श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुरधिकशततमस्सर्गः ।
तस्यक्रुद्धस्यवदनन्दृष्टवारामस्यधीमतः ॥ 1 ॥
सर्वभूतानिवित्रेसुःप्राकम्पत च मेदिनी ।
सिंहशार्दूलान्शैलस्सञ्चचालचलद्द्रुमः ।
बभूवचापिक्षुभितःसमुद्रःसरिताम्पतिः ॥ 2 ॥
खराश्चखरनिर्घोषागगनेपरुषाघनाः ।
औत्पातिकानिनर्दन्तस्समन्तात्परिचक्रमुः ॥ 3 ॥
रामन्दृष्टवासुसङ्क्रुद्धमुत्पातांश्चैवसुदारुणान् ।
वित्रेसुस्सर्वभूतानिरावणस्याभवद्भयम् ॥ 4 ॥
विमानस्थास्तदादेवागन्धर्वाश्चमहोरगाः ।
ऋषिदावनदैत्याश्चगरुत्मन्तश्चखेचराः ॥ 5 ॥
ददृशुस्तेतदायुद्धंलोकसम्वर्तसंस्थितम् ।
नानाप्रहरणैर्भीमैश्शूरयोस्सम्प्रयुध्यतोः ॥ 6 ॥
ऊचुस्सुरासुरास्सर्वेतदाविग्रहमागताः ।
प्रेक्षमाणामहर्युद्धंवाक्यम्भक्त्याप्रहृष्टवत् ॥ 7 ॥
दशग्रीवञ्जयेत्याहुरसुराःसमवस्थिताः ।
देवाराममवोचंस्तेत्वञ्जयेतिपुनःपुनः ॥ 8 ॥
एतस्मिन्नन्तरेक्रोधाद्राघवस्य स रावणः ।
प्रहर्तुकामोदुष्टात्मास्पृशन् प्रहरणम्महत् ॥ 9 ॥
वज्रसारम्महानादंसर्वशत्रुनिबर्हणम् ।
शैलशृङ्गनिभैःकूटैश्चित्तदृष्टिभयावहम् ॥ 10 ॥
सधूममिवतीक्ष्णाग्रंयुगान्ताग्निचमोपमम् ।
अतिरौद्रमनासाद्यङ्कालेनापिदुरासदम् ॥ 11 ॥
त्रासनंसर्वभूतानान्दारणम्भेदनन्तथा ।
प्रदीप्तमिवरोषेणशूलञ्जग्राहरावणः ॥ 12 ॥
तच्छूलम्परमक्रुद्धोमध्येजग्राहवीर्यवान् ।
अनेकैःसमरेश्शूरैराक्षसैःपरिवारितः ॥ 13 ॥
समुद्यम्यमहाकायोननादयुधिभैरवम् ।
संरक्तनयनोरोषात्स्वसैन्यमभिहर्षयन् ॥ 14 ॥
पृथिवीञ्चान्तरिक्षं च दिशश्चप्रदिशस्तथा ।
प्राकम्पयत्तदाशब्दोराक्षसेन्द्रस्यदारुणः ॥ 15 ॥
अतिनादस्य्यदानेनतेनतस्यदुरात्मनः ।
सर्वभूतानिवित्रेसुस्सागरश्चप्रचुक्षुभे ॥ 16 ॥
स गृहीत्वामहावीर्यश्शूलन्तद्रावणोमहत् ।
विनद्यसुमहानादंरामम्परुषमब्रवीत् ॥ 17 ॥
शूलोऽयंवज्रसारस्तेरामरोषान्मयोद्यतः ।
तवभ्रातृसहायस्यसम्यक् प्राणान् हरिष्यति ॥ 18 ॥
रक्षसामद्यशूराणान्निहतानाञ्चमूमुखे ।
त्वान्निहत्यरणश्लाघीकरोमितरसासमम् ॥ 19 ॥
तिष्ठेदानीन्निहमनित्वामेषशूलेनराघव ।
एवमुक्त्वा स चिक्षेपतच्छूलंराक्षसाधिपः ॥ 20 ॥
तद्रावणकरान्मुक्तंविद्युन्मालासमावृतम् ।
अष्टघण्टम्महानादंवियद्गतमशोभत ॥ 21 ॥
तच्छूलंराघवोदृष्टवाज्वलन्तङ्घोरदर्शनम् ।
ससर्जविशिखान्रामश्चापमायम्यवीर्यवान् ॥ 22 ॥
आपतन्तंशरौघेणवारयामासराघवः ।
उत्पतन्तंयुगान्तानगिञ्जलौघैरिववासवः ॥ 23 ॥
निर्ददाह स तान्बाणान्रामकार्मुकनिःसृतान् ।
रावणस्यमहान् शूलःपतङ्गानिवपावकः ॥ 24 ॥
तान्दृष्टवाभस्मसाद्भूतान्शूलसम्स्पर्शचूर्णितान् ।
सायकानन्तरिक्षस्थान् राघवःक्रोधमाहरत् ॥ 25 ॥
स ताम्मातलिनानीतांशक्तिंवासवसम्मताम् ।
जग्राहपरमक्रुद्धोराघवोरघुनन्दनः ॥ 26 ॥
सातोलिताबलवताशक्तिर्घण्टाकृतस्वना ।
नभःप्रज्वालयामासयुगान्तोल्केवसप्रभा ॥ 27 ॥
साक्षिप्ताराक्षसेन्द्रस्यतस्मिन्कूलेपपात ह ।
भिन्नःशक्त्यामहान् शूलोनिपपातहतद्युतिः ॥ 28 ॥
निर्भिभेदततोबाणैर्हयानस्यमहाजवान् ।
रामस्त्रीक्ष्णैर्महावेगैर्भाणवद्भिरजिह्मगैः ॥ 29 ॥
निर्बिभेदोरपितदारावणन्निशितैश्शरैः ।
राघवःपरमायत्तोललाटेपत्रतिभिस्त्रिभिः ॥ 30 ॥
स शरैर्भिन्नसर्वाङ्गोगात्रप्रसृतशोणितः ।
राक्षसेन्द्रस्समूहस्थःफुल्लाशोकैवाबभौ ॥ 31 ॥
स रामबाणैरतिविद्धगात्रोनिशाचरेन्द्रःक्षतजार्द्रगात्रः ।
जगामखेदं च समाजमध्येक्रोधं च चक्रेसुभृशन्तदानीम् ॥ 32 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुरधिकशततमस्सर्गः ॥