श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रयस्त्रिंशस्सर्गः ।
सीतांतुमोहितांदृष्टवासरमानामराक्षसी ।
आससादाथवैदेहींप्रियांप्रणयिनींसखी ॥ 1 ॥
मोहितांराक्षसेंद्रेणसीतांपरमदुःखिताम् ।
आश्वासयामासतदासरमामृदुभाषिणी ॥ 2 ॥
साहितत्रकृतामित्रंसीतयारक्ष्यमाणया ।
रक्षंतीरावणादिष्टासानुक्रोशादृढव्रता ॥ 3 ॥
साददर्शसखीसीतांसरमानष्टचेतनाम् ।
उपावृत्त्योत्थितांध्वस्तांबडबामिवपांसुलाम् ॥ 4 ॥
तांसमाश्वासयामाससखीस्नेहेनसुव्रता ।
समाश्वसिहिवैदेही माभूत्तेमवसोव्यथा ॥ 5 ॥
उक्तायद्रावणेनत्वंप्रत्युक्तश्चस्वयंत्वया ।
सखीस्नेहेनतभदीरुमयासर्वंप्रतिश्रुतम् ॥ 6 ॥
लीनयागहनेशून्येभयमुत्सृज्यरावणात् ।
तवहेतोर्विशालाक्षी नहिमेजीवितंप्रियम् ॥ 7 ॥
ससंभ्रांतश्चनिष्क्रांतोयत्कृतेराक्षसाधिपः ।
तच्चमेविदितंसर्वमभिनिष्क्रम्यमैथिलिः ॥ 8 ॥
नशक्यंसौप्तिकंकर्तुंरामस्यविदितात्मनः ।
वधश्चपुरुषव्याघ्रेतस्मिन्नैवोपपद्यते ॥ 9 ॥
नत्वेववानराहंतुंशक्याःपादपयोधिपः ।
सुरादेवर्षभेणेवरामेणहिसुरक्षिताः ॥ 10 ॥
दीर्घवृत्तभुज्शीमान्महोरस्कःप्रतापवान् ।
धन्वीसंहननोपेतोधर्मात्माभुविविश्रुतः ॥ 11 ॥
विक्रांतोरक्षितानित्यमात्मनश्चपरस्यच ।
लक्ष्मणेनसहभ्रात्राकुशलीनयशास्त्रवित् ॥ 12 ॥
हंतापरबलौघनामचिंत्यबलपौरुषः ।
नहतोराघवश्रशीमान्सीतेः शत्रुनिबर्हणः ॥ 13 ॥
अयुक्तबुद्धिकृत्येनसर्वभूतविरोधिना ।
इहप्रमुक्तारौद्रेणमायामायाविदात्वयि ॥ 14 ॥
शोकस्तेविगतस्सर्वःकल्याणंत्वामुपस्थितम् ।
ध्रुवंत्वांभजतेलक्ष्मीःप्रियंतेप्रीतिकरंशृणुः ॥ 15 ॥
उत्तीर्यसागरंरामस्सहवानरसेनया ।
सन्निविष्टःसमुद्रस्यतीरमासाद्यदक्षिणम् ॥ 16 ॥
दृष्टोमेपरिपूर्णार्थःकाकुत्स्थस्सहलक्ष्मणः ।
सहितैस्सागरांतस्थैर्बलैस्तिष्ठतिरक्षितः ॥ 17 ॥
स तां श्रुत्वा विशाल अक्षि प्रवृत्तिं राक्षस अधिपः ।
एष मंत्रयते सर्वैः सचिवैः सह रावणः ॥ 18 ॥
सतांश्रुत्वाविशालाक्षीः प्रवृत्तिंराक्षसाधिपः ।
एषमंत्रयतेसर्वैस्सचिवैस्सहरावणः ॥ 19 ॥
इतिब्रुवाणासरमाराक्षसीसीतयासह ।
सर्वोद्योगेनसैन्यानांशब्दंशुश्रावभैरवम् ॥ 20 ॥
दंडनिर्घातवादिन्याश्रुत्वाभेर्यामहास्वनम् ।
उवाचसरमासीतामिदंमधुरभाषिणी ॥ 21 ॥
सन्नाहजननीह्येषाभैरवाभीरुः भेरिका ।
भेरीनादंचगंभीरंशृणुतोयदनिःस्वनम् ॥ 22 ॥
कल्प्यंतेमत्तमातंगायुज्यंतेरथवाजिन ।
हृष्यंतेतुरगारूढाःप्रासहस्तस्सहस्रशः ॥ 23 ॥
तत्रतत्रचसन्नद्धास्सपततनिपदातयः ।
अपूर्यंतेराजमार्गास्सैन्यैरद्भुतदर्शनैः ॥ 24 ॥
वेगवभदिन्नदभदिश्चतोयौघैरिवसागरः ।
शस्त्राणांचप्रसन्नानांचर्मणांवर्मणांतथा ॥ 25 ॥
रथवाजिगजानांचभूषितानांचराक्षसाम् ।
संभ्रमोराक्षसामेषहृषितानांतरस्विनाम् ॥ 26 ॥
प्रभांविसृजतांपश्यनानावर्णांसमुत्थिताम् ।
वनंनिर्धहतोघर्मेयथारूपंविभावसोः ॥ 27 ॥
घंटानांशृणुनिर्घोषंरथानांशृणुनिःस्वनम् ।
हयानांहेषमाणानांशृणुतूर्यध्वनिंयथा ॥ 28 ॥
उद्यतायुधहस्तानांराक्षसेंद्रानुयायिनाम् ।
संभ्रमोरक्षसामेषतुमुलोरोमहर्षणः ॥ 29 ॥
श्रीस्त्वांभजतिशोकघ्नीरक्षसांभयमागतम् ।
रामःकमलपत्राक्षोदैत्यानामिववासवः ॥ 30 ॥
निर्जित्यजितक्रोधस्त्वामचिंतपराक्रमः ।
रावणंसमरेहत्वाभर्तात्वाऽधिगमिष्यति ॥ 31 ॥
विक्रमिष्यतिरक्षस्सुभर्तातेसहलक्ष्मणः ।
यथाशत्रुषुशत्रुघ्नोविष्णुनासहवासवः ॥ 32 ॥
हिरामस्यक्षिप्रमंकागतांसतीम् ।
अहंद्रक्ष्यामिसिद्धार्धांत्वांशत्रौविनिपातिते ॥ 33 ॥
अश्रूण्यानंदजानित्वंवर्तयिष्यसिशोभने ।
समागम्यपरिष्वज्यतस्योरसिमहोरसः ॥ 34 ॥
अचिरान्मोक्ष्यतेसीते देवितेजघनंगताम् ।
धृतामेतांबहून्मासान्वेणींरामोमहाबलः ॥ 35 ॥
तस्यदृष्टवामुखंदेवी पूर्णचंद्रमिवोदितम् ।
मोक्ष्यसेशोकजंवारिनिर्मोकमिवपन्नगी ॥ 36 ॥
रावणंसमरेहत्वानचिराद्धेवीः मैथिलीः ।
त्वयासमग्रःप्रिययासुखार्होलप्स्यतेसुखम् ॥ 37 ॥
समागतात्वंवीर्येणमोदिष्यसिमहात्मना ।
सुवर्षेणसमायुक्तायथासस्येनमेदिनी ॥ 38 ॥
गिरिवरमभितोऽनुवर्तमानोहयैवमंडलमाशुयःकरोति ।
तमिहशरणमभ्युपैहिदेवंदिवसकरंप्रभवोह्ययंप्रजानाम् ॥ 39 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रयस्त्रिंशस्सर्गः ॥