श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ द्वात्रिंशस्सर्गः ।
ततश्शाखान्तरे लीनं दृष्ट्वा चलितमानसा ।
वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ॥ 1 ॥
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ।
फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ॥ 2 ॥
मैथिली चिन्तयामास विस्मयं परमं गता ।
अहो भीममिदं रूपं वानरस्य दुरासदम् ॥ 3 ॥
दुर्निरीक्षमिति ज्ञात्वा पुनरेव मुमोह सा ।
विललाप भृशं सीता करुणं भयमोहिता ॥ 4 ॥
रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ।
रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ॥ 5 ॥
सा तं दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् ।
मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ॥ 6 ॥
सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् ।
ददर्श पिङ्गाधिपते रमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ॥ 7 ॥
सा तं समीक्ष्यैव भृशं विसञ्ज्ञा गतासुकल्पेन बभूव सीता ।
चिरेण सञ्ज्ञां प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ॥ 8 ॥
स्वप्ने मयाऽयं विकृतोऽद्य दृष्टश्शाखामृगश्शास्त्रगणैर्निषिद्धः ।
स्वस्त्यस्तु रामाय स लक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥ 9 ॥
स्वप्नोऽपि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः ।
सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ॥ 10 ॥
रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव ।
तस्यानुरूपां च कथां तदर्थमेवं प्रपश्यामि तथा शृणोमि ॥ 11 ॥
अहं हि तस्याद्य मनोभवेन सम्पीडिता तद्गतसर्वभावा ।
विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥ 12 ॥
मनोरथस्स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि ।
किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥ 13 ॥
नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय च ।
अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्छ तथास्तु नान्यथा ॥ 14 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे द्वात्रिंशस्सर्गः ॥