श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ सप्तमस्सर्गः ।
ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता ।
प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥ 1 ॥
सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम् ।
अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥ 2 ॥
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् ।
वृतां छन्दपथैश्चापि शिरस्स्नातजनैर्वृताम् ॥ 3 ॥
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् ।
शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम् ॥ 4 ॥
सम्प्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् ।
प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम् ॥ 5 ॥
प्रहृष्टमुदितैः पौरैरुच्छ्रितध्वजमालिनीम् ।
अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता ॥ 6 ॥
प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् ।
अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥ 7 ॥
उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ।
राममाता धनं किन्नु जनेभ्यस्सम्प्रयच्छति ॥ 8 ॥
अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे ।
कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः ॥ 9 ॥
विदीर्यमाणा हर्षेण धात्री तु परया मुदा ।
आचचक्षेऽथ कुब्जायै भूयसीं राघव श्रियम् ॥ 10 ॥
श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ।
राजा दशरथो राममभिषेचयिताऽनघम् ॥ 11 ॥
धात्र्यास्तु वचनं शृत्वा कुब्जा क्षिप्रममर्षिता ।
कैलासशिखराकारा त्प्रासादादवरोहत ॥ 12 ॥
सा दह्यमाना कोपेन मन्थरा पापदर्शिनी ।
शयानामेत्य कैकेयीमिदं वचनमब्रवीत् ॥ 13 ॥
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ।
उपप्लुतामौघेन किमात्मानं न बुध्यसे ॥ 14 ॥
अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे ।
चलं हि तव सौभाग्यं नद्यास्स्रोत इवोष्णगे ॥ 15 ॥
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।
कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥ 16 ॥
कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं नु मन्थरे ।
विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥ 17 ॥
मन्थरा तु वच श्श्रुत्वा कैकेय्या मधुराक्षरम् ।
उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥ 18 ॥
सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।
विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ॥ 19 ॥
अक्षय्यं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् ।
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥ 20 ॥
साऽस्म्यगाधे भये मग्ना दुःखशोकसमन्विता ।
दह्यमानाऽनलेनेव त्वद्धितार्थमिहागता ॥ 21 ॥
तव दुःखेन कैकेयि मम दुःखं महद्भवेत् ।
त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥ 22 ॥
नराधिपकुले जाता महिषी त्वं महीपतेः ।
उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥ 23 ॥
धर्मावादी शठो भर्ता श्लक्ष्णवादी च दारुणः ।
शुद्धभावे न जानीषे तेनैव मतिसन्धिता ॥ 24 ॥
उपस्थितः प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम् ।
अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥ 25 ॥
उपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।
काल्ये स्थापयिता रामं राज्ये निहतकण्टके ॥ 26 ॥
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।
आशीविष इवाङ्केन बाले परिधृतस्त्वया ॥ 27 ॥
यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।
राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ 28 ॥
पापेनानृतसान्त्वेन बाले नित्यसुखोचिते ।
रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥ 29 ॥
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव ।
त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ 30 ॥
मन्थाराया वचश्श्रुत्वा शयाना सा शुभानना ।
उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी ॥ 31 ॥
अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता ।
एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥ 32 ॥
दत्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।
कैकेयी मन्थरां दृष्ट्वा पुनरेवाब्रवीदिदम् ॥ 33 ॥
इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् ।
एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥ 34 ॥
रामे वा भरते वाऽहं विशेषं नोपलक्षये ।
तस्मात्तुष्टाऽस्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥ 35 ॥
न मे परं किञ्चिदितस्त्वया पुनः प्रियं प्रियार्हे सुवचं वचःपरम् ।
तथा ह्यवोचस्त्वमतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु ॥ 36 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे सप्तमस्सर्गः ॥