श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ द्विनवतितमस्सर्गः ।
रुधिरक्लिन्नगात्रस्तुलक्ष्मणःशुभलक्षणः ।
बभूवहृष्टस्तंहत्वाशक्रजेतारमाहवे ॥ 1 ॥
ततःसजाम्बवन्तञ्चहनूमन्तञ्चवीर्यवान् ।
सन्निपत्यमहातेजास्तांश्चसर्वान्वनौकसः ॥ 2 ॥
आजगामततःशीघ्रंयत्रसुग्रीवराघवौ ।
विभीषणमवष्टभ्यहनूमन्तञ्चलक्ष्मणः ॥ 3 ॥
ततोराममभिक्रम्यसौमित्रिरभिवाद्य च ।
तस्थौभ्रातृसमीपस्थःशक्रस्येन्द्रानुजोयथा ॥ 4 ॥
निष्टनन्निवचागत्यराघवायमहात्मने ।
आचचक्षेतदावीरोघोरमिन्द्रजितोवधम् ॥ 5 ॥
रावणेस्तुशिरश्छिन्नंलक्ष्मणेनमहात्मना ।
न्यवेदयतरामायतदाहृष्टोविभीषणः ॥ 6 ॥
श्रुत्वैवतुमहावीर्योलक्षणनेन्द्रजिद्वधम् ।
प्रहर्षमतुलंलेभेवाक्यञ्चेदमुवाच ह ॥ 7 ॥
साधुलक्ष्मणतुष्टोऽस्मिकर्मचासुकरङ्कृतम् ।
रावणेर्हिविनाशेनजितमुत्यपधारय ॥ 8 ॥
स तंशिरस्युपाघ्रायलक्ष्मणङ्कीर्तिवर्धनम् ।
लज्जमानम्बलात्स्नेहादङ्गमारोप्यवीर्यवान् ॥ 9 ॥
उपवेश्यतमुत्सङ्गेपरिष्वज्यावपीडितम् ।
भ्रातरंलक्ष्मणंस्निग्धम्पुनःपुनरुदैक्षत ॥ 10 ॥
शल्यसम्पीडितंशस्तन्निःश्वसन्तन्तुंलक्ष्मणम् ।
रामस्तुदुःखसन्तप्तन्तन्तुनिःश्वासपीडितम् ॥ 11 ॥
मूर्ध्निचैनमुपाघ्रायभूयःसंस्पृश्य च त्वरन् ।
उवाचलक्ष्मणंवाक्यमाश्वास्यपुरुषर्षभः ॥ 12 ॥
कृतम्परमकल्याणङ्कर्मदुष्करकर्मणा ।
अद्यमन्येहतेपुत्रेरावणन्निहतंयुधि ॥ 13 ॥
अद्याहंविजयीशत्रौहतेतस्मिन् दुरात्मनि ।
रावणस्यनृशंसस्यदिष्ट्यावीरत्वयारणे ॥ 14 ॥
छिन्नोहिदक्षिणोबाहुः स हितस्यव्यपाश्रयः ।
विभीषणहनूमद्भ्याङ्कृतङ्कर्ममहद्रणे ॥ 15 ॥
अहोरात्रैस्त्रिभिर्वीरःकथञ्चितवन्दिपातितः ।
विरमित्रःकृतोऽस्म्यद्यनिर्यास्यतिहिरावणः ॥ 16 ॥
बलव्यूहेनमहताश्रुत्वापुत्त्रन्निपातितम् ।
तम्पुत्रवधसन्तप्तन्निर्यान्तंराक्षसाधिपम् ॥ 17 ॥
बलेनावृत्यमहतानिहनिष्यामिदुर्जयम् ।
त्वयालक्ष्मणनाथेनसीता च पृथिवी च मे ॥ 18 ॥
न दुष्प्रापाहतेतस्मिन् शक्रजेतरिचाहवे ।
सतम्भ्रातरमाश्वास्यपरिष्वज्य च राघवः ॥ 19 ॥
रामःसुषेणम्मुदितस्समाभाष्येदमब्रवीत् ।
सशल्योऽयम्महाप्राज्ञस्सौमित्रिर्मित्रवत्सलः ॥ 20 ॥
यथाभवतिसुस्वस्थस्तथात्वंसमुपाचर ।
विशल्यःक्रियताङ्क्षिप्रंसौमित्रिस्सविभीषणः ॥ 21 ॥
ऋक्ष्वानरसैन्यानांशूराणान्द्रुमयोधिनाम् ।
येचाप्यन्येऽत्रयुध्यन्तिसशल्याव्रणिनस्तथा ॥ 22 ॥
तेऽपिसर्वेप्रयत्नेनक्रियन्तांसुखिनस्तथा ।
एवमुक्तस्तुरामेणमहात्माहरियूथपः ॥ 23 ॥
लक्ष्मणायदरौनस्तस्सुषेणःपरमौषधम् ।
स तस्यगन्धमाघ्रायविशल्यस्समपद्यत ॥ 24 ॥
तदानिर्वेदनश्चैवसंरूढव्रणएव च ।
विभीषणमुखानां च सुहृदांराघवाज्नाया ॥ 25 ॥
सर्ववानरमुख्यानाञ्चिकित्सामकरोत्तदा ।
ततःप्रकृतिमापन्नोहृतशल्योगतव्यथः ॥ 26 ॥
सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः ।
तदैवरामःप्लवगाधिपस्तथाविभीषणश्चर्क्षपतिश्चजाम्बवान् ।
आवेक्ष्यसौमित्रिमरोगमुथतितम्मुदाससैन्यास्सुचिरञ्जहर्षिरे ॥ 27 ॥
अपूजयत्कर्म स लक्ष्मणस्यसुदुष्करन्दाशरथिर्महात्मा ।
बभूवहृष्टोवानरेन्द्रोनिशम्यतंशक्रजितन्निपातितम् ॥ 28 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे द्विनवतितमस्सर्गः ॥