श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ पञ्चचत्वारिंशस्सर्गः ।
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने ।
उवाच लक्ष्मणं सीता गच्छ जीनीहि राघवम् ॥ 1 ॥
न हि मे हृदयं स्थाने जीवितं वाऽवतिष्ठति ।
क्रोशतः परमार्तस्य श्रुतश्शब्दो मया भृशम् ॥ 2 ॥
आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि ।
तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥ 3 ॥
रक्षसां वशमापन्नं सिंहानामिव गोवृषम् ।
न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ॥ 4 ॥
तमुवाच ततस्तत्र कुपिता जनकात्मजा ।
सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ॥ 5 ॥
यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे ।
इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ॥ 6 ॥
लोभात्त्वं मत्कृते नूनं नानुगच्छसि राघवम् ।
व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरिनास्तिते ॥ 7 ॥
तेन तिष्ठसि विश्रब्धन्तमपश्यन्महाद्युतिम् ।
किं हि संशयमापन्ने तस्मिन्निह मया भवेत् ॥ 8 ॥
कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः ।
इति ब्रुवाणां वैदेहीं बाष्पशोकपरिप्लुताम् ॥ 9 ॥
अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव ।
पन्नगासुरगन्धर्वदेवमानुषराक्षसैः ॥ 10 ॥
अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः ।
देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु ॥ 11 ॥
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ।
दानवेषु च घोरेषु स न विद्येत शोभने ॥ 12 ॥
यो रामं प्रतियुध्येत समरे वासवोपमम् ।
अवध्यस्समरे रामो नैवं त्वं वक्तुमर्हसि ॥ 13 ॥
न त्वामस्मिन्वने हातुमुत्सहे राघवं विना ।
अनिवार्यं बलं तस्य बलैर्बलवतामपि ॥ 14 ॥
त्रिभिर्लोकैस्समुद्युक्तैस्सेश्वरैरपि सामरैः ।
हृदयं निर्वृतं तेऽस्तुसन्तापस्त्यज्यतामयम् ॥ 15 ॥
आगमिष्यति ते भर्ता श्रीघ्रं हत्वा मृगोत्तमम् ।
न च तस्य स्वरो व्यक्तं मायया केन चित्कृतः ।
गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः ॥ 16 ॥
न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ॥ 17 ॥
रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे ।
कृतवैराश्च वैदेहि वयमेतैर्निशाचरैः ॥ 18 ॥
खरस्य निधनादेव जनस्थानवधं प्रति ।
राक्षसा विविधा वाचो विसृजन्ति महावने ॥ 19 ॥
हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि ।
लक्ष्मणेनैवमुक्ता सा क्रुद्धा संरक्तलोचना ॥ 20 ॥
अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ।
अनार्याकरणारम्भ नृशंस कुलपांसन ॥ 21 ॥
अहं तव प्रियं मन्ये रामस्य व्यसनं महत् ।
रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे ॥ 22 ॥
नैतच्चित्रं सपत्नेषु पापं लक्ष्मण यद्भवेत् ।
त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥ 23 ॥
सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि ।
मम हेतोः प्रतिच्छन्नः प्रयुक्तोभरतेन वा ॥ 24 ॥
तन्नसिध्यति सौमित्रे तव वा भरतस्य वा ।
कथमिन्दीवरश्यामं पद्मपत्रनिभेक्षणम् ॥ 25 ॥
उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ।
समक्षं तव सौमित्रे प्राणांस्त्यक्षे न संशयः ।
रामं विना क्षणमपि न हि जीवामि भूतले ॥ 26 ॥
इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ॥ 27 ॥
अब्रवील्लक्ष्मणस्सीतां प्राञ्जलिर्विजितेन्द्रियः ।
उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ॥ 28 ॥
वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि ।
स्वभावस्त्वेष नारीणामेवं लोकेषु दृश्यते ॥ 29 ॥
विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ।
न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे ॥ 30 ॥
श्रोत्रयोरुभयोर्मेद्य तप्तनाराचसन्निभम् ।
उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः ॥ 31 ॥
न्यायवादी यथान्यायमुक्तोऽहं परुषं त्वया ।
धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशङ्कसे ।
स्त्रीत्वलदुष्टं स्वभावेन गुरुवाक्ये व्यवस्थितम् ॥ 32 ॥
गमिष्ये यत्र काकुत्स्थ स्वस्ति तेऽस्तु वरानने ॥ 33 ॥
रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ।
निमित्तानि च घोराणि यानि प्रादुर्भवन्ति मे ॥ 34 ॥
अपि त्वां सह रामेण पश्येयं पुनरागतः ।
न वेत्येतन्न जानामि वैदेहि जनकात्मजे ॥ 35 ॥
लक्ष्मणेनैवमुक्ता सा रुदन्ती जनकात्मजा ।
प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता ॥ 36 ॥
गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण ।
अबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः ॥ 37 ॥
पिबाम्यहं विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् ।
न त्वहं राघवादन्यं पदापि पुरुषं स्पृशे ॥ 38 ॥
इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता ।
पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह ॥ 39 ॥
तामार्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम् ।
आश्वासयामास न चैव भर्तु स्तं भ्रातरङ्किञ्चिदुवाच सीता ॥ 40 ॥
ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किञ्चिदभिप्रणम्य च ।
अन्वीक्षमाणो बहुशश्च मैथिलीं जगाम रामस्य समीपमात्मवान् ॥ 41 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे पञ्चचत्वारिंशस्सर्गः ॥