श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुर्नवतितमस्सर्गः ।
स प्रविश्यसभांराजादीनःपरमदुःखितः ।
निषपादासनेमुख्येसिंहःक्रुद्धैवश्वसन् ॥ 1 ॥
अब्रवीच्च स तान्सर्वान् बलमुख्यान् महाबलः ।
रावणःप्राञ्जलिर्वाक्यम्पुत्रव्यसनकर्शितः ॥ 2 ॥
सर्वेभवन्तस्सर्वेणहस्त्यश्वेनसमावृताः ।
निर्यान्तुरथसङ्घैश्चपादातैश्चोपशोभिताः ॥ 3 ॥
एकंरामम्परिक्षिप्यसमरेहन्तुमर्हथ ।
वर्षन्तश्शरवर्षाणिप्रावृट् कालैवाम्बुदाः ॥ 4 ॥
अथवाहंशरैस्तीक्ष्णैर्भिन्नगात्रम्महाहवे ।
भवद्भिःश्वोनिहन्तास्मिरामंलोकस्यपश्यतः ॥ 5 ॥
इत्येतद्वाक्यमादायरक्षसेन्द्रस्यराक्षसाः ।
निर्ययुस्तेरथैःशीघ्रैर्नानानीकैश्चसंयुताः ॥ 6 ॥
परिघान् पट्टसांश्चैवशरखङ्गपरश्वधान् ।
शरीरान्तकरान् सर्वेचिक्षिपुर्वानरान् प्रति ॥ 7 ॥
वानराश्चद्रुमान्शैलान्राक्षसान्प्रतिचिक्षिपुः ।
स सङ्ग्रामोमहाभीमस्सूर्यस्यदयनम्प्रति ॥ 8 ॥
रक्षसांवानराणां च तुमुलस्समपद्यत ।
तेगदाभिश्चचित्राभिःप्रासैःखडगैःपरश्वधैः ॥ 9 ॥
अन्योन्यंसमरेजघ्नुस्तदावानरराक्षसाः ।
एवम्प्रवृत्तेसङ्ग्रामेह्यद्भुतंसुमहद्रजः ॥ 10 ॥
रक्षसांवानराणां च शान्तंशोणितविस्रवैः ।
मातङ्गरथकूलाश्चवाजिमत्सास्यध्वजद्रुमाः ॥ 11 ॥
शरीरसङ्घाटवहाःप्रसस्रुःशोणितापगाः ।
ततस्तेवानराःसर्वेशोणितौघपरिप्लुताः ॥ 12 ॥
ध्वजवर्मरथानश्वान्नानाप्रहरणानि च ।
आप्लुत्याप्लुत्यसमरेवानरेन्द्राबभञ्चिरे ॥ 13 ॥
केशान् कर्णललाटं च नासिकाश्चप्लवङ्गमाः ।
रक्षसान्दशनैस्तीक्ष्णैर्नखैश्चापिव्यकर्तयन् ॥ 14 ॥
एकैकंराक्षसंसङ्ख्येशतंवानरपुङ्गवाः ।
अभ्यधावन्तफलिनंवृक्षंशकुनयोयथा ॥ 15 ॥
तदागदाभिर्गुर्वीभिःप्रासैःखडगैःपरश्वधैः ।
निर्जघ्नुर्वानरान्घोरान्राक्षसाःपर्वतोपमाः ॥ 16 ॥
राक्षसैर्वध्यमानानांवानराणाम्महाचमूः ।
शरण्यंशरणंयातारामन्दशरथात्मजम् ॥ 17 ॥
ततोरामोमहातेजाधनुरादायवीर्यवान् ।
प्रविश्यराक्षसंसैन्यंशरवर्षंववर्ष ह ॥ 18 ॥
प्रविष्टन्तुतदारामम्मेघास्सूर्यमिवाम्बरे ।
नाथिजग्मुर्महाघोरानिर्दहन्तंशराग्निना ॥ 19 ॥
कृतान्येवसुघोराणिरामेणरजनीचराः ।
ददृशुस्ते न वैरामङ्कर्माण्यसुकराणिते ॥ 20 ॥
चालयन्तम्महासैन्यंविधमन्तम्महारथान् ।
ददृशुस्ते न वैरामंवातंवनगतंयथा ॥ 21 ॥
छिन्नम्भिन्नंशरैर्दग्धम्प्रभन्नंशस्त्रपीडितम् ।
बलंरामेणददृशुर्नरामंशीघ्रकारिणम् ॥ 22 ॥
प्रहरन्तंशरीरेषु न तेपश्यन्तिराघवम् ।
इन्द्रियार्थेषुतिष्ठन्तम्भूतात्मानमिवप्रजाः ॥ 23 ॥
एषहन्तिगजानीकमेषहन्तिमहारथान् ।
एषहन्तिशरैस्तीक्ष्णैःपदातीस्वाजिभिःसह ॥ 24 ॥
इतितेराक्षसास्सर्वेरामस्यसदृशान्रणे ।
अन्योन्यङ्कुपिताजघ्नुस्सादृश्याद्राघवस्यते ॥ 25 ॥
न तेददृशिरेरामन्दहन्तमपिवाहिनीम् ।
मोहिताःपरमास्त्रणगान्धर्वेणमहात्मना ॥ 26 ॥
तेतुरामसहस्राणिरणेपश्यन्तिराक्षसाः ।
पुनःपश्यन्तिकाकुत्स्थमेकमेवमहाहवे ॥ 27 ॥
भ्रमन्तीकाञ्चनीङ्कोटिङ्कार्मुकस्यमहात्मनः ।
अलातचक्रप्रतिमान्ददृशुस्ते न राघवम् ॥ 28 ॥
शरीरनाभिसत्त्वार्चिश्शरारन्नेमिकार्मुकम् ।
ज्याघोषतलनिर्घोषन्तेजोबुधदिगुणप्रभम् ॥ 29 ॥
दिव्यास्त्रगुणपर्यन्तन्निघ्नन्तंयुधिराक्षसान् ।
ददृशूरामचक्रन्तत्कालचक्रमिवप्रजाः ॥ 30 ॥
अनीकन्दशसाहस्रंरथानांवातरम्हसाम् ।
अष्टादशसहस्राणिकुञ्जराणान्तरस्विनाम् ॥ 31 ॥
चतुर्दशसहस्राणिसारोहाणां च वाजिनाम् ।
पूर्णेशतसहस्रेद्वेराक्षसानाम्पदातिनाम् ॥ 32 ॥
दिवसस्याष्टभागेनशरैरग्निशिखोपमैः ।
हतात्यान्येकेनरामेणरक्षसाङ्कामरूपिणाम् ॥ 33 ॥
तेहताश्वाहतरथाश्शान्ताविमथितध्वजाः ।
अभिपेतुःपुरींलङ्कांहतशेषानिशाचराः ॥ 34 ॥
हतैर्गजपदात्यश्वैस्तद्बभूवरणाजिरम् ।
अक्रीडभूमिःक्रुद्धस्यरुद्रस्येवमहात्मनः ॥ 35 ॥
ततोदेवास्कसगन्धर्वास्सिद्धाश्चपरमर्षयः ।
साधुसावधितिरामस्यतत्कर्मसमपूजयन् ॥ 36 ॥
अब्रवीच्छतदारामःसुग्रीवम्प्रत्यनन्तरम् ।
विभीषणं च धर्मात्माहनूमन्तं च वानरम् ॥ 37 ॥
जाम्बवन्तंहरिश्रेष्ठम्मैन्दन्द्विविदमेव च ।
एतदस्त्रबलन्दिव्यम्ममवात्ऱ्यम्बकस्यवा ॥ 38 ॥
निहत्यतांराक्षसराजवाहिनींरामस्तदाशक्रसमोमहात्मा ।
अस्त्रषुशस्त्रषुजितक्लमश्चसंस्तूयतेदेवगणैःप्रहृष्टैः ॥ 39 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुर्नवतितमस्सर्गः ॥