श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ अष्टत्रिंशस्सर्गः ।
प्रतिगृह्य च तत्सर्वमुपायनमुपाहृतम् ।
वानरान्सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥ 1 ॥
विसर्जयित्वा स हरीन् शूरांस्तान्कृतकर्मणः ।
मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ 2 ॥
स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् ।
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन् ॥ 3 ॥
किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते ।
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥ 4 ॥
सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ।
एवं भवतु गच्छावः स्थेयं त्वच्छासने मया ॥ 5 ॥
तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् ।
विसर्जयामास तदा तारामन्याश्च योषितः ॥ 6 ॥
एतेत्युच्चैर्हरिवरान्सुग्रीवस्समुदाहरत् ।
तस्य तद्वचनं श्रुत्वा हरयश्शीघ्रमाययुः ॥ 7 ॥
बद्धाञ्जलिपुटास्सर्वे ये स्युः स्त्रीदर्शनक्षमाः ।
तानुवाच ततः प्राप्तान्राजाऽर्कसदृशप्रभः ॥ 8 ॥
उपस्थापयत क्षिप्रं शिबिकां मम वानराः ।
श्रुत्वा तु वचनं तस्य हरयश्शीघ्रविक्रमाः ॥ 9 ॥
समुपस्थापयामासुश्शिबिकां प्रियदर्शनाम् ।
तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ॥ 10 ॥
लक्ष्मणाऽरुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् ।
इत्युक्त्वा काञ्चनं यानं सुग्रीवस्सूर्यसन्निभम् ॥ 11 ॥
बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः ।
पाण्डुरेणातपत्रेण म्रियमाणेन मूर्धनि ॥ 12 ॥
शुक्लैश्च वालव्यजनैर्धूयमानैस्समन्ततः ।
शङ्खभेरीनिनादैश्च हरिभिश्चाभिवन्दितः ॥ 13 ॥
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ।
स वानरशतैस्तीक्ष्णैर्बहुभि श्शस्त्रपाणिभिः ॥ 14 ॥
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ।
स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् ॥ 15 ॥
अवातरन्महातेजा श्शिबिकायास्सलक्ष्मणः ।
आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् ॥ 16 ॥
कृताञ्जलौ स्थिते तस्मिन्वानराश्चाभवंस्तथा ।
तटाकमिव तं दृष्ट्वा रामः कुड्मलपङ्कजम् ॥ 17 ॥
वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ।
पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ॥ 18 ॥
प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे ।
परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ॥ 19 ॥
निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ।
धर्ममर्थं च कामं च यस्तु काले निषेवते ॥ 20 ॥
विभज्य सततं वीर स्स राजा हरिसत्तम ।
हित्वा धर्मं तथाऽर्थं च कामं यस्तु निषेवते ॥ 21 ॥
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ।
अमित्राणां वधे युक्तो मित्राणां सङ्ग्रहे रतः ॥ 22 ॥
त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ।
उद्योगसमयस्त्वेषप्राप्तश्शत्रुविनाशन ॥ 23 ॥
सञ्चिन्त्यतां हि पिङ्गेश हरिभिस्सह मन्त्रिभिः ।
एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥ 24 ॥
प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।
त्वत्प्रसादान्महाबाहो पुनःप्राप्तमिदं मया ॥ 25 ॥
तव देव प्रसादाच्च भ्रातुश्च जयतां वर ।
कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ॥ 26 ॥
एते वानरमूख्याश्च शतशश्शत्रुसूदन ।
प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ॥ 27 ॥
ऋक्षाश्चावहिताश्शूरा गोलाङ्गूलाश्च राघव ।
कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः ॥ 28 ॥
देवगन्धर्वपुत्राश्च वानराः कामरूपिणः ।
स्वैस्स्वैः परिवृतास्सैन्यैर्वर्तन्ते पथि राघव ॥ 29 ॥
शतैश्शतसहस्रैश्च वर्तन्ते कोटिभिश्च प्लवङ्गमाः ।
अयुतैश्चावृता वीराश्शङ्कुभिश्च परन्तप ॥ 30 ॥
अर्बुदैरर्बुदशतैर्मध्यैश्चान्त्यैश्च वानराः ।
समुद्रैश्च परार्धैश्च हरयो हरियूथपाः ॥ 31 ॥
आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः ।
मेरुमन्दरसङ्काशा विन्ध्य मेरुकृतालयाः ॥ 32 ॥
ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम् ।
निहत्य रावणं सख्ये ह्यानयिष्यन्ति मैथिलीम् ॥ 33 ॥
ततस्तमुद्योगमवेक्ष्य बुद्धिमा न्हरिप्रवीरस्य निदेशवर्तिनः ।
बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥ 34 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे अष्टत्रिंशस्सर्गः ॥