिश्च परन्तपः ॥ 11 ॥
अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा ।
मुह्यते खलु मे भाव स्स्वप्नोऽयमिति मे मतिः ॥ 12 ॥
न नूनं दैवतं किञ्चित्कालेन बलवत्तरम् ।
यत्र दाशरथी रामो भूमावेव शयीत सः ॥ 13 ॥
विदेहराजस्य सुता सीता च प्रियदर्शना ।
दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ 14 ॥
इयं शय्या मम भ्रातुरिदं हि परिवर्तितम् ।
स्थण्डिले कठिने सर्वं गात्रै र्विमृदितं तृणम् ॥ 15 ॥
मन्ये साभरणा सुप्ता सीताऽस्मिञ्छयनोत्तमे ।
तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः ॥ 16 ॥
उत्तरीयमिहाऽसक्तं सुव्यक्तं सीतया तदा ।
तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः ॥ 17 ॥
मन्ये भर्तु स्सुखा शय्या येन बाला तपस्विनी ।
सुकुमारी सती दुःखं न हि विजानाति मैथिली ॥ 18 ॥
हा हन्ताऽस्मि नृशंसोऽहं यत्सभार्यः कृते मम ।
ईदृशीं राघवश्शय्यामधिशेते ह्यनाथवत् ॥ 19 ॥
सार्वभौमकुले जात स्सर्वलोकस्य सम्मतः ।
सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तम् ॥ 20 ॥
कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः ।
सुखभागी न दुःखार्ह श्शयितो भुवि राघवः ॥ 21 ॥
धन्यः खलु महाभागो लक्ष्मण श्शुभलक्षणः ।
भ्रातरं विषमे काले यो राममनुवर्तते ॥ 22 ॥
सिद्धार्था खलु वैदेही पतिं याऽनुगता वनम् ।
वयं संशयिता स्सर्वे हीनास्तेन महात्मना ॥ 23 ॥
आकर्णधारा पृथिवी नौः इव प्रतिभाति मा ।
गते दशरथे स्वर्गं रामे चारण्यमाश्रिते ॥ 24 ॥
न च प्रार्थयते कच्चिन्मनसापि वसुन्धराम् ।
वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ॥ 25 ॥
शून्यसंवरणारक्षामयन्त्रितहयद्विपाम् ।
अपावृतपुरद्वारां राजधानीमरक्षिताम् ॥ 26 ॥
अप्रहृष्टबलां शून्यां विषमस्थामनावृताम् ।
शत्रवो नाभिमन्यन्ते भक्षान्विषकृतानिव ॥ 27 ॥
अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा ।
फलमूलाशनो नित्यं जटाचीराणि धारयन् ॥ 28 ॥
तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने ।
तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ॥ 29 ॥
वसन्तं भ्रातुरर्थाय शत्रुघ्नो माऽनुवत्स्यति ।
लक्ष्मणेन सहत्वार्यो ह्ययोध्यां पालयिष्यति ॥ 30 ॥
अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः ।
अपि मे देवताः कुर्युरिमं सत्यं मनोरथम् ॥ 31 ॥
प्रसाद्यमान श्शिरसा मया स्वयं बहुप्रकारं यदि नाभिपत्स्यते ।
ततोऽनुवत्स्यामि चिराय राघवं वनेचरन्नार्हति मामुपेक्षितुम् ॥ 32 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे अष्टाशीतितमस्सर्गः ॥