श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ षड्विंशस्सर्गः ।
प्रसक्ताश्रुमुखीत्यवं ब्रुवन्ती जनकात्मजा ।
आधोगतमुखी बाला विलप्तुमुपचक्रमे ॥ 1 ॥
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ।
उपावृत्ता किशोरीव विवेष्टन्ती महीतले ॥ 2 ॥
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा ।
रावणेन प्रमथ्याहमानीता क्रोशती बलात् ॥ 3 ॥
राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् ।
चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सुहे ॥ 4 ॥
न हि मे जीवितेनार्थो नैवार्थेर्न च भूषणैः ।
वसन्त्या राक्षसीमध्ये विना रामं महारथम् ॥ 5 ॥
अश्मसारमिदं नूनमथवाप्यजरामरम् ।
हृदयं मम येनेदं न दुःखेनावशीर्यते ॥ 6 ॥
धिङ्मामनार्यामसतीं याहं तेना विना कृता ।
मुहूर्तमपि रक्षामि जीवितं पापजीविता ॥ 7 ॥
का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ।
भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ॥ 8 ॥
भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।
न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ॥ 9 ॥
चरणेनापि सव्येन न स्पृशेयं निशाचरम् ।
रावणं किं पुनरहं काममेयं विगर्हितम् ॥ 10 ॥
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् ।
यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ॥ 11 ॥
छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता ।
रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ॥ 12 ॥
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ।
सद्वृत्तो निरनुक्रोशश्शङ्के मद्भाग्यसङ्क्षयात् ॥ 13 ॥
राक्षसानां सहस्राणि जनस्थाने चतुर्दश ।
येनैकेन निरस्तानि स मां किं नाभिपद्यते ॥ 14 ॥
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा ।
समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ॥ 15 ॥
विराधो दण्डकारण्ये येन राक्षसपुङ्गवः ।
रणे रामेण निहतस्स मां किं नाभिपद्यते ॥ 16 ॥
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा ।
न तु राघवबाणानां गतिरोधो भविष्यति ॥ 17 ॥
किन्नु तत्कारणं येन रामो दृढपराक्रमः ।
रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते ॥ 18 ॥
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः ।
जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति ॥ 19 ॥
हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् ।
गृध्रराजोऽपि स रणे रावणेन निपातितः ॥ 20 ॥
कृतं कर्म महत्तेन मां तथाऽभ्यवपद्यता ।
तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ॥ 21 ॥
यदि मामिह जानीयाद्वर्तमानां स राघवः ।
अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ॥ 22 ॥
विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् ।
रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ॥ 23 ॥
ततो निहतनाथानां राक्षसीनां गृहे गृहे ।
यथाहमेवं रुदती तथा भूयो न संशयः ॥ 24 ॥
अन्विष्य रक्षसां लङ्कां कुर्याद्रामस्सलक्ष्मणः ।
न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ॥ 25 ॥
चिताधूमाकुलपथा गृध्रमण्डलसङ्कुला ।
अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् ॥ 26 ॥
अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् ।
दुष्प्रस्थानोऽयामाख्याति सर्वेषां वो विपर्ययम् ॥ 27 ॥
यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै ।
अचिरेणैव कालेन भविष्यति हतप्रभा ॥ 28 ॥
नूनं लङ्का हते पापे रावणे राक्षसाधमे ।
शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥ 29 ॥
पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी ।
भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना ॥ 30 ॥
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ।
श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ॥ 31 ॥
सान्थकारा हतद्योता हतराक्षसपुङ्गवा ।
भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ॥ 32 ॥
यदि नाम स शूरो मां रामो रक्तान्तलोचनः ।
जानीयाद्वर्तमानां हि रावणस्य निवेशने ॥ 33 ॥
अनेन तु नृशंसेन रावणेनाधमेन मे ।
समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ॥ 34 ॥
स च मे विहितो मृत्युरस्मिन् दुष्टे न वर्तते ।
अकार्यं ये न जानन्ति नैरृताः पापकारिणः ॥ 35 ॥
अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ।
नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ॥ 36 ॥
ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ।
साहं कथं करिष्यामि तं विना प्रियदर्शनम् ॥ 37 ॥
क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ।
नाजानाज्जीवतीं रामस्स मां लक्ष्मणपूर्वजः ॥ 38 ॥
जानन्तौ तौ न कुर्यातां नोर्य्वां हि मम मार्गणम् ।
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ॥ 39 ॥
देवलोकमितो यातस्त्यक्त्वा देहं महीतले ।
धन्या देवास्सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ 40 ॥
मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ।
अथवा न हि तस्यार्थो धर्मकामस्य धीमतः ॥ 41 ॥
मया रामस्य राजर्षेर्भार्यया परमात्मनः ।
दृश्यमाने भवेत्प्रीति स्सौहृदं नास्त्यपश्यतः ॥ 42 ॥
नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति ।
किं नु मे न गुणाः केचित्किं वा भाग्यक्षयो मम ॥ 43 ॥
याहं सीदामि रामेण हीना मुख्येन भामिनी ।
श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः ॥ 44 ॥
रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ।
अथवा न्यस्तशत्रौ तौ वने मूलफलाशिनौ ॥ 45 ॥
भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ।
अथवा राक्षसेन्द्रेण रावणेन दुरात्मना ॥ 46 ॥
छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ ।
साऽहमेवङ्गते काले मर्तुमिच्छामि सर्वथा ॥ 47 ॥
न च मे विहितो मृत्युरस्मिन् दुःखेऽपि वर्तते ।
धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः ॥ 48 ॥
जितात्मनो महाभागा येषां न स्तः प्रियाप्रिये ।
प्रियान्न सम्भवेद्दुःखमप्रियादधिकं भयम् ॥ 49 ॥
ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ।
साहं त्यक्ता प्रियार्हेण रामेण विदितात्मना ॥ 50 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे षड्विंशस्सर्गः ॥