श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टादशस्सर्गः ।
अथरामःप्रसन्नात्माशृत्वावायुसुतस्यह ।
प्रत्यभाषतदुर्धषश्रुतवानात्मनिस्थितम् ॥ 1 ॥
ममापितुविवक्षाऽस्तिकाचित्प्रतिविभीषणम् ।
श्रोतुमिच्छामितत्सर्वम्भवद्भिश्श्रेयसिस्थितैः ॥ 2 ॥
मित्रभावेनसम्प्राप्तन्नत्यजेयङ्कथञ्चन ।
दोषोयद्यपितस्यस्यात्सतामेतदगर्हितम् ॥ 3 ॥
सुग्रीस्त्वथतद्वाक्यमाभाष्यचविमृश्यच ।
ततश्शुभतरंवाक्यमुवाचहरिपुङ्गवः ॥ 4 ॥
सुदुष्टोवाप्यदुष्टोवाकिमेषरजनीचरः ।
ईदृशंव्यसनम्प्राप्तम्भ्रातरंयःपरित्यजेत् ॥ 5 ॥
कोनामसभवेत्तस्ययमेषनपरित्यजेत् ।
वानराधिपतेर्वाक्यंश्रुत्वासर्वानुदीक्ष्यच ॥ 6 ॥
ईषदुत्स्मयमानस्तुलक्ष्मणम्पुण्यलक्षणम् ।
इतिहोवाचकाकुत्स्थोवाक्यंसत्यपराक्रमः ॥ 7 ॥
अनधीत्यचशास्त्राणिवृद्धाननुपसेव्यच ।
नशक्यमीदृशंवक्तुंयदुवाचहरीश्वरः ॥ 8 ॥
अस्तिसूक्ष्मतरङ्किञ्चिद्यदत्रप्रतिभातिमे ।
प्रत्यक्षंलौकिकञ्चापिविद्यतेसर्वराजसु ॥ 9 ॥
अमित्रास्तत्कुलीनाश्चप्रातिदेश्याश्चकीर्तिताः ।
व्यसनेषुप्रहर्तारस्तस्मादयमिहागतः ॥ 10 ॥
अपापास्तत्कुलीनाश्चमानयन्तिस्वकान्हितान् ।
एषप्रायोनरेन्द्राणांशङ्कनीयस्तुशोभनः ॥ 11 ॥
यस्तुदोषस्त्वयाप्रोक्तोह्यादानेऽरिबलस्यच ।
तत्रतेकीर्तयिष्यामियथाशास्त्रमिदंशृणु ॥ 12 ॥
नवयन्तत्कुलीनाश्चराज्यकाङ् क्षीचराक्षसः ।
पण्डिताहिभविष्यन्तितस्माद्ग्राह्योविभीषणः ॥ 13 ॥
अव्यग्राश्चप्रहृष्टाश्चनभविष्यन्तिसङ्गता ।
प्रणादश्चमहानेषततोऽस्यभयमागतम् ॥ 14 ॥
इतिभेदङ्गमिष्यन्तितस्माग्राह्योविभीषणः ।
नसर्वेभ्रातरस्तातभवन्तिभरतोपमाः ।
मद्विथावापितुःपुत्रास्सुहृदोनाभवद्विथाः ॥ 15 ॥
एवमुक्तस्तुरामेणसुग्रीवस्सहलक्ष्मणः ।
उत्थायेदम्महाप्राज्ञःप्रणतोवाक्यमब्रवीत् ॥ 16 ॥
रावणेनप्रणिहितन्तमवेहिविभीषणम् ।
तस्याहन्निग्रहम्मन्येक्षमङ्क्षमवतांवर ॥ 17 ॥
राक्षसोजिह्मयाबुध्यासन्दिष्टोऽयमिहागतः ।
प्रहर्तुन्त्वयिविश्वस्तेप्रच्छन्नोमयिवानघ ॥ 18 ॥
लक्ष्मणेवामहाबाहो सवध्यस्सचिवैस्सहा ।
रावणस्यनृशंसस्यभ्राताह्येषविभीषणः ।
एवमुक्त्वारघुश्रेष्ठंसुग्रीवोवाहिनीपतिः ।
वाक्यज्ञोवाक्यकुशलन्ततोमौनमुपागमत् ॥ 19 ॥
सुग्रीवस्यतुतद्वाक्यंरामश्रुत्वाविमृश्यच ।
ततश्शुभतरंवाक्यमुवाचहरिपुङ्गवम् ॥ 20 ॥
सुदुष्टोवाप्यदुष्टोवाकिमेषरजनीचरः ।
सूक्ष्ममप्यहितङ्कर्तुम्ममाशक्तःकथञ्चन ॥ 21 ॥
ततः शुभतरं वाक्यं उवाच हरि पुम्गवम् ।
सुदुष्टो वा अपि अदुष्टो वा किं एष रजनी चरः ॥ 22 ॥
श्रूयतेहिकपोतेनशत्रुश्शरणमागतः ।
अर्चितश्चयथान्यायंस्वैश्चमांसैर्निमन्त्रितः ॥ 23 ॥
सहितम्प्रतिजग्राहभार्याहर्तारमागतः ।
कपोतोवानरश्रेष्ठः किम्पुनर्मद्विधोजनः ॥ 24 ॥
ऋषेःकण्वस्यपुत्रेणकण्डुनापरमर्षिणा ।
शृणुगाथाम्पुरागीतान्धर्मिष्ठासत्यवादिना ॥ 25 ॥
बद्धाञ्जलिपुटन्दीनंयाचन्तंशरणागतम् ।
नहन्यदानृशंस्यार्थमपिशत्रुम्परन्तप ॥ 26 ॥
आर्तोवायदिवादृप्तःपरेषांशरणाङ्गतः ।
अरिःप्राणान्परित्यज्यरक्षितव्यःकृतात्मना ॥ 27 ॥
सचेद्भयाद्वामोहाद्वाकामाद्वापिनरक्षति ।
स्वयाशक्त्यायथासत्त्वन्तत्पापंलोकगर्हितम् ॥ 28 ॥
विनष्टःपश्यतस्तस्यारक्षिणश्शरणागतः ।
आदायसुकृतन्तस्यसर्वङ्गच्छेदरक्षितः ॥ 29 ॥
एवन्दोषोमहानत्रप्रपन्नानामरक्षणे ।
अस्वर्ग्यञ्चायशस्यञ्चबलवीर्यविनाशनम् ॥ 30 ॥
करिष्यामियथार्थन्तुकण्डोर्वचनमुत्तमम् ।
धर्मिष्ठञ्चयशस्यञ्चस्वर्ग्यंस्यात्तुफलोदये ॥ 31 ॥
सकृदेवप्रपन्नायतवास्मीतिचयाचते ।
अभयंसर्वभूतेभ्योददाम्येतद्व्रतम्मम ॥ 32 ॥
अनयैनंहरिश्रेष्ठः दत्तमस्याभयम्मया ।
विभीषणोवासुग्रीवः यदिवारावणस्स्वयम् ॥ 33 ॥
रामस्यतुवच्शुत्वासुग्रीवःप्लवगेश्वरः ।
प्रत्यभाषतकाकुत्स्थंसौहार्देनप्रचोदितः ॥ 34 ॥
किमत्रचित्रन्धर्मज्ञः लोकनाथः सुखावहाः ।
यत्त्वमार्यम्प्रभाषेथास्सत्त्ववान् सत्पथेस्थितः ॥ 35 ॥
ममचाप्यन्तरात्मायंशुद्धंवेत्तिविभीषणम् ।
अनुमानाच्चभावाच्चसर्वतस्सुपरीक्षितः ॥ 36 ॥
तस्मात् क्षिप्रंसहास्माभिस्तुल्योभवतराघवः ।
विभीषणोमहाप्राज्ञस्सखित्वञ्चाभ्युपैतुनः ॥ 37 ॥
ततस्तुसुग्रीववचोनिशम्यतद्दरीश्वरेणाभिहितन्नरेश्वरः ।
विभीषणेनाशुजगामसङ्गमम्पतत्त्रिराजेनयथापुरन्दरः ॥ 38 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टादशस्सर्गः ॥