View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.71 अयोध्याकाण्ड - एकसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ एकसप्ततितमस्सर्गः ।

स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।
ततः सुदामां द्युतिमान् सम्तीर्वावेक्ष्य तां नदीम् ॥ 1 ॥

ह्लादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम् ।
शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः ॥ 2 ॥

स प्राङ्मुखो राजगृहादभिनिर्याय राघवः ।
ततस्सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम् ॥ 3 ॥

ह्लादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम् ।
शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः ॥ 4 ॥

ऐलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् ।
शिलामकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्षणम् ॥ 5 ॥

सत्यसन्धश्शुचिश्श्रीमान्प्रेक्षमाण श्शिलावहाम् ।
अत्ययात्स महाशैलान्वनं चैत्ररथं प्रति ॥ 6 ॥

सरस्वतीं च गङ्गां च युग्मेन प्रतिपद्यच ।
उत्तरान्वीरमत्स्यानां भारुण्डं प्राविशद्वनम् ॥ 7 ॥

वेगिनीं च कुलिङ्गाख्यां ह्लादिनीं पर्वताऽऽवृताम् ।
यमुनां प्राप्य सन्तीर्णः बलमाश्वासयत्तदा ॥ 8 ॥

सशीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः ।
तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम् ॥ 9 ॥

राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् ।
भद्रो भद्रेण यानेन मारुतः खमिवात्ययात् ॥ 10 ॥

भागीरथीं दुष्प्रतरामंशुधाने महानदीम् ।
उपायाद्राघवस्तूर्णं प्राग्वटे विश्रुते पुरे ॥ 11 ॥

स गङ्गां प्राग्वटे तीर्त्वा समायात्कुटिकोष्ठिकाम् ।
सबल स्तां स तीर्त्वाऽथ समायाद्धर्मवर्धनम् ॥ 12 ॥

तोरणं दक्षिणार्धेन जम्भूप्रस्थमुपागमत् ।
वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः ॥ 13 ॥

तत्र रम्ये वने वासं कृत्वाऽसौ प्राङ्मुखो ययौ ।
उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः ॥ 14 ॥

सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः ।
अनुज्ञाप्याथ भरतः वाहिनीं त्वरितो ययौ ॥ 15 ॥

वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकां नदीम् ।
अन्या नदीश्च विविधाः पार्वतीयैस्तुरङ्गमैः ॥ 16 ॥

हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत ।
ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् ॥ 17 ॥

एकसाले स्थाणुमतीं विनते गोमतीं नदीम् ।
कलिङ्गनगरे चापि प्राप्य सालवनं तदा ॥ 18 ॥

भरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः ।
वनं च समतीत्याशुशर्वर्यामरुणोदये ॥ 19 ॥

अयोध्यां मनुना राज्ञा निर्मितां सन्ददर्श ह ।
तां पुरीं पुरुषव्याघ्रस्सप्तरात्रोषितः पथि ॥ 20 ॥

अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत् ।
एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी ॥ 21 ॥

अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका ।
यज्वभिर्गुणसम्पन्नैर्ब्राह्मणैर्वेदपारगैः ॥ 22 ॥

भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता ।
एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी ॥ 23 ॥

अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका ।
यज्वभिर्गुणसम्पन्नैर्ब्राह्मणैर्वेदपारगैः ॥ 24 ॥

भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता ।
अयोध्यायां पुरा शब्दश्श्रूयते तुमुलो महान् ॥ 25 ॥

समन्तान्नरनारीणां तमद्य न श्रुणोम्यहम् ।
उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः ॥ 26 ॥

समन्तात्परिधावद्भिः प्रकाशन्ते ममान्यथा ।
तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः ॥ 27 ॥

अरण्यभूतेव पुरी सारथे प्रतिभाति मे ।
न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः ॥ 28 ॥

निर्यान्तो वाऽभियान्तो वा नरमुख्या यथापुरम् ।
उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥ 29 ॥

जनानां रतिसंयोगेष्वत्यन्तगुणवन्ति च ।
तान्येतान्यद्य पश्यामि निरानन्दानि सर्वशः ॥ 30 ॥

स्रस्तपर्णैरनुपथं विक्रोशद्भिरिव द्रुमैः ।
नाद्यापि श्रूयते शब्दः मत्तानां मृगपक्षिणाम् ॥ 31 ॥

संरक्तां मधुरां वाणीं कलं व्याहरतां बहु ।
चन्दनागरुसम्पृक्तो धूपसम्मूर्छितोऽतुलः ॥ 32 ॥

प्रवाति पवन श्श्रीमान्किन्नुनाद्य यथापुरम् ।
भेरीमृदङ्गवीणानां कोणसङ्घट्टितः पुनः ॥ 33 ॥

किमद्य शब्दो विरतस्सदा दीनगतिः पुरा ।
अनिष्टानि च पापानि पश्यामि विविधानि च ॥ 34 ॥

निमित्तान्यमनोज्ञानितेन सीदति मे मनः ।
सर्वथा कुशलं सूत दुर्लभं मम बन्दुषु ॥ 35 ॥

तथाह्यसति सम्मोहे हृदयं सीदतीव मे ।
विषण्ण श्श्रान्तहृदयस्त्रस्त स्सुलुलितेन्द्रियः ॥ 36 ॥

भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।
द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः ॥ 37 ॥

द्वास्स्थैरुत्थाय विजयं पृष्टस्तै स्सहितो ययौ ।
स त्वनेकाग्रहृदयो द्वास्स्थं प्रत्यर्च्य तं जनम् ॥ 38 ॥

सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः ।
किमहं त्वरयाऽनीतः कारणेन विनानघ ॥ 39 ॥

अशुभाशङ्कि हृदयं शीलं च पततीव मे ।
श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने ॥ 40 ॥

आकारांस्तानहं सर्वानिहपश्यामि सारथे ।
सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥ 41 ॥

असंयत कवाटानि श्रीविहीनानि सर्वशः ।
बलिकर्मविहीनानि धूपसम्मोदनेन च ॥ 42 ॥

अनाशितकुटुम्बानि प्रभाहीनजनानि च ।
अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥ 43 ॥

सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥ 44 ॥

असंयत कवाटानि श्रीविहीनानि सर्वशः ।
बलिकर्मविहीनानि धूपसम्मोदनेन च ॥ 45 ॥

अनाशितकुटुम्बानि प्रभाहीनजनानि च ।
अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥ 46 ॥

अपेतमाल्यशोभानि ह्यसम्मृष्टाजिराणि च ।
देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥ 47 ॥

देवतार्चाः प्रविद्धाश्च यज्ञगोष्ठ्यस्तथाविधाः ।
माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥ 48 ॥

दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।
ध्यानसंविग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥ 49 ॥

देवायतनचैत्येषु दीनाः पक्षिगणास्तथा ॥ 50 ॥

मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् ।
सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे ॥ 51 ॥

इत्येवमुक्त्वा भरतस्सूतं तं दीनमानसः ।
तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ ॥ 52 ॥

तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकवाटयन्त्राम् ।
दृष्ट्वा पुरीमिन्द्रपुरप्रकाशां दुःखेन सम्पूर्णतरो बभूव ॥ 53 ॥

बहूनि पश्यन्मनसोऽप्रियाणि यान्यन्यदा नास्य पुरे बभूवुः ।
अवाक्छिरा दीनमना नहृष्टः पितुर्महात्मा प्रविवेश वेश्म ॥ 54 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे एकसप्ततितमस्सर्गः ॥




Browse Related Categories: