View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.58 युद्धकाण्ड - अष्टपञ्चाश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टपञ्चाशस्सर्गः ।

ततःप्रहस्तन्निर्यान्तन्दृष्टवाभीमपराक्रमम् ।
उवाचसस्मितंरामोविभीषणमरिन्दमः ॥ 1 ॥

कएषस्सुमहाकायोबलेनमहतावृतः ।
आचक्ष्वमेमहाबाहो वीर्यवन्तन्निशाचरम् ॥ 2 ॥

राघवस्यवचश्श्रुत्वाप्रत्युवाचविभीषणः ॥ 3 ॥

एषसेनापतिस्तस्यप्रहस्तोनामराक्षसः ।
लङ्कायांराक्षसेन्द्रस्यत्रिभागबलसम्वृतः ॥ 4 ॥

वीर्यवानस्त्रविच्छूरःसुप्रख्याश्चपराक्रमे ।
ततःप्रहस्तन्निर्यान्तम्भीमम्भीमपराक्रमम् ॥ 5 ॥

गर्जन्तंसुमहाकायंराक्षसैरभिसम्वृतम् ।
ददर्शमहतीसेनावानराणाम्बलीयसाम् ॥ 6 ॥

अभिसञ्जातरोषाणाम्प्रहस्तमभिगर्जताम् ।
खडगशक्त्यृष्णिबाणाश्चशूलानिमुसलानिच ॥ 7 ॥

गदाश्चपरिघाःप्रासाविविधाश्चपरिश्वधाः ।
नूंषिचविचित्राणिराक्षसानाञ्जयैषिणाम् ॥ 8 ॥

प्रगृहीतान्यशोभन्तवानरानभिधावताम् ।
जगृहुःपादपांश्चापिपुष्पितान्वानरर्षभाः ॥ 9 ॥

शिलाश्चविपुलादीर्घायोद्धुकामाःप्लवङ्गमाः ।
तेषामन्योन्यमासाद्यसङ्ग्रामःसुमहानभूत् ॥ 10 ॥

बहूनामश्मवृष्टिञ्चशरवर्षञ्चवर्षताम् ।
बहवोराक्षसायुद्धेबहून्वानरयूधपान् ॥ 11 ॥

वानराराक्षसांश्चापिनिजघ्नुर्बहवोबहून् ।
शूलैःप्रमथिताःकेचित्केचिच्चपरमायुधैः ॥ 12 ॥

परिघैराहताःकेचित्केचिच्छिन्नाःपरश्वधैः ।
निरुच्छवासाःकृताः केचित्पतिताधरणीतले ॥ 13 ॥

विभिन्नहृदयाःकेचिदिषुसन्धानसन्दिताः ।
केचिव्दिधाकृताःखडगैःस्फुरन्तःपतिताभुवि ॥ 14 ॥

वानराराक्षसैश्शूलैपार्श्वतश्चावदारिताः ।
वानरैश्चापिसङ्क्रुद्धैराक्षसौघाःसमन्ततः ॥ 15 ॥

पादपैर्गिरिशृङ्गैश्चसम्पिष्टावसुधातले ।
वज्रस्पर्शतलैर्हस्स्सैर्मुष्टिभिश्चहताभृशम् ॥ 16 ॥

वेमुश्शोणितमास्येभ्योविशीर्णदशनेक्षणाः ।
आर्तस्वनञ्चस्वनतांसिंहनादञ्चनर्दताम् ॥ 17 ॥

बभूवतुमुलश्शब्दोहरीणांरक्षसांयुधि ।
वानराराक्षसाःक्रुद्धावीरमार्गमनुव्रताः ॥ 18 ॥

विवृत्तनयनाःक्रूराश्चक्रुःकर्माण्यभीतवत् ।
नरान्तकःकुम्भहनुर्महानादस्समुन्नतः ॥ 19 ॥

एतेप्रहस्तसचिवास्सर्वेजघ्नुर्वनौकसः ।
तेषामापततांशीघ्रन्निघ्नताञ्चापिवानरान् ॥ 20 ॥

द्विविदोगिरिशृङ्गेणजघानैकन्नरान्तकम् ।
दुर्मुखःपुनरुत्थायकपिस्सविपुलद्रुमम् ॥ 21 ॥

राक्षसङ्क्षिप्रहस्तस्तुसमुन्नतमपोथयत् ।
जाम्बवांस्तुसुसङ्क्रुद्धःप्रगृह्यमहतींशिलाम् ॥ 22 ॥

पातयामासतेजस्वीमहानादस्यवक्षसि ।
अथकुम्भहनुस्तत्रतारेणासाद्यवीर्यवान् ॥ 23 ॥

वृक्षेणाभिहतोमूर्ध्निप्राणान्सन्त्याजयद्रणे ।
अमृष्यमाणस्तत्कर्मप्रहस्तोरथमाश्रितः ॥ 24 ॥

चकार कदनं घोरं धनुष् पाणिर् वन ओकसाम् ।
आवर्त;इव सम्जज्ने;उभयोह् सेनयोस् तदा ॥ 25 ॥

क्षुभितस्याप्रमेयस्यसागरस्येवनिस्स्वनः ।
महताहिशरौघेणप्रहस्तोयुद्धकोविदः ॥ 26 ॥

अर्दयामाससङ्क्रुद्धोवानरान् परमाहवे ।
वानराणांशरीरैश्चराक्षसानाञ्चमेदिनी ॥ 27 ॥

बभून्विचिताघोराःपतितैरिवपर्वतै ।
सामहीरुधिरौघेणप्रच्छन्नासम्प्रकाशते ॥ 28 ॥

सञ्छन्नामाधवेमासिपलाशैरिवपुष्पितैः ।
हतवीरौघवस्रान्तुभग्नायुधमहाद्रुमाम् ॥ 29 ॥

शोणित ओघ महा तोयां यम सागर गामिनीम् ।
यकृत् प्लीह महा पन्कां विनिकीर्ण अन्त्र शैबलाम् ॥ 30 ॥

भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् ।
गृध्रहंसगणाकीर्णाङ्कङ्कसारससेविताम् ॥ 31 ॥

मेदःफेनसमाकीर्णामार्तस्न्तितस्वनाम् ।
ताङ्कापुरषुदुस्तारांयुद्धभूमिमयीन्नदीम् ॥ 32 ॥

नदीमिवघनापायेहंससारससेविताम् ।
राक्षसाःकपिमुख्याश्चतेरुस्तान्दुस्तरान्नदीम् ॥ 33 ॥

यथा पद्म रजो ध्वस्तां नलिनीं गज यूथपाः ।
ततः सृजन्तं बाण ओघान् प्रहस्तं स्यन्दने स्थितम् ॥ 34 ॥

ददर्श तरसा नीलो विनिघ्नन्तं प्लवं गमान् ।
उद्धूत इव वायुः खे महादभ्रबलं बलात् ॥ 35 ॥

समीक्ष्याभिद्रुतंयुद्धेप्रहस्तोवाहिनीपतिः ।
रथेनादित्यवर्णेननीलमेवाभिदुद्रुवे ॥ 36 ॥

सधनुर्धन्विनांश्रेष्ठोविकृष्यपरमाहवे ॥ 37 ॥

नीलायव्यसृजद्बाणान्प्रहस्तोवाहिनीपतिः ।
तेप्राप्यविशिखानीलंविनिर्भिद्यसमाहिताः ॥ 38 ॥

महीञ्जग्मुर्महावेगारुषिताइवपन्नगाः ।
नीलःशरैरभिहतोनिशितैर्ज्वलनोपमैः ॥ 39 ॥

सतम्परमदुर्धर्षमापतन्तम्महाकपिः ।
प्रहस्तन्ताडयामासवृक्षमुत्पाट्यवीर्यवान् ॥ 40 ॥

सतेनाभिहतःक्रुद्धोनदन्राक्षसपुङ्गवः ।
ववर्षशरवर्षाणिप्लवङ्गानाञ्चमूपतौ ॥ 41 ॥

तस्यबाणगणान्घारान्राक्षसस्यमहाबलः ।
अपारयन्वारयितुम्प्रत्यगृह्णान्निमीलितः ॥ 42 ॥

यथैवगोवृषोवर्षंशारदंशीघ्रमागतम् ।
एवमेवप्रहस्तस्यशरवर्षन्दुरासदम् ॥ 43 ॥

निमीलिताक्षस्सहसानीलस्सेहेदुरासदान् ।
रोषितश्शरवर्षेणसालेनमहतामहान् ।
प्रजघानहयाननीलःप्रहस्तस्यमहाबलः ॥ 44 ॥

ततन्सचापमुद्गृह्यप्रहस्तस्यमहाबलः ।
बभञ्जतरसानीलोननादचपुनःपुनः ॥ 45 ॥

विधनुस्तुकृतस्तेनप्रहस्तोवाहिनीपतिः ।
प्रगृह्यमुसलङ्घोरंस्यन्दनादवपुप्लुवे ॥ 46 ॥

तावुभौवाहिनीमुख्यौजातवैरौतरस्विनौ ।
स्थितौक्षतजगदिग्धाङ्गौप्रभिन्नाविवकुञ्जरौ ॥ 47 ॥

उल्लिखन्तौसुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् ।
सिंहशार्दूलसदृशौसिंहशार्दूलचेष्टितौ ॥ 48 ॥

विक्रान्तविजयौवीरौसमरेष्न्विवर्तिनौ ।
काङ्क्षमाणौयशःप्राप्तुंवृत्रवासवयोस्सह ॥ 49 ॥

आजघानतदानीलंललाटेमुसलेनसः ।
प्रहस्तःपरमायत्तस्ततस्सुस्रावशोणितम् ॥ 50 ॥

ततःशोणितदिग्धाङ्गःप्रगृह्यसुमहातरुम् ।
प्रहस्तस्योरसिक्रुद्धोविससर्जमहाकपिः ॥ 51 ॥

तमचिन्त्यप्रहारंसप्रगृह्यमुसलम्महत् ।
अभिदुद्रावबलिनम्बलाननीलम्प्लवङ्गमम् ॥ 52 ॥

तमुग्रवेगंसंरब्धमापतन्तम्महाकपिः ।
ततस्सम्प्रेक्ष्यजग्राहमहावेगोमहाशिलाम् ॥ 53 ॥

तस्ययुद्धाभिकामस्यमृथेमुसलयोधिन ।
प्रहस्तस्यशिलान्नीलोमूर्ध्नितूर्णमपातयत् ॥ 54 ॥

सातेनकपिमुख्येनविमुक्तामहतीशिला ।
बिभेदबहुधाघोराप्रहस्तस्यशिरस्तदा ॥ 55 ॥

विभिन्न शिरसस् तस्य बहु सुस्राव शोणितम् ।
शरीराद् अपि सुस्राव गिरेह् प्रस्रवणं यथा ॥ 56 ॥

विभिन्नशिरसस्तस्यबहुसुस्रावशोणितम् ।
शरीरादपिसुस्रावगिरेःप्रस्रवणंयथा ॥ 57 ॥

हतेप्रहस्तेनीलेनतदकम्प्यम्महाबलम् ।
राक्षसानामहृष्टानांलङ्कामभिजगामह ॥ 58 ॥

नशेकुस्समवस्थातुन्निहतेवाहिनीपतौ ।
सेतुबन्धंसमासाद्यविशीर्णंसलिलंयथा ॥ 59 ॥

हतेतस्मिंश्चमूमुख्येराक्षसास्तेनिरुद्यमाः ।
रक्षःपतिगृहङ्गत्वाध्यानमूकत्वमास्थिताः ॥ 60 ॥

प्राप्ताश्शोकार्णवन्तीव्रन्निस्सज्ञौइवतेऽभवन् ।
ततस्तुनीलोविजयीमहाबलःप्रशस्यमानःसुकृतेनकर्मणा ।
समेत्यरामेणसलक्ष्मणेनप्रहृष्टरूपस्तुबभूवयूथपः ॥ 61 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टपञ्चाशस्सर्गः ॥




Browse Related Categories: