View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.27 किष्किन्धाकाण्ड - सप्तविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ सप्तविंशस्सर्गः ।

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥ 1 ॥

शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम् ।
नानागुल्मलतागूढं बहुपादपसङ्कुलम् ॥ 2 ॥

ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् ।
मेघराशिनिभं शैलं नित्यं शुचिजलाशयम् ॥ 3 ॥

तस्य शैलस्य शिखरे महतीमायतां गुहाम् ।
प्रत्यगृह्णत वासार्थं रामस्सौमित्रिणा सह ॥ 4 ॥

कृत्वा च समयं रामस्सुग्रीवेण सहानघः ।
कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः ॥ 5 ॥

विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् ।
इयं गिरिगुहा रम्या विशाला युक्तमारुता ।
अस्यां वत्स्याम सौमित्रे वर्षरात्रमरिन्दम ॥ 6 ॥

गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज ॥ 7 ॥

श्वेताभिः कृष्णताम्राभिश्शिलाभिरुपशोभितम् ।
नानाधातुसमाकीर्णं दरीनिर्झरशोभितम् ॥ 8 ॥

विविधैर्वृक्षषण्डैश्च चारुचित्रलतायुतम् ।
नानाविहगसङ्घुष्टं मयूररवनादितम् ॥ 9 ॥

मालतीकुन्दगुल्मैश्च सिन्धुवारैश्शिरीषकैः ।
कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम् ॥ 10 ॥

इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता ।
नातिदूरे गुहायानौ भविष्यति नृपात्मज ॥ 11 ॥

प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति ।
पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति ॥ 12 ॥

गुहाद्वारे च सौमित्रे शिला समतला शुभा ।
श्लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा ॥ 13 ॥

गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम् ।
भिन्नाञ्जनचयाकारमम्भोधरमिवोत्थितम् ॥ 14 ॥

दक्षिणस्यामपि दिशि स्थितं श्वेतमिवापरम् ।
कैलासशिखरप्रख्यं नानाधातुविभूषितम् ॥ 15 ॥

प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् ।
गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव ॥ 16 ॥

चन्दनैस्तिलकैस्तालैस्तमालैरतिमुक्तकैः ।
पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम् ॥ 17 ॥

वानीरैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः ।
हिन्तालैस्तिनिशैर्नीपैर्वेत्रकैः कृतमालकैः ॥ 18 ॥

तीरजैश्शोभिता भाति नानारूपै स्ततस्ततः ।
वसनाभरणोपेता प्रमदेवाभ्यलङ्कृता ॥ 19 ॥

शतशः पक्षिसङ्घैश्च नानानादैर्विनादिता ।
एकैकमनुरक्तैश्च चक्रवाकैरलङ्कृता ॥ 20 ॥

पुलिनैरतिरम्यैश्च हंससारससेवितैः ।
प्रहसन्तीवभात्येषा नारी सर्वविभूषिता ॥ 21 ॥

क्वचिन्नीलोत्पलैश्छन्ना भाति रक्तोत्पलैः क्वचित् ।
क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुट्मलैः ॥ 22 ॥

पारिप्लवशतैर्जुष्टा बर्हिक्रौञ्चविनादिता ।
रमणीया नदी सौम्य मुनिसङ्घैर्निषेविता ॥ 23 ॥

पश्य चन्दनवृक्षाणां पङ्क्तीस्सुरचिता इव ।
ककुभानां च दृश्यन्ते मनसेवोदितास्समम् ॥ 24 ॥

अहो सुरमणीयोऽयं देशश्शत्रुनिषूदन ।
दृढं रंस्याव सौमित्रे साध्वत्र निवसावहै ॥ 25 ॥

इतश्च नातिदूरे सा किष्किन्धा चित्रकानना ।
सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥ 26 ॥

गीतवादित्रनिर्घोषश्श्रूयते जयतां वर ।
नर्दतां वानराणां च मृदङ्गाडम्बरै स्सह ॥ 27 ॥

लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः ।
ध्रुवं नन्दति सुग्रीवस्सम्प्राप्य महतीं श्रियम् ॥ 28 ॥

इत्युक्त्वा न्यवसत्तत्र राघवस्सहलक्ष्मणः ।
बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ ॥ 29 ॥

सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे ।
वसतस्तस्य रामस्य रतिरल्पापिना भवेत् ॥ 30 ॥

हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् ।
उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः ॥ 31 ॥

आविवेश न तं निद्रा निशासु शयनं गतम् ।
तत्समुत्थेन शोकेन बाष्पोपहतचेतसम् ॥ 32 ॥

तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् ।
तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः ॥ 33 ॥

अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि ।
शोचतो व्यवसीदन्ति सर्वार्था विदितं हि ते ॥ 34 ॥

भवान्क्रियापरो लोके भवान् देवपरायणः ।
आस्तिको धर्मशीलश्च व्यवसायी च राघव ॥ 35 ॥

न ह्यव्यवसितश्शत्रुं राक्षसं तं विशेषतः ।
समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम् ॥ 36 ॥

समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु ।
ततस्सपरिवारं तं निर्मूलं कुरु राक्षसम् ॥ 37 ॥

पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् ।
परिवर्तयितुं शक्तः किमङ्गपुन रावणम् ॥ 38 ॥

शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः ।
ततस्सराष्ट्रं सगणं रावणं त्वं वधिष्यसि ॥ 39 ॥

अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये ।
दीप्सैराहुतिभिः काले भस्मच्छन्नमिवानलम् ॥ 40 ॥

लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् ।
राघवस्सुहृदं स्निग्धमिदं वचनमब्रवीत् ॥ 41 ॥

वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च ।
सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया ॥ 42 ॥

एष शोकः परित्यक्तस्सर्वकार्यावसादकः ।
विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ॥ 43 ॥

शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव ।
सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥ 44 ॥

उपकारेण वीरस्तु प्रतीकारेण युज्यते ।
अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ 45 ॥

अथैव मुक्तःप्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् ।
उवाच रामं स्वभिरामदर्शनं प्रदर्शयन्दर्शनमात्मनश्शुभम् ॥ 46 ॥

यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता न चिराद्धरीश्वरः ।
शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः ॥ 47 ॥

नियम्य कोपं प्रतिपाल्यतां शरत् क्षमस्व मासां श्चतुरो मया सह ।
वसाचलेऽस्मिन्मृगराजसेविते संवर्धयन् शत्रुवधे समुद्यमम् ॥ 48 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे सप्तविंशस्सर्गः ॥




Browse Related Categories: