View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.54 सुन्दरकाण्ड - चतुःपञ्चाश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ चतुःपञ्चाशस्सर्गः ।

वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ॥ 1 ॥

वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ।
किन्नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् ॥ 2 ॥

यदेषां रक्षसां भूयः सन्तापजननं भवेत् ।
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः ॥ 3 ॥

बलैकदेशः क्षपितश्शेषं दुर्गविनाशनम् ।
दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम् ।
अल्पयत्नेन कार्येऽस्मिन् मम स्यात्सफलश्श्रमः ॥ 4 ॥

यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः ।
अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ॥ 5 ॥

ततः प्रदीप्तलाङ्गूलस्सविद्युदिव तोयदः ।
भवनाग्रेषु लङ्काया विचचार महाकपिः ॥ 6 ॥

गृहाद्गृहं राक्षसानामुद्यानानि च वानरः ।
वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः ॥ 7 ॥

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।
अग्निं तत्र स निक्षिप्य श्वसनेन समो बली ॥ 8 ॥

ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ।
मुमोच हनुमानग्निं कालानलशिखोपमम् ॥ 9 ॥

वज्रदंष्ट्रस्य च तदा पुप्लुवे स महाकपिः ।
शुकस्य च महातेजास्सारणस्य च धीमतः ॥ 10 ॥

तथा चेन्द्रजितो वेश्म ददाह हरियूथपः ।
जम्बुमाले स्सुमालेश्च ददाह भवनं ततः ॥ 11 ॥

रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ।
ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ 12 ॥

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः ।
विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥ 13 ॥

करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।
कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ॥ 14 ॥

यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च ।
नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ॥ 15 ॥

वर्जयित्वा महातेजा विभीषणगृहं प्रति ।
क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ॥ 16 ॥

तेषु तेषु महार्हेषु भवनेषु महायशाः ।
गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः ॥ 17 ॥

सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् ।
आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ॥ 18 ॥

ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते ।
मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते ॥ 19 ॥

प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् ।
ननाद हनुमान्वीरो युगान्तजलदो यथा ॥ 20 ॥

श्वसनेन च संयोगादतिवेगो महाबलः ।
कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ॥ 21 ॥

प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत् ।
अभूच्छ्वसनसंयोगादतिवेगो हुताशनः ॥ 22 ॥

तानि काञ्चनजालानि मुक्तामणिमयानि च ।
भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ॥ 23 ॥

सञ्जज्ञे तुमुलश्शब्दो राक्षसानां प्रधावताम् ।
स्वगृहस्य परित्राणे भग्नोत्साहोर्जितश्रियाम् ॥ 24 ॥

नूनमेषोऽग्निरायातः कपिरूपेण हा इति ।
क्रन्दन्त्यस्सहसा पेतुः स्तनन्धयधराः स्त्रियः ॥ 25 ॥

काश्चिदग्निपरीतेभ्यो हर्मेभ्यो मुक्तमूर्धजाः ।
पतन्त्यो रेजिरेऽभ्रेभ्यस्सौदामन्य इवाम्बरात् ॥ 26 ॥

वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान् ।
विचित्रान्भवनाद्धातून् स्यन्दमानान्ददर्श सः ॥ 27 ॥

नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा ।
हनूमान् राक्षसेन्दाणां विशस्तानां न तृप्यति ॥ 28 ॥

क्वचित्किंशुकसङ्काशाः क्वचिच्छाल्मलिसन्निभाः ॥ 29 ॥

क्वचित्कुङ्कुमसङ्काशाश्शिखा वह्नेश्चकाशिरे ।
हनूमता वेगवता वानरेण महात्मना ।
लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ॥ 30 ॥

ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः ।
प्रसार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः ॥ 31 ॥

युगान्तकालानलतुल्यवेग स्समारुतोऽग्निर्ववृधे दिविस्पृक् ।
विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्यसमर्पतार्चिः ॥ 32 ॥

आदित्यकोटीसदृशस्सुतेजा लङ्कां समस्तां परिवार्य तिष्ठन् ।
शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः ॥ 33 ॥

तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः ।
निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ॥ 34 ॥

वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणोऽनिलो वा ।
रुद्रोऽग्निरर्को धनदश्च सोमो न वानरोऽयं स्वयमेव कालः ॥ 35 ॥

किं ब्रह्मणस्सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य ।
इहाऽऽगतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः ॥ 36 ॥

किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः ।
अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा ॥ 37 ॥

इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे ।
सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ॥ 38 ॥

ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा ।
सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ॥ 39 ॥

हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम् ।
रक्षोभिरेवं बहुधा ब्रुवद्भि श्शब्दः कृतो घोरतरस्सुभीमः ॥ 40 ॥

हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का ॥ 41 ॥

स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम् ।
ददर्श लङ्कां हनुमान्महामनाः स्वयम्भूकोपोपहतामिवावनिम् ॥ 42 ॥

भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे ।
दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान्पवनात्मजः कपिः ॥ 43 ॥

त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः ।
प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजताऽऽदित्य इवांशुमाली ॥ 44 ॥

स राक्षसांस्तान्सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत् ।
विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा ॥ 45 ॥

ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् ।
महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे ॥ 46 ॥

भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे ।
दग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः ॥ 47 ॥

तत्र देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः ।
दृष्ट्वा लङ्कां प्रदग्धां तां विस्मयं परमं गताः ॥ 48 ॥

तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम् ।
कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः ॥ 49 ॥

देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः ।
भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ॥ 50 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुःपञ्चाशस्सर्गः ॥




Browse Related Categories: