श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ द्विसप्ततितमस्सर्गः ।
तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः ।
उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥ 1 ॥
अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव ।
इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन ॥ 2 ॥
सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा ।
रामलक्ष्मणयो राजन् सीता चोर्मिलया सह ॥ 3 ॥
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम ।
भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः ॥ 4 ॥
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि ।
सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ॥ 5 ॥
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः ।
वरयामस्सुते राजन् तयोरर्थे महात्मनोः ॥ 6 ॥
पुत्रा दशरथस्येमे रूपयौवनशालिनः ।
लोकपालोपमास्सर्वे देवतुल्यपराक्रमाः ॥ 7 ॥
उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम् ।
इक्ष्वाकोः कुलमव्यग्रं भवतःपुण्यकर्मणः ॥ 8 ॥
विश्वामित्रवच श्शृत्वा वसिष्ठस्य मते तदा ।
जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ ॥ 9 ॥
कुलं धन्यमिदं मन्ये येषां नो मुनिपुङ्गवौ ।
सदृशं कुलसम्बन्धं यदाज्ञापयथः स्वयम् ॥ 10 ॥
एवं भवतु भद्रं वः कुशध्वजसुते इमे ।
पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ ॥ 11 ॥
एकाह्ना राजपुत्रीणां चतसृणां महामुने ।
पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ॥ 12 ॥
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः ।
वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः ॥ 13 ॥
एवमुक्त्वा वचस्सौम्यं प्रत्युत्थाय कृताञ्जलिः ।
उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ॥ 14 ॥
परो धर्मः कृतो मह्यं शिष्योऽस्मिभवतो सदा ।
इमान्यासनमुख्यानि आसातां मुनिपुङ्गवौ ॥ 15 ॥
यथा दशरथस्येयं तथाऽयोध्या पुरी मम ।
प्रभुत्वे नास्ति सन्देहो यथार्हं कर्तुमर्हथ ॥ 16 ॥
तथा ब्रुवति वैदेहे जनके रघुनन्दनः ।
राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥ 17 ॥
युवामसङ्ख्येयगुणौ भ्रातरौ मिथिलेश्वरौ ।
ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिताः ॥ 18 ॥
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम् ।
श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत् ॥ 19 ॥
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा ।
मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥ 20 ॥
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः ।
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥ 21 ॥
गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः ।
एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ॥ 22 ॥
सुवर्णश्रुङ्गा स्सम्पन्ना स्सवत्साः कांस्यदोहनाः ।
गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥ 23 ॥
वित्तमन्यच्च सुबहुद्विजेभ्यो रघुनन्दनः ।
ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥ 24 ॥
स सुतैः कृतगोदानैर्वृतस्तु नृपतिस्तदा ।
लोकपालैरिवाभाति वृतः स्सौम्यः प्रजापतिः ॥ 25 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे द्विसप्ततितमस्सर्गः ॥