श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ सप्तदशस्सर्गः ।
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य सुमहात्मनः ।
उवाच देवतास्सर्वास्स्वयम्भूर्भगवानिदम् ॥ 1 ॥
सत्यसन्धस्य वीरस्य सर्वेषान्नो हितैषिणः ।
विष्णोस्सहायान्बलिनस्सृजध्वं कामरूपिणः ॥ 2 ॥
मायाविदश्च शूरांश्च वायुवेगसमाञ्जवे ।
नयज्ञान्बुद्धिसम्पन्नान्विष्णुतुल्यपराक्रमान् ॥ 3 ॥
असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् ।
सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥ 4 ॥
अप्सरस्सु च मुख्यासु गन्धर्वाणां तनूषु च ।
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥ 5 ॥
पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः ।
जृम्भमाणस्य सहसा मम वक्त्रादजायत ॥ 6 ॥
ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् ।
जनयामासुरेवं ते पुत्रान्वानररूपिणः ॥ 7 ॥
ऋषयश्च महात्मानस्सिद्धविद्याधरोरगाः ।
चारणाश्च सुतान्वीरान्ससृजुर्वनचारिणः ॥ 8 ॥
वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमूर्जितम् ।
सुग्रीवं जनयामास तपनस्तपतां वरः ॥ 9 ॥
बृहस्पतिस्त्वजनयत्तारं नाम महाहरिम् ।
सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥ 10 ॥
धनदस्य सुतश्श्रीमान् वानरो गन्धमादनः ।
विश्वकर्मात्वजनयन्नलं नाम महाहरिम् ॥ 11 ॥
पावकस्य सुतश्श्रीमान् नीलोऽग्निसदृशप्रभः ।
तेजसा यशसा वीर्यादत्यरिच्यत वानरान् ॥ 12 ॥
रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ ।
मैन्दं च द्विविदं चैव जनयामासतुस्स्वयम् ॥ 13 ॥
वरुणो जनयामास सुषेणं वानरर्षभम् ।
शरभं जनयामास पर्जन्यस्तु महाबलम् ॥ 14 ॥
मारुतस्यात्मजश्श्रीमान्हनुमान्नाम वीर्यवान् ।
वज्रसंहननोपेतो वैनतेयसमो जवे ॥ 15 ॥
ते सृष्टा बहुसाहस्रा दशग्रीववधे रताः ।
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ॥ 16 ॥
मेरुमन्दरसङ्काशा वपुष्मन्तो महाबलाः ।
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ॥ 17 ॥
यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ।
अजायत समस्तेन तस्य तस्य सुतः पृथक् ॥ 18 ॥
गोलाङ्गूलीषु चोत्पन्नाः केचित्सम्मतविक्रमाः ।
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ॥ 19 ॥
देवा महर्षिगन्धर्वास्तार्क्ष्या यक्षा यशस्विनः ।
नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ॥ 20 ॥
बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ।
वानरान्सुमहाकायान्सर्वान्वै वनचारिणः ॥ 21 ॥
अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च ।
नागकन्यासु च तथा गन्धर्वीणां तनूषु च ॥ 22 ॥
कामरूपबलोपेता यथाकामं विचारिणः ।
सिंहशार्दूलसदृशा दर्पेण च बलेन च ॥ 23 ॥
शिलाप्रहरणास्सर्वे सर्वे पादपयोधिनः ॥ 24 ॥
नखदंष्ट्रायुधास्सर्वे सर्वे सर्वास्त्रकोविदाः ।
विचालयेयुश्शैलेन्द्रान्भेदयेयुस्स्थिरान्द्रुमान् ।
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ॥ 25 ॥
दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् ।
नभःस्थलं विशेयुश्च गृह्णीयुरपि तोयदान् ॥ 26 ॥
गृह्णीयुरपि मातङ्गान्मत्तान्प्रव्रजतो वने ।
नर्दमानाश्च नादेन पातयेयुर्विहङ्गमान् ॥ 27 ॥
ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ।
शतं शतसहस्राणि यूथपानां महात्मनाम् ॥ 28 ॥
ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ।
बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन् ॥ 29 ॥
अन्ये ऋक्षवतः प्रस्थानवतस्थु स्सहस्रशः ।
अन्ये नानाविधान्शैलान्भेजिरे काननानि च ॥ 30 ॥
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ।
भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः ॥ 31 ॥
नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ।
3 ते तार्क्ष्यबलसम्पन्नास्सर्वे युद्धविशारदाः ।
विचरन्तोऽर्दयन्दर्पात्सिंहव्याघ्रमहोरगान् ॥ 32 ॥
तांश्च सर्वान्महाबाहुर्वाली विपुलविक्रमः ।
जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ 33 ॥
तैरियं पृथिवी शूरैस्सपर्वतवनार्णवा ।
कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥ 34 ॥
तैर्मेघबृन्दाचलकूटकल्पैः महाबलैर्वानरयूथपालैः ।
बभूव भूर्भीमशरीररूपै स्समावृता रामसहायहेतोः ॥ 35 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तदशस्सर्गः ॥