View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.36 अयोध्याकाण्ड - षट्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ षट्त्रिंशस्सर्गः ।

ततस्सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया ।
सबाष्पमतिनिश्श्वश्य जगादेदं पुनः पुनः ॥ 1 ॥

सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः ।
राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ 2 ॥

रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः ।
शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥ 3 ॥

आयुधानि च मुख्यानि नागरा श्शकटानि च ।
अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्य गोचराः ॥ 4 ॥

निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु ।
नदीश्च विविधाः पश्यन्न राज्यस्य स्मरिष्यति ॥ 5 ॥

धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः ।
तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ 6 ॥

यजन् पुण्येषु देशेषु विसृजं श्चाप्तदक्षिणाः ।
ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ 7 ॥

भरतश्च महाबाहुरयोध्यां पालयिष्यति ।
सर्वकामैः सह श्रीमान् रामः संसाध्यतामिति ॥ 8 ॥

एवं ब्रुवति काकुत्स्थे कैकेय्या भय मागतम् ।
मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत ॥ 9 ॥

सा विषण्णा च सन्त्रस्ता मुखेन परिशुष्यता ।
राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ 10 ॥

राज्यं गतजनं साधो पीतमण्डां सुरामिव ।
निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ 11 ॥

कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणाम् ।
राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ 12 ॥

वहन्तं किं तुदसि मां नियुज्य धुरि माऽहिते ।
अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः ॥ 13 ॥

तस्यैतत्क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना ।
कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ 14 ॥

वैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत् ।
असमञ्ज इति ख्यातं तथायं गन्तुमर्हति ॥ 15 ॥

एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् ।
व्रीडितश्च जनस्सर्व स्सा च तं नावबुध्यत ॥ 16 ॥

असमञ्जो गृहीत्वा तु क्रीडतः पथि बालकान् ।
सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥ 17 ॥

तं दृष्ट्वा नागरा स्सर्वे कृद्धा राजानमब्रुवन् ।
असमञ्जं वृणीष्वैकमस्मान्वा राष्ट्रवर्धन ॥ 18 ॥

तानुवाच ततो राजा किन्निमित्तमिदं भयम् ।
ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥ 19 ॥

डक्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतनः ।
सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते ॥ 20 ॥

स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः ।
तं तत्याजाहितं पुत्रं तेषां प्रियचिकीर्षया ॥ 21 ॥

तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम् ।
यावज्जीवं विवास्योऽयमिति स्वानन्वशात्पिता ॥ 22 ॥

स फालपिटकं गृह्य गिरिदुर्गाण्यलोडयत् ।
दिश स्सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥ 23 ॥

इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः ।
रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ 24 ॥

न हि कञ्चन पश्यामो राघवस्यागुणं वयम् ।
दुर्लभो ह्यस्य निरय श्शशाङ्कस्येव कल्मषम् ॥ 25 ॥

अथवा देवि दोषं त्वं कञ्चित्पश्यसि राघवे ।
तमद्य ब्रूहि तत्वेन तदा रामो विवास्यताम् ॥ 26 ॥

अदुष्टस्य हि सन्त्यागः सत्पथे निरतस्य च ।
निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥ 27 ॥

तदलं देवि रामस्य श्रिया विहतया त्वया ।
लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने ॥ 28 ॥

श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः ।
शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ 29 ॥

एतद्वचो नेच्छसि पापवृत्ते हितं न जानासि ममात्मनो वा ।
आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता ॥ 30 ॥

अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च ।
सहैव राज्ञा भरतेन च त्वं यथासुखं भुङ्क्ष्व चिराय राज्यम् ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे षट्त्रिंशस्सर्गः ॥




Browse Related Categories: