View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.33 युद्धकांड - त्रयस्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रयस्त्रिंशस्सर्गः ।

सीतांतुमोहितांदृष्टवासरमानामराक्षसी ।
आससादाथवैदेहींप्रियांप्रणयिनींसखी ॥ 1 ॥

मोहितांराक्षसेंद्रेणसीतांपरमदुःखिताम् ।
आश्वासयामासतदासरमामृदुभाषिणी ॥ 2 ॥

साहितत्रकृतामित्रंसीतयारक्ष्यमाणया ।
रक्षंतीरावणादिष्टासानुक्रोशादृढव्रता ॥ 3 ॥

साददर्शसखीसीतांसरमानष्टचेतनाम् ।
उपावृत्त्योत्थितांध्वस्तांबडबामिवपांसुलाम् ॥ 4 ॥

तांसमाश्वासयामाससखीस्नेहेनसुव्रता ।
समाश्वसिहिवैदेही माभूत्तेमवसोव्यथा ॥ 5 ॥

उक्तायद्रावणेनत्वंप्रत्युक्तश्चस्वयंत्वया ।
सखीस्नेहेनतभदीरुमयासर्वंप्रतिश्रुतम् ॥ 6 ॥

लीनयागहनेशून्येभयमुत्सृज्यरावणात् ।
तवहेतोर्विशालाक्षी नहिमेजीवितंप्रियम् ॥ 7 ॥

ससंभ्रांतश्चनिष्क्रांतोयत्कृतेराक्षसाधिपः ।
तच्चमेविदितंसर्वमभिनिष्क्रम्यमैथिलिः ॥ 8 ॥

नशक्यंसौप्तिकंकर्तुंरामस्यविदितात्मनः ।
वधश्चपुरुषव्याघ्रेतस्मिन्नैवोपपद्यते ॥ 9 ॥

नत्वेववानराहंतुंशक्याःपादपयोधिपः ।
सुरादेवर्षभेणेवरामेणहिसुरक्षिताः ॥ 10 ॥

दीर्घवृत्तभुज्शीमान्महोरस्कःप्रतापवान् ।
धन्वीसंहननोपेतोधर्मात्माभुविविश्रुतः ॥ 11 ॥

विक्रांतोरक्षितानित्यमात्मनश्चपरस्यच ।
लक्ष्मणेनसहभ्रात्राकुशलीनयशास्त्रवित् ॥ 12 ॥

हंतापरबलौघनामचिंत्यबलपौरुषः ।
नहतोराघवश्रशीमान्सीतेः शत्रुनिबर्हणः ॥ 13 ॥

अयुक्तबुद्धिकृत्येनसर्वभूतविरोधिना ।
इहप्रमुक्तारौद्रेणमायामायाविदात्वयि ॥ 14 ॥

शोकस्तेविगतस्सर्वःकल्याणंत्वामुपस्थितम् ।
ध्रुवंत्वांभजतेलक्ष्मीःप्रियंतेप्रीतिकरंशृणुः ॥ 15 ॥

उत्तीर्यसागरंरामस्सहवानरसेनया ।
सन्निविष्टःसमुद्रस्यतीरमासाद्यदक्षिणम् ॥ 16 ॥

दृष्टोमेपरिपूर्णार्थःकाकुत्स्थस्सहलक्ष्मणः ।
सहितैस्सागरांतस्थैर्बलैस्तिष्ठतिरक्षितः ॥ 17 ॥

स तां श्रुत्वा विशाल अक्षि प्रवृत्तिं राक्षस अधिपः ।
एष मंत्रयते सर्वैः सचिवैः सह रावणः ॥ 18 ॥

सतांश्रुत्वाविशालाक्षीः प्रवृत्तिंराक्षसाधिपः ।
एषमंत्रयतेसर्वैस्सचिवैस्सहरावणः ॥ 19 ॥

इतिब्रुवाणासरमाराक्षसीसीतयासह ।
सर्वोद्योगेनसैन्यानांशब्दंशुश्रावभैरवम् ॥ 20 ॥

दंडनिर्घातवादिन्याश्रुत्वाभेर्यामहास्वनम् ।
उवाचसरमासीतामिदंमधुरभाषिणी ॥ 21 ॥

सन्नाहजननीह्येषाभैरवाभीरुः भेरिका ।
भेरीनादंचगंभीरंशृणुतोयदनिःस्वनम् ॥ 22 ॥

कल्प्यंतेमत्तमातंगायुज्यंतेरथवाजिन ।
हृष्यंतेतुरगारूढाःप्रासहस्तस्सहस्रशः ॥ 23 ॥

तत्रतत्रचसन्नद्धास्सपततनिपदातयः ।
अपूर्यंतेराजमार्गास्सैन्यैरद्भुतदर्शनैः ॥ 24 ॥

वेगवभदिन्नदभदिश्चतोयौघैरिवसागरः ।
शस्त्राणांचप्रसन्नानांचर्मणांवर्मणांतथा ॥ 25 ॥

रथवाजिगजानांचभूषितानांचराक्षसाम् ।
संभ्रमोराक्षसामेषहृषितानांतरस्विनाम् ॥ 26 ॥

प्रभांविसृजतांपश्यनानावर्णांसमुत्थिताम् ।
वनंनिर्धहतोघर्मेयथारूपंविभावसोः ॥ 27 ॥

घंटानांशृणुनिर्घोषंरथानांशृणुनिःस्वनम् ।
हयानांहेषमाणानांशृणुतूर्यध्वनिंयथा ॥ 28 ॥

उद्यतायुधहस्तानांराक्षसेंद्रानुयायिनाम् ।
संभ्रमोरक्षसामेषतुमुलोरोमहर्षणः ॥ 29 ॥

श्रीस्त्वांभजतिशोकघ्नीरक्षसांभयमागतम् ।
रामःकमलपत्राक्षोदैत्यानामिववासवः ॥ 30 ॥

निर्जित्यजितक्रोधस्त्वामचिंतपराक्रमः ।
रावणंसमरेहत्वाभर्तात्वाऽधिगमिष्यति ॥ 31 ॥

विक्रमिष्यतिरक्षस्सुभर्तातेसहलक्ष्मणः ।
यथाशत्रुषुशत्रुघ्नोविष्णुनासहवासवः ॥ 32 ॥

हिरामस्यक्षिप्रमंकागतांसतीम् ।
अहंद्रक्ष्यामिसिद्धार्धांत्वांशत्रौविनिपातिते ॥ 33 ॥

अश्रूण्यानंदजानित्वंवर्तयिष्यसिशोभने ।
समागम्यपरिष्वज्यतस्योरसिमहोरसः ॥ 34 ॥

अचिरान्मोक्ष्यतेसीते देवितेजघनंगताम् ।
धृतामेतांबहून्मासान्वेणींरामोमहाबलः ॥ 35 ॥

तस्यदृष्टवामुखंदेवी पूर्णचंद्रमिवोदितम् ।
मोक्ष्यसेशोकजंवारिनिर्मोकमिवपन्नगी ॥ 36 ॥

रावणंसमरेहत्वानचिराद्धेवीः मैथिलीः ।
त्वयासमग्रःप्रिययासुखार्होलप्स्यतेसुखम् ॥ 37 ॥

समागतात्वंवीर्येणमोदिष्यसिमहात्मना ।
सुवर्षेणसमायुक्तायथासस्येनमेदिनी ॥ 38 ॥

गिरिवरमभितोऽनुवर्तमानोहयैवमंडलमाशुयःकरोति ।
तमिहशरणमभ्युपैहिदेवंदिवसकरंप्रभवोह्ययंप्रजानाम् ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रयस्त्रिंशस्सर्गः ॥




Browse Related Categories: