View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.12 युद्धकाण्ड - द्वादश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ द्वादशस्सर्गः ।

सताम्परिषदङ्कृत्स्नांसमीक्ष्यसमितिञ्जयः ।
प्रचोदयामासतदाप्रहस्तंवाहिनीपतिम् ॥ 1 ॥

सेनापतेयथातेस्युःकृतविद्याश्चतुर्विधाः ।
योधानगररक्षायान्तथाव्यादेष्टुमर्हसि ॥ 2 ॥

सप्रहस्तःप्रणीतात्माचिकीर्षन् राजशासनम् ।
विनिक्षिपद्बलंसर्वम्बहिरन्तश्चमन्दिरे ॥ 3 ॥

ततोविनिक्षिप्यबलंसर्वनगरगुप्तये ।
प्रहस्तःप्रमुखेराज्ञोनिषसादजगादच ॥ 4 ॥

विहितम्बहिरन्तश्चबलम्बलवतस्तव ।
कुरुष्याविमनाःक्षिप्रंयदभिप्रेतमस्तुते ॥ 5 ॥

प्रहस्तस्यवचश्श्रुत्वाराजाराज्यहितैषिणः ।
सुखेप्सुस्सुहृदाम्मध्येव्याजहारसरावणः ॥ 6 ॥

प्रियाप्रियेसुखन्दुःखंलाभालाभेहिताहिते ।
धर्मकामार्थकृच्छ्रेषुयूयमर्हथवेदितुम् ॥ 7 ॥

सर्वकृत्यानियुष्माभिस्समारब्धानिसर्वथा ।
मन्त्रकर्मनियुक्तानिनजातुविफलानिमे ॥ 8 ॥

ससोमग्रहनक्षत्रैर्मरुद्भिरिववासवः ।
भवद्भिरहमत्यर्थंवृतश्रियमवाप्नुयाम् ॥ 9 ॥

अहन्तुखलुसर्वान्वस्समर्थयितुमुद्यतः ।
कुम्भकर्णस्यतुस्वप्नान्नेममर्थमचोदयम् ॥ 10 ॥

इयं च दण्डकारण्याद्रामस्य महिषी प्रिया ।
रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥ 11 ॥

इयञ्चदण्डकारण्याद्रामस्यमहिषीमया ।
रक्षोभिश्चरितोद्देशादानीताजनकात्मजा ॥ 12 ॥

सामेवशय्यामारोढुमिच्छत्यलसगामिनी ।
त्रिषुलोकेषुचान्यामेनसीतासदृशीमता ॥ 13 ॥

तनुमध्यापृथुश्रोणीशरदिन्दुनिभानना ।
हेमबिम्बनिभासौम्यामायेवमयनिर्मिता ॥ 14 ॥

सुलोहिततलौश्लक्ष् णौचरणौसुप्रतिष्ठितौ ।
दृष्ट्वाताम्रनखौतस्यादीप्यतेमेशरीरजः ॥ 15 ॥

हुताग्निरर्चिस्सङ्काशामेनांसौरीमिवप्रभाम् ।
उन्नसंविमलंवल्गुविपुलाञ्चारुलोचनम् ॥ 16 ॥

पश्यंस्तदवशस्तस्याःकामस्यवशमेयिवान् ।
क्रोधहर्षसमानेनदुर्वर्णकरणेनच ॥ 17 ॥

शोकसन्तापनित्येनकामेनकलुषीकृतः ।
सातुसंवत्सरङ्कालम्मामयाचतभामिनी ॥ 18 ॥

प्रतीक्षमाणाभर्तारंराममायतलोचना ।
तन्मयाचारुनेत्रायःप्रतिज्ञातंवचश्शुभम् ॥ 19 ॥

बहुसत्त्वसमाकीर्णं तौ वा दशरथात्मजौ ।
अथवा कपिनैकेन कृतं नः कदनं महत् ॥ 20 ॥

बहुसत्त्वसमाकीर्णन्तौवादशरथात्मजौ ।
अथवाकपिनैकेनकृतन्नःकदनम्महत् ॥ 21 ॥

दुर् ज्ञेयाःकार्यगतयोब्रूतयस्ययथामति ।
मानुष्यान्नोभयन्नास्तितथापितुविमृश्यताम् ॥ 22 ॥

तदादेवासुरेयुद्धेयुष्माभिस्सहितोऽजयम् ।
तेमेभवन्तश्चतथासुग्रीवप्रमुखान्हरीन् ॥ 23 ॥

परेपारेसमुद्रस्यपुरस्कृत्यनृपात्मजौ ।
सीतायाःपदवीम्प्राप्यसम्प्राप्तौवरुणालयाम् ॥ 24 ॥

अदेयाचयथासीतावध्यौदशरथात्मजौ ।
भवद्भिर्मन्त्र्यताम्मन्त्रस्सुनीतञ्चाभिधीयताम् ॥ 25 ॥

नहिशक्तिम्प्रपश्यामिजगत्यन्यस्यकस्यचित् ।
सागरंवानरैस्तीर्वानिश्चयेनजयोमम ॥ 26 ॥

तस्यकामपरीतस्यनिशम्यपरिदेवितम् ।
कुम्भकर्णःप्रचुक्रोधवचनञ्चेदमब्रवीत् ॥ 27 ॥

यदातुरामस्यसलक्ष्मणस्यप्रसह्यसीताखलुसाइहाऽहृता ।
सकृत्समीक्ष्यैवसुनिश्चितन्तदाभजेतचित्तंयमुनेवयामुनम् ॥ 28 ॥

सर्वमेतन्महाराजकृतमप्रतिमन्तव ।
विधीयेतसहास्माभिरादावेवास्यकर्मणः ॥ 29 ॥

न्यायेनराजकार्याणियःकरोतिदशाननः ।
नससन्तप्यतेपश्चान्निश्चितार्थमतिर्नृपः ॥ 30 ॥

अनुपायेनकर्माणिविपरीतानियानिच ।
क्रियमाणानिदुष्यन्तिहवींष्यप्रयतेष्विव ॥ 31 ॥

यःपश्चात्पूर्वकार्याणिकर्माण्यभिचिकीर्षति ।
पूर्वञ्चापरकार्याणिनसवेदनयानयौ ॥ 32 ॥

चपलस्यतुकृत्येषुप्रसमीक्ष्याधिकम्बलम् ।
क्षिप्रमन्येप्रपद्यन्तेक्रौञ्चस्यखमिवद्विजाः ॥ 33 ॥

त्वयेदम्महादारब्धङ्कार्यमप्रतिचिन्तितम् ।
दिष्ट्यात्वान्नावधीद्रामोविषमिश्रमिवामिषम् ॥ 34 ॥

तस्मात्त्वयासमारब्धङ्कर्मह्यप्रतिमम्परैः ।
अहंसमीकरिष्यामिहत्वाशत्रूंस्तवानघ ॥ 35 ॥

अहमुत्सादयिष्यामिशत्रूंस्तवनिशाचर ।
यदिशक्रविवस्वन्तौयदिपावकमारुतौ ॥ 36 ॥

तावहंयोधयिष्यामिकुबेरवरुणावपि ।
गिरिमात्रशरीरस्यमहापरिघयोधिनः ।
नर्दतस्तीक्ष्णदंष्ट्रस्यबिभीयाद्वैपुरन्दरः ॥ 37 ॥

पुनर्मांसद्वितीयेनशरेणनिहनिष्यति ।
ततोऽहन्तस्यपास्यामिरुधिरङ्काममाश्वस ॥ 38 ॥

वधेनवैदाशरथेस्सुखावहञ्जयन्तवाहर्तुमहंयतिष्ये ।
हत्वाचरामंसहलक्ष्मणेनखादामिसर्वान्हरियूथमुख्यान् ॥ 39 ॥

रमस्वकामं पिबचाग्य्रवारुणीङ्कुरष्वकार्याणिहितानिविज्वरः ।
मयातुरामेगमितेयमक्षयञ्चिरायसीतावशगाभविष्यति ॥ 40 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे द्वादशस्सर्गः ॥




Browse Related Categories: