View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.68 बालकाण्ड - अष्टषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ अष्टषष्टितमस्सर्गः ।

जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः ।
त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम् ॥ 1 ॥

राज्ञो भवनमासाद्य द्वारस्थानिदमब्रुवन् ।
शीघ्रं निवेद्यतां राज्ञे दूतान्नो जनकस्य च ॥ 2 ॥

इत्युक्ता द्वारपालास्ते राघवाय न्यवेदयन् ।
ते राजवचनाद्दूता राजवेश्मप्रवेशिताः ।
ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम् ॥ 3 ॥

बद्धाञ्जलिपुटा स्सर्वे दूता विगतसाध्वसाः ।
राजानं प्रयता वाक्यमब्रुवन्मधुराक्षरम् ॥ 4 ॥

मैथिलो जनको राजा साग्निहोत्रपुरस्कृतम् ।
कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् ॥ 5 ॥

मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा ।
जनकस्त्वां महाराज पृच्छते सपुरस्सरम् ॥ 6 ॥

पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः ।
कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत् ॥ 7 ॥

पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा ।
राजानश्च कृतामर्षानिर्वीर्या विमुखीकृताः ॥ 8 ॥

सेयं मम सुता राजन् विश्वामित्रपुरस्सरैः ।
यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः ॥ 9 ॥

तच्च राजन् धनुर्दिव्यं मध्ये भग्नं महात्मना ।
रामेण हि महाराज महत्यां जनसंसदि ॥ 10 ॥

अस्मै देया मया सीता वीर्यशुल्का महात्मने ।
प्रतिज्ञां कर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥ 11 ॥

सोपाध्यायो महाराज पुरोहितपुरस्सरः ।
शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ ॥ 12 ॥

प्रीतिं च मम राजेन्द्र निर्वर्तयितुमर्हसि ।
पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे ॥ 13 ॥

एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् ॥ 14 ॥

विश्वामित्राभ्यनुज्ञात श्शतानन्दमते स्थितः ।
इत्युक्त्वा विरता दूता राजगौरवशङ्किताः ॥ 15 ॥

दूतवाक्यं च तच्छ्रुत्वा राजा परमहर्षितः ।
वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत् ॥ 16 ॥

गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः ।
लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥ 17 ॥

दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना ।
सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति ॥ 18 ॥

यदि वो रोचते वृत्तं जनकस्य महात्मनः ।
पुरीं गच्छामहे शीघ्रं मा भूत्कालस्य पर्ययः ॥ 19 ॥

मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः ।
सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मन्त्रिणः ॥ 20 ॥

मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः ।
ऊषु स्तेमुदिता स्सर्वे गुणै स्सर्वैस्समन्विताः ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे अष्टषष्टितमस्सर्गः ॥




Browse Related Categories: