श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ एकोनविंशत्यधिकशततमस्सर्गः ।
अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।
पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ 1 ॥
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।
यथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया ॥ 2 ॥
रमेऽहं कथया ते तु दृढं मधुरभाषिणि ।
रविरस्तङ्गतश्श्रीमानुपोह्य रजनीं शिवाम् ॥ 3 ॥
दिवसं प्रतिकीर्णानामाहारार्थं पतत्रिणाम् ।
सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ॥ 4 ॥
एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः ।
सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ॥ 5 ॥
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।
कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः ॥ 6 ॥
अल्पपर्णा हि तरवो घनीभूतास्समन्ततः ।
विप्रकृष्टेन्द्रिये देशेऽस्मिन्न प्रकाशन्ति वै दिशः ॥ 7 ॥
रजनीचरसत्त्वानि प्रचरन्ति समन्ततः ।
तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ 8 ॥
सम्प्रवृत्तानिशा सीते नक्षत्रसमलङ्कृता ।
ज्योत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे ॥ 9 ॥
गम्यतामनुजानामि रामस्यानुचरी भव ।
कथायन्त्या हि मधुरं त्वयाऽहं परितोषिता ॥ 10 ॥
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।
प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥ 11 ॥
सा तथा समलङ्कृत्य सीता सुरसुतोपमा ।
प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ 12 ॥
तथा तु भूषितां सीतां ददर्श वदतां वरः ।
राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ॥ 13 ॥
न्यवेदयत्ततस्सर्वं सीता रामाय मैथिली ।
प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥ 14 ॥
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः ।
मैथिल्यास्सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥ 15 ॥
ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः ।
अर्चितस्तापसै स्सिद्धैरुवास रघुनन्दनः ॥ 16 ॥
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।
आपृच्छेतां नरव्याघ्रौ तापसान्वनगोचरान् ॥ 17 ॥
तावूचुस्ते वनचरास्तापसा धर्मचारिणः ।
वनस्य तस्य सञ्चारं राक्षसैस्समभिप्लुतम् ॥ 18 ॥
रक्षांसि पुरुषादानि नानारूपाणि राघव ।
वसन्त्यस्मिन्महारण्ये व्यालाश्च रुधिराशनाः ॥ 19 ॥
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ।
अदन्त्यस्मिन्महारण्ये तान्निवारय राघव ॥ 20 ॥
एष पन्था महर्षीणां फलान्याहरतां वने ।
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ 21 ॥
इतीव तैः प्राञ्जलिभिस्तपस्विभिर्द्विजैः कृतस्वस्त्ययनः परन्तपः ।
वनं सभार्यः प्रविवेश राघवस्सलक्ष्मणस्सूर्य इवाभ्रमण्डलम् ॥ 22 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे एकोनविंशत्यधिकशततमस्सर्गः ॥