श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुःपञ्चाशस्सर्गः ।
स्वबलस्य च घातेन अङ्गदस्य बलेन च ।
राषसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥ 1 ॥
विष्पार्यचधनुर्घोरंशक्राशनिसमस्वनम् ।
वानराणामनीकानिप्राकिरच्छरवृष्टिभिः ॥ 2 ॥
राक्षसाश्चापिमुख्यास्तेरथेषुसमवस्थिताः ।
नानाप्रहरणाश्शूराःप्रायुध्यन्तस्तदारणे ॥ 3 ॥
वानराणाञ्चशूरायेतेसर्वेप्लवगर्षभाः ।
आयुध्यन्तशिलाहस्तास्समवेतास्समन्ततः ॥ 4 ॥
तत्रायुधसहस्राणितस्मिन्नायोधनेभृशम् ।
राक्षसाःकपिमुख्येषुपातयाञ्चक्रिरेतदा ॥ 5 ॥
वानराश्चापिरक्षस्सुगिरवृक्षान्महाशिलाः ।
प्रवीराःपातयामासुर्मत्तमातङ्गसन्निभाः ॥ 6 ॥
शूराणांयुद्यमानानांसमरेष्न्विवर्तिनाम् ।
तद्राक्षसगणानाञ्चसुयुद्धंसमवर्तत ॥ 7 ॥
प्रभिन्नशिरसःकेचिछचिन्नैःपादैश्चबाहुभिः ।
शस्स्रैरर्दितदेहाभ्यरुधिरेणसमुक्षिताः ॥ 8 ॥
हरयो राक्षसाश्चैन शेरते गां समाश्रिताः ।
कङ्कगृध्राबलाढ्यश्च गोमायुकुलसङ्कुलाः ॥ 9 ॥
कबन्धानिसमुत्पेतुर्भीमाणाम्भीषणानिवै ।
भुजपाणिशिरश्छिन्नकायाश्चभूतले ॥ 10 ॥
वानराराक्षसाश्चापिनिपेतुस्तत्रवैरणे ।
ततोवानरसैन्येनहन्यमानन्निशाचरम् ॥ 11 ॥
प्राभज्यतबलंसर्वंवज्रदंष्ट्रस्यपश्यतः ।
राक्षसान्भयवित्रस्तान्हन्यमानान् प्लवङ्गमैः ॥ 12 ॥
दृष्टवासरोषताम्राक्षोवज्रदंष्ट्रःप्रतापवान् ।
प्रविवेशधनुष्पाणिस्त्रासयन्हरिवाहिनीम् ॥ 13 ॥
शरैर्विदारयामासकङ्कपत्रैरजिह्मगैः ।
बिभेदवानरांस्तत्रसप्ताष्टौनवपञ्चच ॥ 14 ॥
विव्याधपरमक्रुद्धोवज्रदंष्ट्रःप्रतापवान् ।
त्रस्ताःसर्वेहरिगणाःशरैःसङ्कृत्तकन्दराः ॥ 15 ॥
अङ्गदंसम्प्रधावन्तिप्रजापतिमिवप्रजाः ।
ततोहरिगणान् भग्नान् दृष्टवावालिसुतस्तदा ॥ 16 ॥
क्रोधेनवज्रदंष्ट्रन्तमुदीक्षन्तमुदैक्षत ।
वज्रदंष्ट्रोऽङ्गदश्चोभौसङ्गतौहरिराक्षसौ ॥ 17 ॥
चेरतुःपरमक्रुद्धौहरिमत्तगजाविव ।
ततश्शतसहस्रेणहरिपुत्रम्महाबलः ॥ 18 ॥
जघानमर्मदेशेषुमातङ्गमिवतोमरैः ।
रुधिरोक्षितसर्वाङ्गोवालिसूनुर्महाबलः ॥ 19 ॥
चिक्षेपवज्रदंष्ट्रायवृक्षम्भीमपराक्रमः ।
दृष्टापतन्तन्तंवृक्षमसम्भ्रान्तश्चराक्षसः ॥ 20 ॥
चिच्छेदबहुधासोऽपिमथितःप्रादतद्भुवि ।
तन्दृष्टवावज्रदंष्ट्रस्यविक्रमम्प्लवगर्षभ ॥ 21 ॥
प्रगृह्यविपुलंशैलञ्चिक्षेपचननादच ।
समापतन्तन्दृष्टवासरथादाप्लुत्यवीर्यवान् ॥ 22 ॥
गदापाणिरसम्भ्रान्तःपृथिव्यांसमतिष्ठत ।
साङ्गदेनगदाक्षिप्तागत्वातुरणमूर्धनि ॥ 23 ॥
सचक्रकूबरंसाश्वम्प्रममाथरथन्तदा ।
ततोऽन्यच्छिखरङ्गृह्यविपुलन्द्रुमभूषितम् ॥ 24 ॥
वज्रदंष्ट्रस्यशिरसिपातयामाससाऽङ्गदः ।
अभवच्छोणितोद्गारीवज्रदंष्ट्रस्समूर्छितः ॥ 25 ॥
मुहूर्तमभवन्मूढोगदामालिङ् ग्यनिश्श्वसन् ।
संलब्दसञ्ज्ञोगदयावालिपुत्रमवस्थितम् ॥ 26 ॥
जघानपरमक्रुद्धोवक्षोदेशेनिशाचरः ।
गदान्त्यक्त्वाततस्तत्रमुष्टियुद्धमवर्तत ॥ 27 ॥
अन्योन्यञ्जघ्नतुस्तत्रतावुभौहरिराक्षसौ ।
रुधिरोद्गारिणौतौतुप्रहारैर्जनितश्रमौ ॥ 28 ॥
बभूवतुस्सुविक्रान्तावङ्गारकबुधाविव ।
ततःपरमतेजस्वीअङ्गदःप्लवगर्षभः ॥ 29 ॥
उत्पाट्यवृक्षंस्थितवान् बहुपुष्पफलाञ्चितम् ।
जग्राहचार्षभञ्चर्मखडगञ्चविपुलंशुभम् ॥ 30 ॥
किङ्किणाजालसञ्छन्नञ्चर्मणाचपरिष्कृतम् ।
चित्रांश्चरुचिरान्मार्गांश्चेरतुःकपिराक्षसौ ॥ 31 ॥
जघ्नतुश्चतदान्योन्यन्निर्दयञ्जयकाङ् क्षिणौ ।
व्रणैस्सास्त्रैरशोभेताम्पुष्पिताविवकिंशुकौ ॥ 32 ॥
युध्यमानौ परिश्रानौ जानुभ्यामवनीं गतौ ।
निमेषान्तरमात्रेण अङ्गदह् कपिकुञ्जरः ॥ 33 ॥
उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ।
निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः ॥ 34 ॥
जघानवज्रदंष्ट्रस्यवालिसूमर्महाबलः ।
रुधिरोक्षितगात्रस्यबभूवपतितन्द्विधा ॥ 35 ॥
सरोषपरिवृत्ताक्षंशुभङ्खडगहतंशिरः ।
वज्रदंष्ट्रंहतन्दृष्टवाराक्षसाभयमोहिताः ॥ 36 ॥
त्रस्ताह्यभ्यद्रवन् लङ्कांवध्यमानाःप्लवङ्गमैः ।
विषण्णवदनाः दीनाह्रियाकिञ्चिदवाङ्मुखाः ॥ 37 ॥
निहत्यतंवज्रधरप्रतापःसवालिसूनुःकपिसैन्यमध्ये ।
जगामहर्षम्महितोमहाबलःसहस्रनेत्रस्त्रिदशैरिवावृतः ॥ 38 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुःपञ्चाशस्सर्गः ॥