View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.50 अयोध्याकाण्ड - पञ्चाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ पञ्चाशस्सर्गः ।

विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः ।
अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत् ॥ 1 ॥

आपृच्छे त्वां पुरीश्रेष्ठे काकुत्स्थपरिपालिते ।
दैवतानि च यानि त्वां पालयन्ति वसन्ति च ॥ 2 ॥

निवृत्तवनवासस्त्वामनृणो जगतीपतेः ।
पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह सङ्गतः ॥ 3 ॥

ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् ।
अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम् ॥ 4 ॥

अनुक्रोशो दया चैव यथार्हं मयि वः कृतः ।
चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥ 5 ॥

तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम् ।
विलपन्तो नरा घोरं व्यतिष्ठन्त क्वचित् क्वचित् ॥ 6 ॥

तथा विलपतां तेषामतृप्तानां च राघवः ।
अचक्षुर्विषयं प्रायाद्यथार्कः क्षणदामुखे ॥ 7 ॥

ततो धान्यधनोपेतान् दानशीलजनान् शिवान् ।
अकुतश्चिद्भयान् रम्यांश्चैत्ययूपसमावृतान् ॥ 8 ॥

उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् ।
तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥ 9 ॥

लक्षणीयान्नरेन्द्राणां ब्रह्मघोषाभिनादितान् ।
रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥ 10 ॥

मध्येनमुदितं स्फीतं रम्योद्यानसमाकुलम् ।
राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां वरः ॥ 11 ॥

तत स्त्रिपथगां दिव्यां शिवतोयामशैवलाम् ।
ददर्श राघवो गङ्गां पुण्यामृषिनिषेविताम् ॥ 12 ॥

आश्रमैरविदूरस्थैः श्रीमद्भिस्समलङ्कृताम् ।
कालेऽप्सरोभिर्हृष्टाभि स्सेविताम्भोह्रदां शिवाम् ॥ 13 ॥

देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् ।
नानागन्धर्वपत्नीभि स्सेवितां सततं शिवाम् ॥ 14 ॥

देवाऽऽक्रीडशताकीर्णां देवोद्यानशतायुताम् ।
देवार्थमाकाशगमां विख्यातां देवपद्मिनीम् ॥ 15 ॥

जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम् ।
क्वचिद्वेणीकृतजलां क्वचिदावर्तशोभिताम् ॥ 16 ॥

क्वचित् स्तिमितगम्भीरां क्वचिद्वेगजलाकुलाम् ।
क्वचिद्गम्भीरनिर्घोषां क्वचिद्भैरवनिस्वनाम् ॥ 17 ॥

देवसङ्घाप्लुतजलां निर्मलोत्पलशोभिताम् ।
क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम् ॥ 18 ॥

हंससारससङ्घुष्टां चक्रवाकोपकूजिताम् ।
सदा मदैश्च विहगैरभिसन्नादितान्तराम् ॥ 19 ॥

क्वचित्तीररुहैर्वृक्षैर्मालाभिरिवशोभिताम् ।
क्वचित्फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम् ॥ 20 ॥

क्वचित्कुमुदषण्डैश्च कुड्मलैरुपशोभिताम् ।
नानापुष्परजोध्वस्तां समदामिव च क्वचित् ॥ 21 ॥

व्यपेतमलसङ्घातां मणिनिर्मलदर्शनाम् ।
दिशागजैर्वनगजै र्मत्तैश्च वरवारणैः ॥ 22 ॥

देवोपवाह्यैश्च मुहुस्सन्नादितवनान्तराम् ।
प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः ॥ 23 ॥

फलैः पुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा ।
शिंशुमारैश्च नक्रैश्च भुजङ्गैश्च निषेविताम् ॥ 24 ॥

विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् ।
तां शङ्करजटाजूटाद्भ्रष्टां सागरतेजसा ॥ 25 ॥

समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम् ।
आससाद महाबाहुः शृङ्गिबेरपुरं प्रति ॥ 26 ॥

तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः ।
सुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे ॥ 27 ॥

अविदूरादयं नद्या बहुपुष्पप्रवालवान् ।
सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे ॥ 28 ॥

द्रक्ष्याम स्सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम् ।
देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥ 29 ॥

लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम् ।
उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः ॥ 30 ॥

रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः ।
रथादवातरत्तस्मात्सभार्य स्सहलक्ष्मणः ॥ 31 ॥

सुमन्त्रोऽप्यवतीर्यास्मान्मोचयित्वा हयोत्तमान् ।
वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः ॥ 32 ॥

तत्र राजा गुहो नाम रामस्यात्मसमस्सखा ।
निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः ॥ 33 ॥

स शृत्वा पुरुषव्याघ्रं रामं विषयमागतम् ।
वृद्धैः परिवृतोऽमात्यैः ज्ञातिभिश्चाभ्युपागतः ॥ 34 ॥

ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम् ।
सह सौमित्रिणा राम स्समागच्छद्गुहेन सः ॥ 35 ॥

तमार्तस्सम्परिष्वज्य गुहो राघवमब्रवीत् ।
यथाऽयोध्या तथेयं ते राम किं करवाणि ते ॥ 36 ॥

ईदृशं हि महाबाहो कः प्राप्स्यत्यतिथिं प्रियम् ।
ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् ॥ 37 ॥

अर्घ्यं चोपानयत्क्षिप्रं वाक्यं चेदमुवाच ह ।
स्वागतं ते महाबाहो तवेयमखिला मही ॥ 38 ॥

वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः ।
भक्ष्यं भोज्यं च पेयं च लेह्यञ्चेदमुपस्थितम् ॥ 39 ॥

शयनानि च मुख्यानि वाजिनां खादनं च ते ।
एवं ब्रुवाणं तु गुहं राघवः प्रत्युवाच ह ॥ 40 ॥

अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् ।
पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च ॥ 41 ॥

भुजाभ्यां साधु पीनाभ्यां पीडयन्वाक्यमब्रवीत् ।
दिष्ट्या त्वां गुह पश्यामि ह्यरोगं सह बान्धवैः ।
अपि ते कुशलं राष्ट्रे मित्रेषु च धनेषु च ॥ 42 ॥

यत्त्विदं भवता किञ्चित्प्रीत्या समुपकल्पितम् ।
सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे ॥ 43 ॥

कुशचीराजिनधरं फलमूलाशिनं च माम् ।
विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥ 44 ॥

अश्वानां खादनेनाहमर्थी नान्येन केनचित् ।
एतावताऽत्र भवता भविष्यामि सुपूजितः ॥ 45 ॥

एते हि दयिता राज्ञः पितुर्दशरथस्य मे ।
एतैस्सुविहितैरश्वै भविष्याम्यहमर्चितः ॥ 46 ॥

अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात् ।
गुहस्तत्रैव पुरुषां स्त्वरितं दीयतामिति ॥ 47 ॥

ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् ।
जलमेवाददे भोज्यं लक्ष्मणेनाऽऽहृतं स्वयम् ॥ 48 ॥

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।
सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ॥ 49 ॥

गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन् ।
अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः ॥ 50 ॥

तथा शयानस्य ततोऽस्य धीमतो यशस्विनो दाशरथेर्महात्मनः ।
अदृष्टदुःखस्य सुखोचितस्य सा तदाव्यतीयाय चिरेण शर्वरी ॥ 51 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे पञ्चाशस्सर्गः ॥




Browse Related Categories: