View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.122 युद्धकाण्ड - द्वाविंशत्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ द्वाविंशत्यधिकशततमस्सर्गः ।

एतच्छ्रुत्वाशुभंवाक्यंराघवेणानुभाषितम् ।
ततश्शुभतरंवाक्यंव्याजहारमहेश्वरः ॥ 1 ॥

पुष्कराक्ष महाबाहो महावक्ष परन्तप ।
दिष्ट्याकृतमिदङ्कर्मत्वयाधर्मभृतांवर ॥ 2 ॥

दिष्ट्यासर्वस्यलोकस्यप्रवृद्धन्दारुणन्तमः ।
अपावृत्तन्त्वयासङ्ख्येरामरावणजम्भयम् ॥ 3 ॥

आश्वास्यभरतन्दीनङ्कौसल्यां च यशस्विनीम् ।
कैकेयीं च सुमित्रां च दृष्टवालक्ष्मणमातरम् ॥ 4 ॥

प्राप्यराज्यमयोध्यायान्नन्दयित्वासुहृज्जनम् ।
इक्ष्वाकूणाङ्कुलेवंशंस्थापयित्वामहाबल ॥ 5 ॥

इष्टवातुरगमेधेनप्राप्यचानुत्तमंयशः ।
ब्राह्मणेभ्योधनन्दत्त्वात्रिदिवङ्गन्तुमर्हसि ॥ 6 ॥

एषराजादशरथोविमानस्थःपितातव ।
काकुत्स्थमानुषेलोकेगुरुस्तवमहायशाः ॥ 7 ॥

इन्द्रलोकङ्गतःश्रीमांस्त्वयापुत्रेणतारितः ।
लक्ष्मणेनसहभ्रात्रात्वमेममभिवादय ॥ 8 ॥

महदेववच्श्रुत्वाराघवःसहलक्ष्मणः ।
लक्ष्मणेनसहभ्रात्राददर्शपितरम्प्रभुः ॥ 9 ॥

दीप्यमानंस्वयालक्ष्मविरजोऽम्भरधारिणम् ।
लक्ष्मणेनसहभ्रात्राददर्शपितरम्प्रभुः ॥ 10 ॥

हर्षेणमहताविष्टोविमनस्थोमहीपतिः ।
प्राणैःप्रियतरन्दृष्टवापुत्रन्दशरथस्तदा ॥ 11 ॥

आरोप्याङ्केमहबाहुर्वरासनगतःप्रभुः ।
बाहुभ्यांसम्परिष्वज्यततोवाक्यंसमाददे ॥ 12 ॥

न मेस्वर्गोबहुमतस्सम्मानश्चसुरर्षभैः ।
त्वयारामविहीनस्यसत्यम्प्रतिशृणोमिते ॥ 13 ॥

अद्यत्वान्निहतामित्रन्दृष्टवासम्पूर्णमानसम् ।
निस्तीर्णवनवासं च प्रीतिरासीत्परामम ॥ 14 ॥

कैकेय्यायानिचोक्तानिवाक्यानिवदतांवर ।
तवप्रव्राजनार्थानिस्थितानिहृदयेमम ॥ 15 ॥

त्वान्तुदृष्टवाकुशलिनम्परिष्वज्यसलक्ष्मणम् ।
अद्यदुःखाद्विमुक्तोऽस्मिनीहारादिवभास्करः ॥ 16 ॥

तारितोऽहन्त्वयापुत्र सुपुत्रेणमहात्मना ।
अष्टावक्रेणधर्मात्माकहोलोब्राह्मणोयथा ॥ 17 ॥

इदानीं च विजानामियथासौम्य सुरेश्वरैः ।
वधार्थंरावणस्येहविहितम्पुरुषोत्तम ॥ 18 ॥

सिद्धार्थाखलुकौसल्यायात्वांराम गृहङ्गतम् ।
वनान्निवृत्तंसंहृष्टाद्रक्ष्यतेशत्रुसूदनम् ॥ 19 ॥

सिद्धार्थाःखलुतेराम नरायेत्वाम्पुरीङ्गतम् ।
राज्येचावाभिषिक्तं च द्रक्ष्यन्तेवसुधाधिपम् ॥ 20 ॥

अनुरक्तेनबलिनाशुचिनाधर्मचारिणा ।
इच्छेयन्त्वामहन्द्रष्टुम्भरतेनसमागतम् ॥ 21 ॥

चतुर्दशसमास्सौम्यवनेनिर्यातितास्त्वया ।
वसतासीतयासार्धंलक्ष्मणेन च धीमता ॥ 22 ॥

निवृत्तवनवासोऽसिप्रतिज्ञापूरितात्वया ।
रावणं च रणेहत्वादेवताःपरितोषिताः ॥ 23 ॥

कृतङ्कर्मयशश्श्लाघ्यम्प्राप्तन्तेशत्रुसूदन ।
भ्रातृभिःसहराज्यस्थोदीर्घमायुरवाप्नुहि ॥ 24 ॥

इतिब्रुवाणंराजानंरामःप्राञ्जलिरब्रवीत् ।
कुरुप्रसादन्धर्मज्ञकैकेय्याभरतस्य च ॥ 25 ॥

सपुत्रान्त्वान्त्यजामीतियदुक्ताकेकयीत्वया ।
स शापःकेकयीङ्घोरस्सपुत्रां न स्पृशेत्प्रभो ॥ 26 ॥

तथेति स महाराजोराममुक्त्वाकृताञ्जलिम् ।
लक्ष्मणं च परिष्वज्यपुनर्वाक्यमुवाच ह ॥ 27 ॥

रामंशुश्रूषताभक्त्यावैदेह्यासहसीतया ।
कृतमममहाप्रीतिःप्राप्तन्धर्मफलं च ते ॥ 28 ॥

धर्मम्प्राप्स्यसिधर्मज्ञ यशश्चविपुलम्भुवि ।
रामेप्रसन्नेस्वर्गं च महिमानन्तथोत्तमाम् ॥ 29 ॥

रामंशुश्रूषभद्रन्तेसुमित्रानन्दवर्धन ।
रामस्सर्वस्यलोकस्यसुभेष्वभिरतःसदा ॥ 30 ॥

एतेसेन्द्रास्त्रयोलोकास्सिद्धाश्चपरमर्षयः ।
अभिगम्यमहात्मानमर्चन्तिपुरुषोत्तमम् ॥ 31 ॥

एतत्तदुक्तमव्यक्तमक्षरम्ब्रह्मनिर्मितम् ।
देवानांहृदयंसौम्य गुह्यंरामःपरन्तप ॥ 32 ॥

अवाप्तन्धर्मचरणंयशश्चविपुलन्त्वया ।
एनंशुश्रूषताभक्त्यावैदेह्यासहसीतया ॥ 33 ॥

इत्युक्त्वालक्ष्मणंराजास्नुषाम्बद्धाञ्जलिंस्थिताम् ।
पुत्रीत्याभाष्यमधुरंशनैरेनामुवाच ह ॥ 34 ॥

कर्तव्यो न तुवैदेहीमन्युस्त्यागमिमम्प्रति ।
रामेणेत्वद्विशुध्यर्थङ्कृतमेतद्धितैषिणा ॥ 35 ॥

सुदुष्करमिदम्पुत्रितवचारित्रलक्षणम् ।
कृतंयत्तेऽन्यनारीणांयशोह्यभिभविष्यति ॥ 36 ॥

न त्वङ्कामंसमाधेयाभर्तृशुश्रूषणम्प्रति ।
अवश्यन्तुमयावाच्यमेषतेदैवतम्परम् ॥ 37 ॥

इतिप्रतिसमादिश्यपुत्रौसीतां च राघवः ।
इन्द्रलोकंविमानेनययौदशरथोज्वलन् ॥ 38 ॥

विमानमास्थायमहानुभावःश्रिया च सम्हृष्टतन्नुर्नृपोत्तमः ।
आमन्त्यपुत्रौसहसीतया च जगामदेवप्रवरस्यलोकम् ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे द्वाविंशत्यधिकशततमस्सर्गः ॥




Browse Related Categories: