View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.40 किष्किन्धाकाण्ड - चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ चत्वारिंशस्सर्गः ।

अथ राजा समृद्धार्थस्सुग्रीवः प्लवगेश्वरः ।
उवाच नरशार्दूलं रामं परबलार्दनम् ॥ 1 ॥

आगता विनिविष्टाश्च बलिनः कामरूपिणः ।
वानरा वारणेन्द्रभाः ये मद्विषयवासिनः ॥ 2 ॥

त इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः ।
आगता वानरा घोरा दैत्यदानवसन्निभाः ॥ 3 ॥

ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः ।
पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ 4 ॥

पृथिव्यम्बुचरा राम नानानगनिवासिनः ।
कोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः ॥ 5 ॥

निदेशवर्तिनस्सर्वे सर्वे गुरुहिते रताः ।
अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम ॥ 6 ॥

त इमे बहुसाहस्रैरनीकै भीमविक्रमैः ।
आगता वानरा घोरा दैत्यदानवसन्निभाः ॥ 7 ॥

यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् ।
तत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥ 8 ॥

काममेषामिदं कार्यं विदितं मम तत्त्वतः ।
तथापि तु यथातत्त्वमाज्ञापयितुमर्हसि ॥ 9 ॥

इति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः ।
बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत् ॥ 10 ॥

ज्ञायतां मम वैदेही यदि जीवति वा न वा ।
स च देशो महाप्राज्ञ यस्मिन्वसति रावणः ॥ 11 ॥

अधिगम्य तु वैदेहीं निलयं रावणस्य च ।
प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया ॥ 12 ॥

नाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः ।
त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥ 13 ॥

त्वमेवाऽज्ञापय विभो मम कार्यविनिश्चयम् ।
त्वं हि जानासि यत्कार्यं मम वीर न संशयः ॥ 14 ॥

सुहृद्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् ।
भवानस्मध्दिते युक्त स्सुकृतार्थोऽर्थवित्तमः ॥ 15 ॥

एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् ।
अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः ॥ 16 ॥

शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः ।
सोमसूर्यात्मजै स्सार्धं वानरैर्वानरोत्तम ॥ 17 ॥

देशकालनयैर्युक्तः कार्या कार्यविनिश्चये ।
वृतश्शतसहश्रेण वानराणां तरस्विनाम् ॥ 18 ॥

अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ।
तत्र सीतां च वैदेहीं निलयं रावणस्य च ॥ 19 ॥

मार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च ।
नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ॥ 20 ॥

कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ।
सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ॥ 21 ॥

महीं कालमहीं चैव शैलकाननशोभिताम् ।
ब्रह्ममालान्विदेहांश्च मालवान्कालिकोसलान् ॥ 22 ॥

मागधांश्च महाग्रामान्पुण्ड्रान्न्वङ्गां स्तथैव च ।
पत्तनं कोशकाराणां भूमिं च रजताकराम् ॥ 23 ॥

सर्वमेतद्विचेतव्यं मृगयद्भिस्ततस्ततः ।
रामस्य दयितां भार्यां सीतां दशरथस्नुषाम् ॥ 24 ॥

समुद्रमवगाढांश्च पर्वतान्पत्तनानि च ।
मन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् ॥ 25 ॥

कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः ।
घोरलोहमुखाश्चैव जवनाश्चैकपादकाः ॥ 26 ॥

अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः ।
किराताः कर्ण चूडाश्च हेमाङ्गाः प्रियदर्शनाः ॥ 27 ॥

आममीनाशनास्तत्र किराता द्वीपवासिनः ।
अन्तर्जलचरा घोरा नरव्याघ्रा इति शृताः ॥ 28 ॥

एतेषामाश्रयास्सर्वे विचेयाः कावनौकसः ।
गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च ॥ 29 ॥

रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् ।
सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् ॥ 30 ॥

यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ।
दिवं स्पृशति शृङ्गेण देवदानवसेवितः ॥ 31 ॥

एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च ।
मार्गध्वं सहितास्सर्वे रामपत्नीं यशस्विनीम् ॥ 32 ॥

ततो रक्तजलं शोणमगाधं शीघ्रगामिनम् ।
गत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ॥ 33 ॥

तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च ।
रावण स्सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 34 ॥

तत स्समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथ ।
ऊर्मिमन्तं समुद्रं च क्रोशन्तमनिलोद्धतम् ॥ 35 ॥

तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः ।
ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥ 36 ॥

तं कालमेघप्रतिमं महोरगनिषेवितम् ।
अभिगम्य महानादं तीर्थेनैव महोदधिम् ॥ 37 ॥

ततो रक्तजलं भीमं लोहितं नाम सागरम् ।
गत्वा प्रेक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥ 38 ॥

गृहं च वैनतेयस्य नानारत्नविभूषितम् ।
तत्र कैलाससङ्काशं विहितं विश्वकर्मणा ॥ 39 ॥

तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः ।
शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ॥ 40 ॥

ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति ।
निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः ॥ 41 ॥

अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः ।
ततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम् ॥ 42 ॥

गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः ।
तस्य मध्ये महान् श्वेतो ऋषभो नाम पर्वतः ॥ 43 ॥

दिव्यगन्धैः कुसुमितै राजितैश्च नगैर्वृतः ।
सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः ॥ 44 ॥

नाम्ना सुदर्शनं नाम राजहंसैस्समाकुलम् ।
विबुधाश्चारणा यक्षाः किन्नराश्चाप्सरोगणाः ॥ 45 ॥

हृष्टास्समभिगच्छन्ति नलिनीं तां रिरंसवः ।
क्षीरोदं समतिक्रम्य तदा द्रक्ष्यथ वानराः ॥ 46 ॥

जलोदं सागरं शीघ्रं सर्वभूतभयावहम् ।
तत्र तत्कोपजं तेजः कृतं हयमुखं महत् ॥ 47 ॥

अस्याहुस्तन्महावेगमोदनं सचराचरम् ।
तत्र विक्रोशतां नादो भूतानां सागरौकसाम् ॥ 48 ॥

श्रूयते च समर्थानां दृष्ट्वा तद्बडबामुखम् ।
स्वादूदस्योत्तरे देशे योजनानि त्रयोदश ॥ 49 ॥

जातरूपशिलो नाम महान्कनकपर्वतः ।
तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् ॥ 50 ॥

पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः ।
आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् ॥ 51 ॥

सहस्रशिरसं देवमनन्तं नीलवाससम् ।
त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः ॥ 52 ॥

स्थापितः पर्वतस्याग्रे विराजति सवेदिकः ।
पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः ॥ 53 ॥

ततः परं हेममय श्श्रीमानुदयपर्वतः ।
तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ॥ 54 ॥

जातरूपमयी दिव्या विराजति सवेदिका ।
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ॥ 55 ॥

जातरूपमयैर्दिव्यै श्शोभते सूर्यसन्निभैः ।
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ॥ 56 ॥

शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ।
तत्रपूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे ॥ 57 ॥

द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ।
त्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः ॥ 58 ॥

दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ।
तत्र वैखानसा नाम वालखिल्या महर्षयः ॥ 59 ॥

प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ।
अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते ॥ 60 ॥

यस्मिं स्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ।
शैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च ॥ 61 ॥

रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः ।
काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः ॥ 62 ॥

आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ।
पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च ॥ 63 ॥

सूर्यस्योदयनं चैव पर्वा ह्येषा दिगुच्यते ।
तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च ॥ 64 ॥

रावण स्सह वैदेह्या मार्गितव्यस्ततस्ततः ।
ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता ॥ 65 ॥

रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता ।
शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च ॥ 66 ॥

ये च नोक्ता मया देशा विचेया तेषु जानकी ।
एतावद्वानरैश्शक्यं गन्तुं वानरपुङ्गवाः ॥ 67 ॥

अभास्करममर्यादं न जानीमस्ततः परम् ।
अधिगम्य तु वैदेहीं निलयं रावणस्य च ॥ 68 ॥

मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ।
ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम ॥ 69 ॥

सिद्धार्थास्सन्निवर्तध्वमधिगम्य तु मैथिलीम् ।
महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः ।
अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्तास्सुखिनो भविष्यथ ॥ 70 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे चत्वारिंशस्सर्गः ॥




Browse Related Categories: