श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ चतुःपञ्चाशस्सर्गः ।
कामधेनुं वसिष्ठोऽपि यदा न त्यज्यते मुनिः ।
तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ॥ 1 ॥
नीयमाना तु शबला राम राज्ञा महात्मना ।
दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ॥ 2 ॥
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना ।
याहं राजभटैर्दीना ह्रियेय भृशदुःखिता ॥ 3 ॥
किं मयाऽपकृतं तस्य महर्षेर्भावितात्मनः ।
यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः ॥ 4 ॥
इति सा चिन्तयित्वा तु विनिश्श्वस्य पुनःपुनः ।
निर्धूय तांस्तदा भृत्यान् शतशश्शत्रुसूदन ।
जगामानिलवेगेन पादमूलं महात्मनः ॥ 5 ॥
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् ।
वसिष्ठस्याग्रतस्स्थित्वा मेघदुन्दुभिराविणी ॥ 6 ॥
भगवन् किं परित्यक्ता त्वयाऽहं ब्रह्मणस्सुत ।
यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः ॥ 7 ॥
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् ।
शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ॥ 8 ॥
न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया ।
एष त्वां नयते राजा बलोन्मत्तो महाबलः ॥ 9 ॥
न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः ।
बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥ 10 ॥
इयमक्षौहिणी पूर्णा सवाजिरथसङ्कुला ।
हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥ 11 ॥
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।
वचनं वचनज्ञा सा ब्रह्मर्षिममितप्रभम् ॥ 12 ॥
न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरः ।
ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ॥ 13 ॥
अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः ।
विश्वामित्रो महावीर्यस्तेज स्तव दुरासदम् ॥ 14 ॥
नियुङ्क्ष्व मां महाभाग त्वद्ब्रह्मबलसम्भृताम् ।
तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ॥ 15 ॥
इत्युक्तस्तु तया राम वसिष्ठ स्सुमहायशाः ।
सृजस्वेति तदोवाच बलं परबलार्दनम् ॥ 16 ॥
तस्य तद्वचनं श्रुत्वा सुरभिस्साऽसृजत्तदा ॥ 17 ॥
तस्या हुम्भारवोत्सृष्टाः पप्लवाश्शतशो नृप ।
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः ॥ 18 ॥
बलं भग्नं ततो दृष्ट्वा रथेनाक्रम्य कौशिकः ।
स राजा परमक्रुद्धो रोषविस्फारितेक्षणः ।
पप्लवान्नाशयामास शस्त्रैरुच्चावचैरपि ॥ 19 ॥
विश्वामित्रार्दितान् दृष्ट्वा पप्लवाञ्छतशस्तदा ।
भूय एवासृजत्कोपाच्छकान् यवनमिश्रितान् ॥ 20 ॥
तैरासीत् संवृता भूमि श्शकैर्यवनमिश्रितैः ।
प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसन्निभैः ॥ 21 ॥
दीर्घासिपट्टिशधरैःमवर्णाम्बरावृतैः ।
निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः ॥ 22 ॥
ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह ।
तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे चतुःपञ्चाशस्सर्गः ॥