View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.108 युद्धकाण्ड - अष्टाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टाधिकशततमस्सर्गः ।

स रथंसारथिःहृष्टम्परसैन्यप्रधर्षणम् ।
गन्धर्वनगराकारंसमुच्छ्रितपाताकिनम् ॥ 1 ॥

युक्तम्परमसम्पन्नैर्वजिभिर्हेममालिभिः ।
युद्धोपकरणैःपूर्णम्पताकाध्वजमालिनीम् ॥ 2 ॥

ग्रसन्तमिवचाकाशन्नादयन्तंवसुन्धराम् ।
प्रणाशम्परनैन्यानांस्वनैन्यस्यप्रहर्षणम् ॥ 3 ॥

रावणस्यरथङ्क्षिप्रञ्चोदयामाससारथिः ।
समापतन्तंसहसास्वनवन्तम्महाध्वजम् ॥ 4 ॥

रथंराक्षसराजस्यनरराजोददर्श ह ।
कृष्णवाजिसमायुक्तंयुक्तंरौद्रेणवर्चसा ॥ 5 ॥

दीप्यमानमिवाकाशेविमानंसूर्यवर्चसम् ।
तडित्पताकागहनन्दर्शितेन्द्रायुधप्रभम् ॥ 6 ॥

शराधाराविमुञ्चन्तन्धारासारमिवाम्बुदम् ।
तन्दृष्टवामेघसङ्काशमापतन्तंरथंरिपोः ॥ 7 ॥

गिरेर्वज्राभिमृष्टस्यदीर्यतस्सदृशस्वनम् ।
विस्पारयन्वैवेगेनबालचन्द्रानतन्धनुः ॥ 8 ॥

उवाचसारथिंरामंसहस्राक्षस्यमातलिम् ।
मातलेपश्यसम्रद्धमापतन्तंरथंरिपोः ॥ 9 ॥

यथापसव्यम्पततावेगेनमहतापुनः ।
समरेहन्तुमात्मानन्तथानेनकृतामतिः ॥ 10 ॥

तदप्रमादमातिष्ठन्प्रत्युद्गच्छरथंरिपोः ।
विध्वंसयितुमिच्छामिवायुर्मेघमिवोत्थितम् ॥ 11 ॥

अविक्लबमसम्भ्रान्तमव्यग्रहृदयेक्षणम् ।
रमशिसञ्चारनियम्प्रचोदयरथन्द्रुतम् ॥ 12 ॥

कामं न त्वंसमाधेयःपुरन्दररथोचितः ।
युयुत्सुरहमेकाग्रःस्मारयेत्वां न शिक्ष्ये ॥ 13 ॥

परितुष्टः स रामस्यतेनवाक्येनमातलिः ।
प्रचोदयामासरथंसुरसारथिरुत्तमः ॥ 14 ॥

अपसव्यन्ततःकुर्वन् रावणस्यमहारथम् ।
चक्रसम्भूतरसारावणंव्यवदूनयन् ॥ 15 ॥

ततःक्रुद्धोदशग्रीवस्ताम्रविस्फारितेक्षणः ।
रथप्रतिमुखंरामंसायकैरवधूनयत् ॥ 16 ॥

धर्षणामर्षितोरामोधैर्यंरोषेणलम्भयन् ।
जग्राहसुमहावेगमैन्द्रंयुधिशरासनम् ॥ 17 ॥

शरांश्चसुमहावेगान्सूर्यरश्मिसमप्रभान् ।
तदुपोढुम्महद्युद्धमन्योन्यवधकाङ्क्षिणोः ॥ 18 ॥

परस्पराभिमुखयोर्दृप्तयोरिवसिंहयोः ।
ततोदेवास्सगन्धर्वास्सिद्धाश्चपरमर्षयः ॥ 19 ॥

समीयुर्द्वैरथन्द्रष्टुंरावणक्षयकाङ्क्षिणः ।
वर्षरुधिरन्देवोरावणस्यरधोपरि ॥ 20 ॥

वातामण्डलिनस्त्रीव्राह्यपसव्यम्प्रचक्रमुः ।
महत् गृध्रकुलञ्चास्यभ्रममाणन्नभस्तले ॥ 21 ॥

येनयेनरथोयातितेनतेनप्रधावति सन्ध्ययाचावृतालङ्काजपापुष्पनिकाशया ॥ 22 ॥

दृश्यतेसम्प्रदीप्तेवदिवसेऽपिवसुन्धरा ।
सनिर्घातामहोल्काश्चसम्प्रपेतुर्महास्वनाः ॥ 23 ॥

विषादयंस्तेरक्षांसिरावणस्यतदाहिताः ।
रावणश्चयतस्तत्रप्रचचालवसुन्धरा ॥ 24 ॥

रक्षसां च प्रहरताङ्गृहीताइवबाहवः ।
ताम्राःपीतास्सिताश्वेताःपतितास्सूर्यरश्मयः ॥ 25 ॥

दृश्यन्तेरावणस्याग्रेपर्वतस्येवधातवः ।
गृध्रैरनुगताश्चास्यवमन्त्योज्वलनम्मुखैः ॥ 26 ॥

प्रणेदुर्मुखमीक्षन्त्यःसम्रद्धमशिवंशिवाः ।
प्रतिकूलंववेवायूरणेपांसून् समुकतिरन् ॥ 27 ॥

तस्यराक्षसराजस्यकुर्वन्दृष्टिविलोपनम् ।
निपेतुरिन्द्राशनयस्सैन्येचाप्यसमन्ततः ॥ 28 ॥

दुर्विषह्यस्वनाघोरंविनाजलधरोदयम् ।
दिशश्चप्रदिशस्सर्वाबभूवुस्तिमिरावृताः ॥ 29 ॥

पांसुवर्षेणमहतादुर्दर्शं च नभोऽभवत् ।
कुर्वन्तः कलहङ्घोरंशारिकास्तद्रथम्प्रति ॥ 30 ॥

निपेतुश्शतशस्तत्रदारुणादारुणारुताः ।
जघनेभ्यःस्फुलिङ्गांश्चनेत्रेभ्योऽश्रूणिसन्ततम् ॥ 31 ॥

मुमुचुस्तस्यतुरगास्तुल्यमग्नि च वारि च ।
एवम्प्रकाराबहवस्समुत्पाताभयापहाः ॥ 32 ॥

रावणस्यविनाशायदारुणाःसम्प्रजज्ञिरे ।
रामस्यापिनिमित्तानिसौम्यानि च शिवानि च ॥ 33 ॥

बभूवुर्जयशंसीनिप्रादुर्भूतानिसर्वशः ।
निमित्तानि च सौम्यानिराघवःस्वजयायवै ॥ 34 ॥

दृष्टवापरमसम्हृष्टोहतम्मेने च रावणम् ।
ततोनिरीक्ष्यात्मगतानिराघवोरणेनिमित्तानिनिमित्तकोविदः ।
जगामहर्षं च परां च निर्वृतिञ्चकारयुद्धेह्यधिक च विक्रमम् ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टाधिकशततमस्सर्गः ॥




Browse Related Categories: